Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
विभागः २ तपोविधि:
आचार
18॥२॥ तपखिनां हृदयभूषणकारित्वात्कनकावली । तस्यां प्रथमं चतुर्थं कृत्वा पारणं ततः षष्ठं कृत्वा पारणं किराततः अष्टमं कृत्वा पारणं इत्येका काहलिका पूर्यते । ततोष्टौ षष्ठानि कुर्यात् । इत्येकं दाडिमकं पूर्यते । तत
एकमुपवासं कृत्वा पारयेत् । ततो द्वावुपवासौ कृत्वा पारयेत् ततस्त्रीन् ततश्चतुरः पञ्च षट् सप्त अष्टौ नव ॥३४८॥ दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडशोपवासान् क्रमेण कृत्वा पारयेत् । इत्येका लता पू.
यते । ततश्चतुस्त्रिंशत्यष्टानि विद्ध्यात् । एतावता पदकं पूर्यते । ततः षोडशोपवासान्कृत्वा पारयेत् । ततः पञ्चदशचतुर्दशत्रयोदशद्वादशएकादशदशनवअष्टसप्तषट्पञ्चचतुरस्त्रीन्द्वौएकं उपवासान्कृत्वा पारयेत् इत्येवं द्वितीया लता पूर्यते । ततोष्टौ षष्ठानि विद्ध्यात् । इति द्वितीयं दाडिमकं पूर्यते । ततोऽष्टमं ततः षष्ठं ततहै श्चतुर्थ कुर्यात् । इति द्वितीया काहलिका पूर्यते ॥ एककाहलिकादाडिमकलतासमाप्तौ पदकं कृत्वा ततः प्रति
लोमगत्या लतादाडिमककाहला विधीयन्ते । एते चोपवासाः चतुर्थाष्टमषष्ठाद्याअपि उक्तप्राप्तपारणकाः निरन्तरा एव विधेयाः। एतन्मध्ये पारणका अष्टाशीतिः उपवासाश्चतुरशीत्युत्तराणि त्रीणि शतानि सर्वाग्रेण एकोनवर्षेण त्रिभिर्मासैःद्वाविंशत्यादिनः पूर्यते । एतन्मध्ये पारणकं चतुर्धा सर्वकामिताहारा निर्विकृतिकेन वा अलेपद्रव्येण वा आचाम्लेन वा । यन्त्रकन्यासः। उद्यापने उपवाससंख्यया सुवर्णकावलिमालया बृहत्लात्रविधि विधाय प्रतिमाकण्ठं भूषयेत् । षड्कृितिढौकनं यतिभ्यो वस्त्रान्नपात्रदानं संघवात्सल्यं संघ- पूजा च । एतत्फलं स्वर्गभोगमोक्षप्राप्तिः । इति श्राद्धकरणीयमागाढं कनकावलीतपः॥ १४ ॥ ॥ अथ मुक्ता
#CONOMICROMAN
॥३४८॥
Jain Education Interna
For Private & Personal Use Only
|www.jainelibrary.org

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534