Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ४२.
* शासनसम्राजामिह समुदाय मेरुपर्वतीपम्ये एक
कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात सूचित्रमा भीड
आचार्यश्रीकस्तूरसूरिविशेषः
वि.सं. २०७५ उत्तरायणम् -
सङ्कलनम् : पं. कल्याणकीर्तिविजयः गणी
Page #2
--------------------------------------------------------------------------
________________
मर्म गभीरम्
आस्था
कल्याणकीर्तिविजयः कश्चनैको जनः कबीरं स्वगुरुं मन्वानः, कदाचित् किञ्चन निकृष्टं पापं कृतवांस्ततश्च प्रबुद्धान्तःकरणः सन् पश्चात्तापेन दग्धः । परं चित्तशान्तिनष्टा तस्य । “एतादृशं पापमाचरितवानहं कथं शुद्धो भविष्यामि ?' - इति सततं चिन्ताग्रस्तमानसः स 'गुरुवर्यसकाशान्मार्गदर्शनं ग्रहीष्यामि' - इति विचार्य कबीरस्य गृहमागतः । तदानीं कबीरः केनचित् कार्येण बहिर्गत आसीत् । गृहे तत्पत्नी पुत्रश्चाऽऽस्ताम्। कबीरः कदा प्रत्यागमिष्यतीति निश्चितं नाऽऽसीत् । अस्य च चित्तशान्ति प्राप्तुमत्यधिकोत्कण्ठाऽऽसीत् । तेन चिन्तितं यत् - 'गुरुपत्न्या किल बहूनि वर्षाणि गुरोः सान्निध्ये उषितम् । अतः साऽपि मे प्रायश्चित्तं चित्तशान्तेश्चोपायं दर्शयिष्यतीति' । ततस्तेनैतदर्थं गुरुपत्न्येव पृष्टा । तयाऽपि सहजतया 'गङ्गास्नानं कृत्वा त्रिः भगवन्नाम गृह्णातु । तव चित्तशान्तिर्भविष्यति पापं च विनझ्यती'ति कथितम् । एतदाकर्ण्य जनोऽसौ प्रमुदितो जातः । सद्यः स गङ्गां प्रति धावितः ।
अथो मध्येमार्गमेव स्वकार्य समाप्य प्रत्यागच्छन् कबीरो धावन्तं तं दृष्टवान्, एतावत्यास्त्वरायाः कारणं पृष्टवांश्च । तेन निजपापं, पश्चात्तापं, गुरुपत्न्याश्च सकाशात् प्रायश्चित्तग्रहणमित्यादि सर्वमप्युक्तम् । तत् सर्वं श्रुत्वा कबीरो मौनमेवाऽस्थात् ।
ततो गृहं गत्वा स पत्नीं कथितवान् – 'मया सहेयन्ति वर्षाण्युषित्वाऽपि भवती भगवन्नाम्नो महिमानं नैव ज्ञातवतीत्ययं खेदकरो विषयः । भवत्या तस्य जनस्य चित्तशान्त्यर्थं को वोपायः प्रदर्शितः?' तयोक्तं - 'मया समीचीन एवोपायो दर्शितः किल ? को वा दोषस्तत्र ? किं भगवन्नाम्नि तादृशं सामर्थ्यं नास्ति खलु ?' ।
कबीरेण कथितम् – 'भोः ! एकवारमेव गृहीतं भगवन्नाम मनःशान्ति कर्तुं सर्वथाऽलं, तदा वारत्रयं किमर्थं ग्रहीतव्यम् । एवंकरणे हि भगवन्नाम्नो महिमाऽल्पीकृतो भवत्या । भवती चिरकालेनाऽपि मत्सान्निध्यादेतावदपि न शिक्षितवतीत्यस्य भृशं खेदो मम । भगवन्नाम्नि भवत्या दृढो विश्वासो नास्ति - इति दुःखं च' ।
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ४२
सङ्कलनम् : पं. कल्याणकीर्तिविजयः ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०७५, ई.सं. २०१९
मूल्यम् : रू. १२०/
अस्मिन् जालपुटेऽपि उपलभ्यते -
email :
nandanavanakalpataru99@gmail.com
प्राप्तिस्थानम् : श्रीविजयनेमिसूरिज्ञानशाला
शासनसम्राट् भवन, त्रीजो माळ, शेठ हठीसिंह केसरीसिंहनी वाडी, दिल्ली दरवाजा बहार, शाहीबाग रोड, अमदावाद - 380004
फोन : 079-22168554, 9726590949 सम्पर्कसूत्रम् : पं. कल्याणकीर्तिविजयः
C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981 M.9979852135
मुद्रणम् : क्रिष्ना ग्राफिक्स
नारणपुरा जूना गाम, अमदावाद-३८००१३ दूरभाष : 09898659902
Page #4
--------------------------------------------------------------------------
________________
प्रास्ताविकम्......
