Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
धर्मार्थकामान्संदध्या अन्योन्यमविरोधितान् । पालयख प्रजाः सर्वाः स्मृत्वा स्मृत्वा क्षणे क्षणे ॥२॥ मत्रिभिः। सेवकैश्चैव पीड्यमानां प्रजां नृप ।क्षणे क्षणे पालयेथाः प्रमादं तत्र माचरेः॥१०॥ अङ्गरक्षान्सौविदल्लान्म|त्रिणो दण्डनायकान् । सूपकारान्द्वारपालान्कुर्याद्वंशक्रमागतान् ॥ ११॥ वर्जयेदंगयां द्यूतं वेश्यादासीपर-1 स्त्रियः। सुरां वचनपारुष्यं तथा चैवार्थदूषणं ॥१२॥ वृथाव्यां दण्डपारुष्यं वाद्यं गीतं तथाधिकं । नृत्यावलोकनं भूयो दिवानिद्रांच संततं ॥ १३ ॥ परोक्षनिन्दा व्यसनान्येतानि परिवर्जयः । न्यायान्यायपरामर्श नीरक्षीरविवेचने ॥१४॥न पक्षपातो नोद्वेगस्त्वया कार्यः कदाचन । स्त्रीणां श्रीणां विपक्षाणां नीचानां रसितागसां॥ १५॥ मूर्खाणां चैव लुब्धानां मा विश्वासं कृथाः कचित् । देवगुर्वाराधने च खप्रजानां च पालने ॥१६॥ पोष्यपोषणकार्ये च मा कुर्याः प्रतिहस्तकान् । कार्यः संपदि नोत्सेको धैर्यच्छेदो नचापदि ॥१७॥ एतद्यं निगदितं बुधैरुत्तमलक्षणं । शास्त्रैदानः कृपा भोज्यैः प्रासादैश्च जलाशयः॥१८॥ यशस्कार रमाभिश्च पूरयेः सकलामिला। घातयः शत्रुवंशानां पोषयेः सुहृदन्वयं ॥ १९॥ पालयेश्च प्रजाः सर्वाः खपरापेक्षयोज्झितः। दृष्टान्प्रजापीडकांश्च तथा राज्यपदैषिणः ॥२०॥ गुरुदेवभिदः शत्रून् चौरान्प्राणैर्वियोजयेः।
इत्येता भवता शिष्या करणीया दृढात्मना ॥ २१॥ दुष्टस्य दण्डः खजनस्य पूजा न्यायेन कोशस्य च संप्रभवृद्धिः। अपक्षपातोऽरिषु राज्यरक्षा पञ्चैव यज्ञाः कथिता नृपाणां ॥ २२॥” इत्येवं शिष्ययित्वा नृपं पट्टाश्वं
पहस्तिनं पहरथं समारोपयेत् । पदावादीनां अभिषेकविधिः पुरोऽभिधारयते । ततो दिग्विजयादि कर्म
Jan Education interne
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534