Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
कादि नास्ति किंतु महानृपसामन्तमण्डलेश्वरादिदत्तं वस्त्रं दण्डं खड्गादि तत्पदारोपहेतु । अस्योपकरणानि
"तुरगारोहणं चैव दण्डादि क्षितिपार्पितं । पत्तिभिः सैन्यसंयोगो वाद्यं डिण्डिम एककः॥१॥” अस्य | शिष्या-"खामिभक्तिः सदा कार्या कार्य न्यायविचारणं । सर्वोपि ग्राम्यलोकस्तु ज्ञातव्यो निजवन्धुवत् । ॥२॥ सर्वैश्च विनयः कार्यः प्रियवादित्वमेव च । क्रुद्धेषु कार्या ग्राम्येषु न कार्या भवता क्रुधा ॥३॥ नृपादौर स्वादानेन रक्षणीयो जनस्त्वया । दण्ड्या अदण्ड्या ग्राम्याश्च वाच्याः खामिपुरस्त्वया ॥४॥ अहर्निशं रक्ष-18 णीया ग्राम्या जागरणात्त्वया । पान्थानां यात्रिकाणां च न विधाप्य उपद्रवः ॥५॥ कर्षणापाशुपाल्याच भृतिम्यिकरात्तव । इत्यादिशिक्षणीयोसौ गुरुणा ग्रामचिन्तकः॥६॥” इति पदारोपे ग्रामाधिपतिपदारोपः॥ ॥ अथ मन्त्रित्वं । मत्रिणोपि सर्वकार्यकारिणः शौण्डीर्यमतिमन्तो नृपस्य जीवितमिव भवन्ति ।। मन्त्रिपदयोग्यपुरुषलक्षणं यथा-"कुलीनः कुशलो धीरो दाता सत्यसमाश्रितः । न्यायकनिष्ठो मेधावी शूरः | शास्त्रविचक्षणः ॥१॥ सर्वव्यसननिर्मुक्तो दण्डनीतिविशारदः । पुरुषान्तरविज्ञाता सत्यासत्यपरीक्षकः॥२॥ कृतापराधे सोदर्ये शत्रावपि समाशयः । धर्मकर्मरतो नित्यमनागतविमर्शकः ॥ ३ ॥ अत्यत्तिक्यादिमतिषु। चतसृष्वपि बद्धधीः। भक्तः षड्दर्शनेष्वेव गुरुदेवाद्युपासकः॥४॥ नित्यमाचारनिरतः पापकर्मपराङ्मुखः । सदा विचारयन्यायं नीरक्षीरविवेचनं ॥५॥ कुलक्रमागतं मन्त्रं नृपयोग्यमुदीरयन् । ईदृशः पुरुषो मत्री जायते राज्यवृद्धिकृत् ॥६॥ ॥ अथ मण्डलाधिपतिदेशमण्डलाधिपतिग्रामाधिपतिमन्त्रिसेनापतिकर्माधि-15
CICIASCII-OCOS
For Private & Personal use only
|www.jainelibrary.org
Jan Education Internal

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534