युगोऽयं ज्ञानप्रधानोऽस्ति । सर्वत्र प्रायो दरीदृश्यते यज्जनाः किञ्चन नूतनं ज्ञानं (information) प्राप्तुं, किञ्चिदभिनवं शिक्षितुं प्रयतमाना वर्तन्ते । यो हि समधिकज्ञानवान् स एवाऽभिप्रेते क्षेत्रेऽग्रेसरो भवितुमर्हति नाऽन्यः । यो ह्यन्येभ्योऽधिकं किञ्चिच्छिक्षितवान् स एव सफलः परिगण्यते । अतो ज्ञानं शिक्षणं च सर्वथाऽनिवार्यमपरिहार्यं च । एतदर्थमेव च यत्र तत्र सर्वत्र शिक्षणवर्गाः (Coaching Classes) संस्थानानि च (institutions) प्रवर्तमानानि दृश्यन्ते । (एतैर्वर्गः संस्थानैश्च सामान्यजनतायाः कश्चन लाभो भवेद्वा न वा, परं तत्सञ्चालकानां तु भवत्येवेति त्वन्या वार्ता !!)
किन्तु, सामाजस्योपरितने तले केचन प्रबुद्धा जना वर्तन्ते । तेऽन्ये च केचन स्वाभिप्रेतक्षेत्रेष्वत्यन्तं साफल्यं प्राप्तवन्तो जना वदन्ति यद् - अग्रेसरीभवितुं साफल्यं च प्राप्तुं केवलं शिक्षणं ज्ञानं वा न पर्याप्तमस्ति । आवश्यकमनिवार्य चाऽप्यस्त्येव परं पर्याप्तं तु नैवाऽस्ति । एतदर्थं तु तीव्रतयाऽऽवश्यकताऽस्ति पुस्तकपठनस्य । यावन्त्यधिकानि पुस्तकानि पठ्यन्ते तावदधिकमग्रेसरत्वं, तावच्चाऽधिकं साफल्यम् ।
आधुनिकविज्ञानिभिरप्येतत् प्रमाणीकृतमस्ति यत् - पुस्तकवाचनेन जनस्य कल्पनाशक्तिः प्राचुर्येण विकसिता भवति । सा च कल्पनाशक्तिविकासस्य नूतना दिश उद्घाटयति । मनसि सुषुप्तावस्थायां स्थितां सर्जनशक्तिं संरचनासामर्थ्यं च जागरयति जनं च प्रबुद्धं करोति ।
येन लिखितानां पुस्तकानां कोटिशोमिताः प्रतयोऽद्यपर्यन्तं विक्रीताः, यश्चाऽद्यत्वे जगतोऽपि श्रेष्ठानां पञ्चानां लेखकानामन्यतमो वर्तते तादृशो जेफ्री-आर्चरः नाम लेखक एकस्मिन् साक्षात्कारे (interview) अवदत् - "कलाक्षेत्रे साहित्यक्षेत्रे वा प्रवृत्त एकोऽपि जनस्तादृशो नास्ति येन पुस्तकवाचनस्या
Page #5
--------------------------------------------------------------------------
________________
ऽभ्यासोऽभिरुचिर्वा नाऽऽत्मसात्कृते । यदि दैवयोगात् कश्चन कलाकारो लेखको दिग्दर्शको वा (director) तादृश उपलभ्येत यः पुस्तकपठने सर्वथाऽरुचिमान् स्यात्, अथाऽपि स्वकार्यं श्रेष्ठतया कुर्वन् स्यात् तदा स कलाकारादितया नैव परिगण्येताऽपि तु शोभनप्रविधिज्ञतया(technician) परिगण्येत" ।
एकस्मिन् सर्वेक्षणे तथ्यमिदमुपलब्धं यत् - 'भिक्षा तेनैव मार्गणीया भवति यः कदाऽपि पुस्तकानि न वाचितवान् स्यात् । येन पुस्तकानां वाचनं कृतं स निश्चप्रचं कथमपि स्वजीविकामर्जयत्येव' । भवतु नाम । अस्माकं पूर्वसूरयोऽप्यस्मान् सनिर्बन्धं कथितवन्तः सततं पुस्तकपठनार्थं ज्ञानार्जनार्थं च । एवमेव बहुश्रुतत्वमाविर्भवति खल्वस्माकम् ! । एतदेव कथनं साम्प्रतिकविज्ञानस्याऽपि । तद्धयेवं मन्यते यत् - पुस्तकवाचनाद् बहवो लाभा जायन्ते । द्विवान् लाभान् विचारयामस्तावत् । तत्र प्रथमो महांश्च लाभोऽस्ति – पुस्तकवाचनात् समयापव्ययो रक्षितो भवति ।
