________________
Jain Education Intern
सज्झाओ ४ । झाणं ५ उस्सग्गो ६ विय अग्भिन्तरओ तवो होइ ॥ १ ॥' प्रायश्चित्तं दशविधं सर्वदैव तत्सं| स्मरणपालनं । विनयो गुरुषु नम्रता । वैयावृत्यं साधुदेवताज्ञानोपकरणगुर्वादीनां शुश्रूषणारूपं । तथैव खाध्यायः वाचनाप्रच्छनाम्नाय आगमलक्षणः ४ | ध्यानं धर्मशुक्लरूपं ५ । एतयोर्विचार आगमादवसेयः ग्रन्थविस्तरभयान्नोक्तः । उत्सर्गः कायोत्सर्गः ६ स चाग्रे कथयिष्यते । इदमाभ्यन्तरं तपो भवति ॥ बाह्यं तपो यथा'अणसण १ मूणोयरिआ २ वित्तीसंखेवणं ३ रसचाओ ४ । कायकिलेसो ५ संलीणया य ६ बज्झो तवो होह ॥ १ ॥ अनशनमुपवासस्तग्रहणेन चतुर्विधाहारपरित्यागादि विजानीयात् १, अनोदर्य खक्षुधोऽल्पाहारः । तत्रैकासिकाष्टकवलाद्यन्तर्भवति २, वृत्तेः संक्षेपणं बहुवेलं भोजनत्यागः तत्रैकभक्ताद्यन्तर्भवति ३, रसत्यागः विकृत्यादिवर्जनं, अत्र निर्विकृतिकाचाम्लादि ज्ञेयं ४, कायक्लेशः लोचकरणनिरावरणताजपनादिपरीषहसहनं च ५, संलीनता हस्तपादाद्यवयवगुप्तिरभ्रमणता च ६, इति बाह्यं तपो भवति ॥ वीर्याचारो यथा - 'अणिमूहियबल विरिओ १ पडिक्कमे जो अ जस्स आयारो २ । जुंजइ य जहाठाणं ३ नायवो वीरियायारो ॥ १ ॥' अनिगूढबलवीर्यः अगोपितखशक्तिस्तपोवैयावृत्यकरणादौ १, यो यस्यातिचारस्तं प्रतिक्रमेत् २, यत् यथास्थानं तत्तथास्थानं युनक्ति ३, अत्र यत्पातकं यथा कृतं तत्प्रायश्चित्तविशुद्ध्या तपो मूलपारं| चिकादिभिः शोधयतीत्यर्थः । इति वीर्याचारो ज्ञातव्यः ॥ एवं पञ्चखप्याचारेषु विपरीतकरणात् मनोवाक्कायैस्तदूषणात् अकरणात् प्रतिपन्नत्यागात् अतिचारा भवन्ति ते चालोच्या हेयाश्च । इति प्रतिक्रमण आलो
For Private & Personal Use Only
www.jainelibrary.org