________________
त ख्यानपरिज्ञा ३० प्रायश्चित्तकारिता ३१ मरणान्ताराधना ३२ रूपैः ॥ त्रयस्त्रिंशता आशातनाभिः पूर्वोक्ताभिरनन्तरोक्ताभिः । तत्र यः सम्यग्दर्शनाद्यवाप्तिलक्षणस्तस्याशातना खण्डनाः आशातनास्ताश्चैता:-शिव्यको निःकारणं खाधिकपुरतोऽतिनिकटागन्ता आशातनांकुरुते विनयभङ्गादिदोषात् १ पााभ्यामेव मन्ता पूर्वदोषात् २ पृष्ठतोप्यासन्नं गन्ता एवमेव तत्र निःश्वासक्षुतकासकरणपातादयो दोषाः ३ एवं पुरःस्थाता ४ पार्श्वस्थाता ५ पृष्ठस्थाता ६ तथा पुरतो निषीदन् ७ पार्श्वतो निषीदन् ८ पृष्ठतो निषीदन् ९ तथा बहिर्विहारभूमौ गतः पुरतः पूर्णमाचामन् १० पूर्वमालोचयन् ११ व्याहरतो गुरोर्जाग्रदप्यप्रतिश्रोता १२ गुरोः संलाप्यं कंचित्पूर्वमेव संलापयति १३ अन्नादि गृहीत्वा गतः प्रथमं शिष्यस्यालोचयन् १४ प्रतिगृहीताशनादि प्रथम |शिष्यस्योपदर्शयन् १५ अशनादिना प्रथम शिष्यं निमन्त्रयिता १६ गुरुमनापृच्छयाशनादिनाऽपरसंविभाग|कर्ता १७ भोजनं कुर्वन् बृहत्कवलैः सपत्रशाकलिग्धमनोज्ञाद्यभ्यवहा १८ गुरुणा व्याहृतोऽप्यप्रतिश्रोता। प्रतिश्रवणं पूर्व रात्रावुक्तमिदं तु दिवस इति विशेषः १९ बृहच्छन्देन खरनिष्ठुरवक्ता २० गुरुणा व्याहृतो यत्रस्थः शृणोति तत्रस्थ एवालापं ददाति २१ आइतः सन् किमिति वक्ता । यतो मस्तकेन वन्दे इति तत्र वाच्यम् २२ स्वमिति एकवचनवक्ता २३ प्रेरणायां गुरुणा क्रियमाणायां ग्लानस्य किं न करोषीति अभि
हितस्त्वं किं न करोषीति, अथवा अलसस्त्वमित्युक्ते त्वमेवालस इति प्रतिवक्ता २४ गुरौ कथां कथयति आ.दि.५०1 उपहतमनास्त्वमिति वक्ता २५ न स्मरसि नायमर्थोस्येति वक्ता २६ अहं कथां कथयामि तिष्ठ त्वं तावदिति
AUGGOOGON-SCAR-कारक
lain Education Inter
*
For Private & Personal Use Only
www.jainelibrary.org