प्रायशो जनैस्तय॑ते यत् - पुस्तकपठनं नाम समयदुर्व्ययः । परं वास्तवेन तु पुस्तकवाचनं महत् समयरक्षकम् । विविधविषयकपुस्तकवाचनेन जनो विविधानि संवेदनानि नैकाश्चाऽनुभूतीविनाऽऽयासेनैवाऽवबोद्धं शक्तो भवति । इतरथा तानि संवेदनानि ताश्चाऽनुभूतीः साक्षादनुभवितुं तेन वर्षाणि यापितव्यानि भवेयुः । पुस्तकपठनेन तानि वर्षाणि रक्षितानि भवन्ति । भविष्यति चोत्पत्स्यमानानां विपत्तीनां परिहारोपाया इदानीमेव प्राप्यन्ते । ततश्च प्रदीप्ते वह्नौ कूपखननं नाऽऽवश्यकम् । अतीते भविष्यति काले च विहर्तुं विज्ञानकथाकारैः समययन्त्रस्य कल्पना क्रियते । परं पुस्तकानि तु साक्षादेव समययन्त्राणि । तेषां पठनेन वयं भूते भविष्यति च सर्वथा स्वतन्त्रया विहर्तुं शक्ताः ।
पुस्तकपठनस्य द्वितीयो महान् लाभोऽस्ति - विचाराणां वाण्या वर्तनस्य च संशोधनं संस्करणं च । एतच्च द्वितयमपि पर्याप्तमात्रया भवति, न तु यथाकथञ्चित् । यतो हि पुस्तकवाचनादात्मनिरीक्षणं व्यवहारपरीक्षणमन्तर्मुखता चोत्पद्यन्ते वर्धन्ते च । फलतः स्वीया दोषाः स्खलनानि च प्रत्यक्षाणि भवन्ति । ततस्तेषां परिमार्जनं, संस्करणं च सम्भवति ।
__मानसचिकित्सका वदन्ति यत् – पुस्तकपठनात् तर्ककर्कशस्वभावोऽपि जनः सौम्यतां प्राप्नोति । नियततया पुस्तकवाचकेन सहवासस्तेन सह संलापश्च जनेभ्योऽधिकतया रोचते । यतः पुस्तकपठनात् तस्मिन् परावर्जनक्षमता परप्रत्यायनक्षमता च विकसिता भवति । विशेषतस्तु प्रत्येकं परिस्थितिस्तेन सरलतयाऽवबुध्यते, समायां विषमायां वा परिस्थितौ कथं प्रवर्तनीयमिति स सम्यक्तया जानाति च ।
पुस्तकवाचनस्य तृतीयो विशिष्टो लाभोऽस्ति - तत् खलु वाचकस्याऽन्तःकरणे धैर्यं शौर्यं च सञ्चारयति । प्रत्येकं मनुष्यस्य जीवने प्रिया अप्रियाश्च घटनाः समापद्यन्त एव । तत्राऽप्रियासु घटनासु समापतितासु कथं स्वीये मनसि धैर्यं प्रपूरणीयं ? कथं च तादृशेषु प्रसङ्गेषु स्वात्मा संरक्षणीयः ? कथं वा स्वस्य योग्यं मूल्याङ्कनं कृत्वा तासां घटनानां पारं प्राप्तव्यमित्यादि सर्वं पुस्तकवाचनतोऽत्यन्तं सरलतयाऽस्मन्मानसेऽवबुध्यते ।
Page #6
--------------------------------------------------------------------------
________________
प्रत्येकं मनुष्यः स्वजीवने एकस्मात् तत्त्वादत्यर्थं बिभेति । तत् तत्त्वं खल्वस्ति निष्फलता । जीवनस्य यस्मिन् कस्मिंश्चिदपि क्षेत्रे निष्फलतायाः सम्मुखीकरणं मनुष्यं विह्वलं निराशं च करोति । किन्तु येन जनेन पुस्तकवाचनेन स्वमनः सज्जीकृतमस्ति स एतस्मान्नैराश्यादतीव सारल्येन निष्क्रान्तो भवति, स्वमनसि उल्लासं प्रपूर्य साफल्यप्राप्त्यर्थं प्रयत्नशीलो भवति ।
एवमनेके लाभाः पुस्तकवाचनात् जायन्ते । परं साकल्येन वक्तव्यं चेद् यो मनुष्यो यावन्ति पुस्तकानि पठितवान् स तावाननुभवसमृद्धः, स एव सत्यतया जीवनं जीवितः, जगतः प्रवाहैश्च परिचितो भवति । परमेतत्सर्वं प्रापणार्थं पुस्तकमुद्घाट्य पठनीयं खलु ?
