Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
Jain Education Interi
च जयाय च विजयाय च स्थिराय च अक्षयाय च प्रबोधाय च सुबोधाय च सुतत्वाय च सुप्रज्ञप्ताय च न मोनमः सर्वार्हत्सिद्धाचार्योपाध्यायसाधुभ्यः सर्वस्मिन्प्राणिनि सुप्रतिष्ठितानि अणुव्रतानि षट्कर्मनिरतोस्त्वयं जन्तुः सत्क्रियोस्तु सद्गुणोस्तु षड्व्रतोस्तु सन्मतोस्तु सद्गतिरस्तु अर्ह ॐ इति मन्त्रं वासक्षेपपूर्व त्रिः पठेत् । ततः संघस्य वासाक्षतदानं पूर्ववत् पौष्टिकदण्डकपठनं च । ततः शिष्यं पुरः संस्थाप्य संघप्रत्यक्षमि - त्यनुज्ञां दद्यात् । यथा । कार्य वत्स त्वया नित्यं दृढसम्यक्त्वधारणं । उपासनं च साधूनां द्वादशव्रतपालनं ॥ १ ॥ षट्कर्माणि विधेयानि वेदागमसुशीलनं । यद्वर्जितं जिनमते कार्य प्राणात्यये न तत् ॥ २ ॥ कार्याः षोडश संस्कारा गृहिणां भवता सता । अभावे व्रतिनां चैव विधेयं व्रतरोपणं ॥ ३ ॥ शान्तिकं पौष्टिकं चैव प्रतिष्ठोद्यापनं तथा । बलिरावश्यकं चैव योगोज्झिततपोविधिः ॥ ४ ॥ गृहिणां च तथाचार्य पदाद्यारोपणं पुनः । प्रायश्चित्तविचारस्य कर्माण्येतानि सर्वदा ॥ ५ ॥ कार्याणि यतियोग्यं च नान्यत्कर्म समाचारैः । इत्यनुज्ञाप्य तं शिष्यं तिलकेनापि विवर्धयेत् ॥ ६ ॥ एवमनुज्ञां दत्वा शिष्यं गुरुः स्वयं नमस्कुर्यात् । संघोपि नमोस्तु वचनपूर्वकं नव्याचार्य नमस्कुर्यात् । अत्रोत्सवोपि सर्वः सूरिपदसदृशः । शिष्यो गुरुं स्वर्णकङ्कणमु द्रावस्त्रैः पूजयेत् । इति पदारोपे आचार्यपदारोपविधिः ॥ ॥ उपाध्यायपदयोग्यो यथा । वेदपारगतः शान्तो द्वादशव्रतधारकः । जितश्रमः क्षमी दाता दयालुः सर्वशास्त्रवित् ॥ १ ॥ गुरुभक्तः प्रजामान्यः कुशलः सरलः सुधीः । कुलीन ईदृशो विप्र उपाध्यायपदेऽर्हति ॥ २ ॥ ॥ अथोपाध्यायपदारोपणविधिः । तत्र पौष्टिकं वि
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534