________________
Jain Education Inter
उपधानतपः ९ श्राद्धप्रतिमातपः २ यतिप्रतिमातपः ३ योगतपः ४ इन्द्रियजयतषः ५ कषायजयतपः ६ योगशुद्वितपः ७ धर्मचक्रतपः ८ अष्टाहिकातपोद्वयं ९।१० कर्मसूदनतपः ११ इति जिनोक्तानि तपांसि || " कल्याणकानि ज्ञानं च दर्शनं चरणं तथा । चान्द्रायणं वर्धमानं ततः परमभूषणं ॥ १ ॥ दीक्षा च ज्ञाननिर्वाणे | तथोनोदरिकातपः । संलेखना सर्ववीरं तथा च कनकावली ॥ २॥ मुक्तावली रत्नमाला सिंहनिःक्रीडितद्वयं । भद्रं चैव महाभद्रं ततो भद्रोत्तरं पुनः ॥ ३ ॥ ततश्च सर्वतोभद्रं गुणरत्नमथाङ्गकं । सांवत्सरं नन्दिसरः पुण्ड| रीकं तथैव च ॥ ४ ॥ माणिक्यप्रस्तारी पद्मोत्तरसमवसरणयुगलानि । गणधरमशोकवृक्षं सप्ततिशतकं नम|स्कारं ॥ ५ ॥ पूर्वचतुर्दशकमथो एकावलिका च दशविधो धर्मः । पञ्चपरमेष्ठिसंज्ञा पञ्चम्याद्वित्यमथ संघः ॥ ६ ॥ आधीयते च मनुजैः सर्गादिफलार्थिभिर्विमलवृत्तैः । तस्माद्वनं महाघनमथ वर्गश्रेणिमेरुतपः ॥ ७ ॥ द्वात्रिंशत्कल्याणकमघच्यवनजन्मलोकनालीनि । कल्याणाष्टाहिकमथ सूर्यायनमन्तरा वज्रं ॥ ८ ॥ आचाम्लं | वर्धमानं ततस्तपः स्यान्महावीरं । माघश्रेणिर्लक्षप्रतिपद्गीतार्थकथिततपः ॥ ९ ॥ साधुसाध्वीश्रावकाणां श्रा| विकाणां महात्मनां । तपांस्याचरणीयानि गीतार्थकथितानि वै ॥ १० ॥ कल्याणकतपः १ ज्ञानतपः २ दर्शनतपः ३ चारित्रतपः ४ चान्द्रायणतपः ५ वर्धमानतपः ६ परमभूषणतपः ७ दीक्षातपः ८ ज्ञानतपः ९ निर्वातपः १० ऊनोदरीतपः ११ संलेखनातपः १२ सर्वसंख्याश्रीमहावीरतपः १३ कनकावलीतपः १४ मुक्तावली - तपः १५ रत्नावलीतपः १६ लघुसिंहनिःक्रीडिततपः १७ बृहत्सिंहनिःक्रीडिततपः १८ भद्रतपः १९ महाभद्र -
For Private & Personal Use Only
wwww.jainelibrary.org