वयमपि किलाऽधिकाधिकपुस्तकानि पठेम बहुश्रुतत्वं च प्राप्नुयामेत्याशासमानो विरमामि ।
पं. कल्याणकीर्तिविजयः
महावीरस्वामिजन्मकल्याणकदिनम् चेत्र - शुक्ला त्रयोदशी, २०७५ श्रीस्तम्भतीर्थनगरम्
आर्थिकसौजन्यम्
नन्दनवनकल्पतरोर्द्वाचत्वारिंश्याः (४२) शाखायाः प्रकाशनार्थं शासनसम्राटसमुदायवर्तिन्याः साध्वी श्रीधृतियशाश्रियः शिष्यायाः सा. श्री परागयशाश्रियो वर्धमानतपसः ओलिकाशतस्य पूर्णाहुति निमित्तीकृत्य सूरतमहानगरस्थेन श्रीवराछाजैनसङ्खेन सम्पूर्ण आर्थिकः सहयोगः कृतोऽस्ति । एतदर्थं बहुशो धन्यवादाः ॥
5
Page #7
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
सप्रश्रयं प्रणतयः आचार्यचरणेषु । प्रणम्यते च मान्या कीर्तित्रयी।
"नीत्या प्रीत्या च स्वस्वकर्मणि जागरूकैः भाव्यम्" इति नन्दनवनकल्पतरोः ३९तमे अङ्के व्यक्तः विचारः ४०तमे अङ्के पुष्टः जातः । पुनः पुनः एतदर्थं विचार्यम् आचरणीयम् च ।।
__ "वयं राष्ट्रे जागृयाम पुरोहिताः" इति कृत्वा, अस्माकं मनीषिभिः एतदेव, भावनापूर्वकम् आदिष्टम् । ये नाम, पुरः स्थितं हितं विचारयन्ति, ते सर्वेऽपि पुरोहिताः जागृताः भवेयुः । अत्र, प्रथमपुरुषतः कृतः निर्देशः, निर्दिशति यद् एतादृशाः वयमेव पुरोहिताः । अस्माभिरेव एकैकशः जागृतिः
सेव्या ।
"एकाकी अहं किं कुर्याम् ?" इति विचारणा त्याज्या । वयमेव समर्थाः सर्वं साधयितुम् । विचारेणाऽनेन, कार्यः कार्यारम्भः ।
शनैः शनैः स्यात् संघबलम्, शनैः शनैः स्यात् साफल्यम् ॥ इति । पुनश्च भाव्यं विश्वगुरुत्वम् । अस्मत्प्रयत्नैरेव शक्यं तत् । देवस्तत्र सहायकृत् । अस्तु श्रीः ।
डो. वासुदेव वि. पाठकः 'वागर्थः'
अहमदाबाद-१५
Page #8
--------------------------------------------------------------------------
________________
सम्पूज्याः आचार्यवर्याः, मान्या कीर्तित्रयी,
नमस्काराः ।
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ इति वचनं, व्युत्क्रमप्राप्तमधुना । परेषां गुणविकासः भवतु, इति भावयमानाः वयं, स्वगुणविकासं विस्मृतवन्तः ।
वस्तुतः, महत्त्वं तु प्रथमपुरुषस्य । 'अहम्' इति पदम्, आंग्लभाषायां 'I' इति पदैन वाच्यते । I is always capital. सर्वत्र, महत्त्वं 'मम' वर्तते । केन्द्रीभूतोऽहम् इति सर्वथा स्वीकार्यम् ।
एवं जाते, यस्य कस्यापि सत्कार्यस्य प्रारम्भः मया एव स्यादिति सहजं स्वीकार्यम् । स्वच्छता, ज्ञानाप्तिः, गुणानां विकासः - सर्वं चेदं, यदि जनः स्वयमेव न करिष्यति, तर्हि न किञ्चित् सम्भाव्यम् ।
न मया कार्यमत्रास्ति सर्वमन्यः करिष्यति ।
ममोदरस्य संतृप्तिः भवेदन्यस्य योजने ॥ इति वृत्तिः भ्रान्तानाम् ।
कार्यारम्भः स्वयमेव कार्यः, इति निश्चिता मतिः प्रथमं कार्या । ततः सर्वं – राष्ट्रहितं, विश्वहितं वाऽऽपि स्वयमेव स्यात् ।
