Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ देवाधिदेवकाण्डः । अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मापरमेष्ट्यधीश्वरः । शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थकरस्तीर्थकरो जिनेश्वरः ॥ स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधदपुरुषोत्तमवीतरागाप्ताः ॥ Acharya Shri Kailassagarsuri Gyanmandir उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोऽथ महायशाः || विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः ॥ ง For Private and Personal Use Only २४ एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः || सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्चाथ शीतलः । श्रेयांसो वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ धर्मः शान्तिः कुंथुररो मल्लिश्च मुनिसुव्रतः । नमिर्नेमिः पार्श्वो वीरश्चतुर्विंशतिरर्हताम् || ऋषभो वृषभः श्रेयाञ्श्रेयांसः स्यादनन्तजिदनन्तः । सुविधिस्तु पुष्पदन्तो मुनिसुव्रतसुव्रतौ तुल्यौ || २९ ३० ३१ ३२ ३३ अरिष्टनेमिस्तु नेमिर्वीरञ्चरमतीर्थकृत् । महावीरो वर्धमानो देवार्थो ज्ञातनन्दनः || गणा नवास्यर्षिसंघा एकादश गणाधिपाः । इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गौतमाः || १ व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः । अचलभ्राता मेतार्यः प्रभासश्च पृथकुलाः ॥ केवली चरमो जम्बूस्वाम्यथ प्रभवत्प्रभुः । शय्यंभवो यशोभद्रः संभूतविजयस्ततः || भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥ इक्ष्वाकुकुलसंभूताः स्याद्वाविंशतिरर्हताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भव | नाभिश्च जितशत्रुश्च जितारिरथ संवरः । मेघो धरः प्रतिष्ठश्च महासेननरेश्वरः ॥ सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो भानुश्च विश्वसेनराट् || सूरः सुदर्शनः कुम्भः सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥ ३४ ३५ ३६ ३७ ३८ ४२ ४३ देवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ नन्दा विष्णुर्जया श्यामा सुयशाः सुत्रताचिरा । श्रीदेवी प्रभावती च पद्मा वप्रा शिवा तथा ||४० वामा त्रिशला क्रमतः पितरो मातरोऽर्हताम् । स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः || ४१ तुम्बरुः कुसुमचापि मातङ्गो विजयोऽजितः । ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिनराः ॥ गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च । भृकुटिर्गोमेधः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥ चक्रेश्वर्यर्जितवला दुरितारिव कालिका | महाकाली श्यामा शान्ता भृकुटिश्च सुतारका ॥ ४४ अशोका मानवी चण्डा विदिता चाङ्कुशा तथा । कंदर्पा निर्वाणी वला धारिणी धरणप्रिया || ४५ नरदत्ताथ गान्धार्यम्बिंका पद्मावती तथा । सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः ॥ ॥ १४६ वृषो गजोऽश्वः लवग: क्रौञ्चोऽब्जं स्वस्तिकः शशी । मकरः श्रीवत्सः खङ्गी महिषः सूकरस्तथा ४७ श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ४८ रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपार्श्वे कनकत्विषोऽन्ये ॥ 9. २५ २६ २७ २८ ४९ ५० ५१ १. 'सर्वीय'. २. 'संभवौ'. २. 'नेमी' नान्तोऽपि ४. 'अजिता ' इत्यपि ५. 'अच्युतदेवी' इत्यपि. ६. 'सुतारा' इत्यपि. ७. 'कूष्माण्डी' इत्यपि.

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 180