________________
Jain Education Internation
एकद्विन्युपवासतो शुभ इमे संपादिते काहले अष्टाष्टाष्टमसंपदा विरचयेत् युक्त्या पुनर्दाडिमे । एकायैः खलु षोडशान्तगणितैः श्रेणीद्वयं च क्रमात् पूर्वं स्यात्तरलोष्टमैरपि चतुस्त्रिंशन्मितैर्निर्मलैः ॥ ३ ॥ रत्नानां गुणमयानामावली रत्नावली । तत्र प्रथमकाहलिकायां एक उपवासः ततः पारणकं द्वौ उपवासौ पारणकं त्रय उपवासाः पारणकं । ततो दाडिमके अष्टाष्टमानि कुर्यात् । ततो लतायां एक उपवासः पारणकं द्वौ उपवासौ पारणकं एवं क्रमेण पारणकान्तरिताः षोडशपर्यन्ता निरन्तरा उपवासाः । ततः पदके चतुस्त्रिंशदष्टमानि ततो विलोमतया षोडशाद्येकान्त उपवासाः पारणान्तरिता निरन्तराः इति द्वितीया लता पूर्यते । पारणक| दिनानि अष्टाशीतिः ८८ । यन्त्रकन्यासः । उद्यापने बृहत्स्नात्रविधिपूर्वकं बहुमूल्यनिस्त्रासनिर्मलनानाप्रकार| रत्नजातिमयी रत्नमाला जिनप्रतिमाकण्ठे समारोप्या संघवात्सल्यं संघपूजा च । एतत्फलं विविधसंतानलक्ष्मीप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं रत्नावलीतपः ॥ १६ ॥ ॥ अथ लघुसिंहनिःक्रीडिततपः । गच्छन्सिहो यथा नित्यं पश्चाद्भागं विलोकयेत् । सिंहनिःक्रीडिताख्यं च तथा तप उदाहृतं ॥ १ ॥ एकक त्रियुग्मै युगगुणविशिखैर्वेदषट्पञ्चताक्ष्यैः षद्कुंभ्यश्वैर्निघानाष्टनिधिहयगजैः षट्हयैः पञ्चषभिः । वेदैर्बाणैर्युगद्वित्रिशशिभुजकुभिश्चोपवासैश्च मध्ये कुर्वाणानां समन्तादशनमिति तपः सिंहनिःक्रीडितं स्यात् ॥ २ ॥ सिंहवन्नि:क्रीडितं पश्चादवलोकनं तथैव तपसा परिवृत्तोपवासकरणं सिंहनिःक्रीडितं । तत्र प्रथममेकोपवासः पुनः पारणकं द्वौ उपवासौ पारणकं पुनरेकोपवासः पारणकं त्रय उपवासाः पारणकं द्वौ उपवासौ पारणकं चत्वार
For Private & Personal Use Only
ww.jainelibrary.org