कर्तव्यपालनं कृत्वा स्वयमादर्शवान्भव ।
अनुसरन्ति संसारे दिशाशून्यास्तु दर्शकम् ॥ अस्तु स्वकर्मनिष्ठा मे। इति शम् ।
डो. वासुदेव वि. पाठकः 'वागर्थ' ३५४, सरस्वतीनगर, आंबावाडी,
अहमदाबाद-३८००१५
Page #9
--------------------------------------------------------------------------
________________
सम्पूज्याः आचार्याः,
कल्पतरोः एकचत्वारिंशी शाखाऽत्यन्तमानन्देन पठिता ।
प्रास्ताविके भ्रष्टाचारसम्बन्धि वचो यदुक्तं तत्तु सत्यमेव । किन्तु धार्मिककार्याणि बाल्यादेव पाठनीयानि । एतस्याऽभावादेव सर्वत्र जना जननायकाश्च पापान्याचरन्ति । अभिराजराजेन्द्रमिश्रवर्यस्य गीतिके अतीवाऽरोचेताम् । रामलिङ्गशास्त्रिणः "संस्कृतं सर्वतोभद्रम्" इति लेखः चिन्तोद्दीपक आसीत् । कल्याणकीर्तिविजयैरनूदितः "हिटलरः, स्तालिनः, माओ वा, कः क्रूरतमः ?" इति लेखो लोकशासकानां क्रूरताया निदर्शनदायक आसीत् । तेषाञ्च सत्यप्रसङ्गोऽपि अतीव रुचिरः । अक्षयरत्नमुनीनां कथा, अपि रुचिराः । अन्याः कन्या अपि हृद्याः, नवीनप्रयोगयुताश्च । अस्य मासस्य (२५ - वर्षपूर्वं लिखितस्य) पत्रमपि पण्डितोचितप्रयोगैः मनोरञ्जकम् आसीत् । नर्मकणिकाभिर्मनः प्रसन्नं कृतम् । संस्कृतानुवादेन प्राकृतकाव्यमास्वादितम् । किन्त्वनुवादरहितः प्राकृतगद्यविभागः सम्यक् न अवगतः ।
इति भवदीयः विनीतविधेयः
रवीन्द्रः (एम्. ए. रवीन्द्रन्, पालक्काडु)
(४)
नन्दनवनकल्पतरुः ४१ - इति पत्रिका समधिगता । अत्र मम सुहृदो डो. गदाधर-त्रिपाठिनो रचनाद्वयं विलसति । सम्पादकीये सत्यं निगदितं – यदि समाजे न्यायोपेतं धनार्जनं जना न कुर्वन्ति, तर्हि अलं शिक्षया धर्मशिक्षया वा । प्रायशः सर्वा रचनाः पठनीयाः सन्ति ।
भवदीयः डॉ. रूपनारायणः पाण्डेयः
Page #10
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः
कर्ता ___
पृष्ठम्
तीर्थ-तीर्थपतिस्तवनम् क्षणे क्षणे गतिर्भिन्ना प्रतिष्ठितं भारतराष्ट्रम् भद्रभाववर्धकम्
स्व. आ. विजयधर्मधुरन्धरसूरयः प्रो. कमलेशकुमार छ. चोकसी डॉ. वासुदेव वि. पाठकः 'वागर्थः' डॉ. वासुदेव वि. पाठकः 'वागर्थः'
orm w9
६ ७
आस्वादः यशस्तिलकचम्प्वां वर्णिता द्वादशानुप्रेक्षाः क्षमा वीरस्य भूषणम्
डो. एच् वि. नागराजरावः सा. मोक्षयशाश्रीः
आचार्यवर्य-विजयकस्तूरसूरिविशेषः परमगुरुआयरियसिरिविजयणेमिसूरि-थुई
आ. विजयशीलचन्द्रसूरिः आयरियसिरिनंदणसूरि-थुई
आ. विजयशीलचन्द्रसूरिः आयरियसिरिविन्नाणसूरि-थुई
आ. विजयशीलचन्द्रसूरिः आयरियसिरिकत्थूरसूरि-थुई
आ. विजयशीलचन्द्रसूरिः आचार्यवर्यश्रीविजयकस्तूरसूरिजीवनवृत्तम्
कल्याणकीर्तिविजयः गुरवो सिरिकत्थूरसूरिणो
सा. हेमपूर्णाश्रीः आचार्यवर्यश्रीविजयकस्तूरसूरीणां कृतयः
