Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 436
________________ Jain Education Internation एकद्विन्युपवासतो शुभ इमे संपादिते काहले अष्टाष्टाष्टमसंपदा विरचयेत् युक्त्या पुनर्दाडिमे । एकायैः खलु षोडशान्तगणितैः श्रेणीद्वयं च क्रमात् पूर्वं स्यात्तरलोष्टमैरपि चतुस्त्रिंशन्मितैर्निर्मलैः ॥ ३ ॥ रत्नानां गुणमयानामावली रत्नावली । तत्र प्रथमकाहलिकायां एक उपवासः ततः पारणकं द्वौ उपवासौ पारणकं त्रय उपवासाः पारणकं । ततो दाडिमके अष्टाष्टमानि कुर्यात् । ततो लतायां एक उपवासः पारणकं द्वौ उपवासौ पारणकं एवं क्रमेण पारणकान्तरिताः षोडशपर्यन्ता निरन्तरा उपवासाः । ततः पदके चतुस्त्रिंशदष्टमानि ततो विलोमतया षोडशाद्येकान्त उपवासाः पारणान्तरिता निरन्तराः इति द्वितीया लता पूर्यते । पारणक| दिनानि अष्टाशीतिः ८८ । यन्त्रकन्यासः । उद्यापने बृहत्स्नात्रविधिपूर्वकं बहुमूल्यनिस्त्रासनिर्मलनानाप्रकार| रत्नजातिमयी रत्नमाला जिनप्रतिमाकण्ठे समारोप्या संघवात्सल्यं संघपूजा च । एतत्फलं विविधसंतानलक्ष्मीप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं रत्नावलीतपः ॥ १६ ॥ ॥ अथ लघुसिंहनिःक्रीडिततपः । गच्छन्सिहो यथा नित्यं पश्चाद्भागं विलोकयेत् । सिंहनिःक्रीडिताख्यं च तथा तप उदाहृतं ॥ १ ॥ एकक त्रियुग्मै युगगुणविशिखैर्वेदषट्पञ्चताक्ष्यैः षद्कुंभ्यश्वैर्निघानाष्टनिधिहयगजैः षट्हयैः पञ्चषभिः । वेदैर्बाणैर्युगद्वित्रिशशिभुजकुभिश्चोपवासैश्च मध्ये कुर्वाणानां समन्तादशनमिति तपः सिंहनिःक्रीडितं स्यात् ॥ २ ॥ सिंहवन्नि:क्रीडितं पश्चादवलोकनं तथैव तपसा परिवृत्तोपवासकरणं सिंहनिःक्रीडितं । तत्र प्रथममेकोपवासः पुनः पारणकं द्वौ उपवासौ पारणकं पुनरेकोपवासः पारणकं त्रय उपवासाः पारणकं द्वौ उपवासौ पारणकं चत्वार For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534