१. सिरिवीरजिणथुई २. परमगुरूणं थुई ३. श्रीचन्द्रचरित्रम् ४. सिरिचंदरायचरियं ५. प्राकृतविज्ञानपाठमाला ६. पाइयविन्नाणकहा ७. प्राकृतरूपमाला ८. सिरिउसहणाहचरियं
Page #11
--------------------------------------------------------------------------
________________
कल्याणकीर्तिविजयः
सा. हंसलेखाश्रीः
९. करुणरसकदंबगं (सङ्कलनम्) १०. पाइयविन्नाणगाहा (सङ्कलनम्)
११. अभिधानचिन्तामणिकोश-विवरणम् पुस्तक-समीक्षा पर्यटनम्
अणहिल्लपुरपत्तन(पाटण)नगरस्य वैशिष्ट्यम् कथा
संस्कारप्रपा शाखाच्छेदः साधुता महान् वैज्ञानिकः नापितस्य चातुर्यम् विवेको बोधश्च दुहितुः प्रेम दिव्यप्रेम अनुशासनम्
द्रष्टारोऽन्धाः मर्म नर्म
मुनिअक्षयरत्नविजयः मुनिश्रुताङ्गचन्द्रविजयः मुनिश्रुताङ्गचन्द्रविजयः मुनिमलयगिरिविजयः मुनिभाग्यहंसविजयः सा. कैरवयशाश्रीः सा. तत्त्वनन्दिताश्रीः सा. तत्त्वनन्दिताश्रीः सा. जयनन्दिताश्रीः सा. संवेगरसाश्रीः कल्याणकीर्तिविजयः
१००
१०२
१०४
१०६
पं.नरेन्द्रचन्द्र-झा
१०२
प्राकृतविभागः
प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतपद्यानुवादः स्मरणाञ्जलिः
पण्डितवों वेदान्ताचार्यः श्रीव्रजलाल-उपाध्यायमहोदयः
डॉ. मधुसूदन म. व्यासः
१२४
10
Page #12
--------------------------------------------------------------------------
________________
तीर्थ-तीर्थपतिस्तवनम्
स्व. आ. विजयधर्मधुरन्धरसूरयः
यदीयं माहात्म्यं त्रिभुवनललामं हृदि धरन् जिनः श्रीनाभेयो नवनवतिपूर्वं समसरत् । गणाधीशाश्वाऽन्ये गणनरहिता मुक्तिमियरुः प्रभावाद् यस्याऽहं विमलमचलं स्तौमि सुखदम् ॥१॥
शिवादेवीनन्दो विजितसुमनःसायकवरः कुमारो मारेणाविचलितविचारो जिनवरः । विकारं विध्वस्याऽविचलविमलं ज्ञानमकलं शिवं चाऽऽप्तो यत्र प्रणमत जना रैवतगिरिम् ॥२॥
अये मोह ! त्वं ते मनसि किमु जानासि ललनासहायो निःसङ्गं कलयसि भूशं मां प्रहरसि । इतो दूरं यायाः परिजनयुतो सत्वरमधः कदम्बश्रीवीरो हतविहतमारोऽन्ववति माम् ॥३॥
अहं भ्रामं भ्रामं निखिलभुवने भ्रामकमतभ्रमीभूतः कामं क्षणमपि विरामं न प्रगतः । कदम्बेशः प्राप्तस्त्रिभुवनसमाख्यातयशसं समीक्ष्य श्रीवीरं हतविहतपापः समभवम् ॥४॥
कदम्बासंसर्गादशिवनिचयं प्राप्य हृदये मया सङ्गः कार्यो न हि पमतो निश्चितमिति ।
Page #13
--------------------------------------------------------------------------
________________
श्रुतं संसारेऽस्मिन् प्रभवति कदम्बादघहतिः श्रितस्त्वां कादम्बाउशिवहतिविलम्बं कुरु नहि ॥५॥
मया दृष्टः सर्वः सुरसमुदयः सत्त्वरहितः परं स्वामिन् ! श्रीमन् ! त्वमसि विदितः सत्वर-हितः । समुद्धर्तुं शक्तो भवगहनतः सम्प्रतिजिनः कदम्बाधीशस्त्वं हर भवभयं सम्प्रति जिनः ॥६॥
नमीशं नेमीशं वृषभमथ सीमन्धरजिनं महावीरं धीरं जलनिधिगभीरं सुखकरम् । जिनानन्यान् सर्वान् गतसमयजं सम्प्रतिप्रभुं कदम्बे वन्देऽहं जिनपतिकदम्बं प्रतिदिनम् ॥७॥
कदम्बाख्यः प्रख्यः प्रथमगणभृत् सम्प्रतिप्रभोवृतः सद्यः कोटीमुनिपरिवृतः सिद्धिललनाम् । यदीयाऽच्छच्छाया शरणवशतः कर्मदहनं कदम्बं तं वन्दे प्रचुरमहिमानं शिवप्रदम् ॥८॥
अये लोकाः ! शोकग्रसितमनसः ! किं तत इतः सुखं प्राप्तुं मिथ्याचरणमभिकुर्वन्त्यनुदिनम् । अमुं साक्षाद् वाञ्छासुरविटपिनं पूर्णमहिम कदम्बं सेवध्वं नतसुरकदम्बं गिरिवरम् ॥९॥ श्रियो वृद्धिं नेमिः प्रवितरतु सुदर्शनमलं करोतु स्वच्छन्दं समुदयमुदं नन्दनयतु । प्रदत्तां विज्ञानं चरणयुगपद्मप्रणमनात् स मेऽपायात् पायादमृतमयलावण्यवपुषा ॥१०॥
Page #14
--------------------------------------------------------------------------
________________
क्षणे क्षणे गतिभिन्ना
प्रो. कमलेशकुमार छ. चोक्सी
क्षणे क्षणे गतिर्भिन्ना जगति दृश्यते क्वचित् । वर्ण्यते सा गतिरत्र नैषा स्थितिः सनातनी ॥१॥ बुद्धिमता मनुष्येण ज्ञेया स्थितिरियं सदा । शक्यं यावद् भवेत् तावद् रक्ष्यः स्वात्मा प्रयत्नतः ॥२॥ स्थितिं सनातनी जानन् निराकरोति पण्डितः । न शक्नोति निराकर्तुम् अबुधः साधनैः सह ॥३॥ भिन्नस्थितिवशादत्र कार्यं न सिध्यति क्वचित । अभिन्लां हि स्थितिं कर्तुं शक्तो भवति मानवः ॥४॥ अत एव कविरत्र घटनानामनुभवात् । आश्रमेश्वरचित्राणि चित्रितवान् स्वयत्नतः ॥५॥ क्षणे रुष्टः क्षणे तुष्ट: रुष्ट: तुष्टः क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥६॥ इत्येषा नीतिकारस्य वाणी मनसि मे स्थिता । आकारयति चित्राणि निम्नोक्तानि मया स्वयम् ॥७॥ क्षणे तीव्रा क्षणे मन्दा तीव्रमन्दा क्षणे क्षणे । सम्म यानचालस्य भवति गतिरीदृशी ॥८॥ क्षणे तापः क्षणे छाया तापच्छाये क्षणे क्षणे । अभ्रे गतिमते मेघे पृथिव्यां गतिरीदृशी ॥९॥
१. आश्रम = ४, ईश्वर = १ अर्थात् १४ । २. लब्धे मार्गे तीवा गतिः अवरुद्धे च मन्दा - इति विवेकः ।
Page #15
--------------------------------------------------------------------------
________________
क्षणे खिन्नः क्षणेऽखिलः ख्रिनाखिनं क्षणे क्षणे । बालानां हठधर्मिणां प्रतिगृहं परिस्थितिः ॥१०॥ क्षणे सुखं क्षणे दुःखं सुखं दुःखं क्षणे क्षणे । अभावयुक्तजीवानां गतिर्भवति सर्वदा ॥११॥ क्षणे मूल्यं क्षणेऽमूल्यं मूल्यामूल्यं क्षणे क्षणे । कृष्युत्पादपदार्थानां दृश्यते गतिरापणे ॥१२॥ क्षणे वह्निः क्षणे धूमः वह्निधूमौ क्षणे क्षणे । आर्द्रकाष्ठयुते यज्ञे परिस्थितिरियं क्वचित् ॥१३॥ क्षणे स्थैर्य क्षणेऽस्थैर्य स्थैर्यास्थैर्य क्षणे क्षणे । मानवमनसः नित्यं स्थिरिरेतादृशी मता ॥१४॥ क्षणे लाभः क्षणे हानिः लाभहानी क्षणे क्षणे । लोभतः संप्रवृत्तानाम् नृणां शेयरधारिणाम् ॥१५॥ क्षणे मृत्युः क्षणे रक्षा मृत्युरक्षे क्षणे क्षणे । युद्धप्रवृत्तदेशानां सैनिकानां स्थितिरियम् ॥१६॥ क्षणे गतिः क्षणे स्थितिः गतिस्थिती क्षणे क्षणे ।
तैलकूपगते वायौ द्विचक्रिकागतिरिह ॥१७॥ ३. बालाः प्रायः हसन्ति रुदन्ति इति संकल्प्य एतत् चित्रम् आकारितमस्ति । बालैः भिन्ना स्थितिः न सेवनीया ।
सदैव हसद्भिः भाव्यमिति उपदेशः ॥ ४. अभावेन पीडिताः जनाः प्रायः परेण दत्तेन पदार्थेन जीवन्ति । कदाचिद् उदारो दाता सन्तृप्तिं कल्पयन सुखं ददाति
कदाचित् कृपणः सामान्यं निरर्थकं च पदार्थं दत्त्वाऽभावेन दुःखितं जनं पुनर्दुःखं ददातीति भावः ॥ ५. कदाचित् शाक्जातम् अतिमहाप॑ भवति, रूप्यकशतेन किलोमात्रम्, कदाचित् च अतीवानघु, रुप्यकेन किलोमात्रम् ।
अनेन कृषकाः कष्टमाश्रयन्ते । एषा पीडा चित्रिता अत्र । ६. सति प्रज्वलिते अग्नौ धूमो न भवति । काष्ठानाम् आर्द्रत्वात् शान्तेऽग्नौ धूमो भवति । निपुणो जनो येन केन
प्रकारेणाग्नि साधयति, परन्तु अनिपुणस्तादृशम् आचरितुं शक्तो न भवतीति क्वचित् पदस्याऽत्र प्रयोजनम् । ७. चञ्चलं हि मनः कृष्ण ... । - इत्यादिवचनानि अस्य मूलम् । ८. शेयरनाम्ना वर्तमाने सुप्रसिद्धः संपत्तिविशेषः । तस्य समार्जनसंयुक्तेन सामान्यजनेन प्रायः कदाचिदेव धनलाभः
प्राप्यते। सोऽपि शेयरापणपतने सम्पन्नोऽपि सन् हानिप्रभावेन ग्रस्तो भवतीति कथनस्य हेतुः । ९. इतस्ततो वाऽपि समागता गोलिकाः सैनिकस्य प्राणान् हरति । कदाचित् समागता गोलिका अस्पृष्टा सती सैनिकं
स्वयमेव सुरक्षितं करोतीति तात्पर्यम् ॥ १०. प्रतिवाहनं पेट्रोलतैलस्य कूपो भवति । ततो नालिकया तैलं यथास्थानं निरन्तरं वहति । अनेन कारणेन वाहनस्य
गतिः प्रवर्तते । परन्तु नालिकायामस्यां यदा वायुः प्रविशति, तदा तैलप्रवाहस्य समुपस्थिता बाधा वाहनस्य गतिमवरोधयति । एतत् कर्माऽत्र ध्यातव्यम् । एवमेव वर्तमाने प्रवर्तितायां लेखन्यामपि भवति ।
Page #16
--------------------------------------------------------------------------
________________
क्षणे गतिः क्षणे स्थितिः गतिः स्थितिः क्षणे क्षणे । मसिकूपगते वायौ लेखिन्या गतिरीदृशी ॥१८॥ क्षणे त्यागः क्षणे रागः त्यागः रागः क्षणे क्षणे । अपक्ववीतरागस्य संन्यासे गतिरीदृशी" ॥१९॥ क्षणे मित्रं क्षणे शत्रुः मित्रं शत्रुः क्षणे क्षणे । जनवाहकयन्त्राणां चालकानां स्थितिरियम् ॥२०॥ क्षणे युक्तः क्षणे मुक्तः युक्तः मुक्तः क्षणे क्षणे । अक्षक्रीडाप्रसङ्गे वै धनि-धनस्थितिरियम् ॥२१॥ क्षणे स्वस्थः क्षणे रुग्णः स्वस्थः रुग्णः क्षणे क्षणे । आईसीयुप्रविष्टानां स्वजनानां स्थितिरियम् ॥२२॥" भिन्नामेतां स्थितिं ज्ञात्वा यथायोग्यं समाचरेत् । इति सदाशयादव चित्रिता विविधा स्थितिः ॥२३॥ भिन्नायाः संभवो यत्र स्थितेर्बुधदृशि गतः । सद्यः निराकृतं कृत्वा कल्प्यते सुखदं सदा ॥२४॥"
संस्कृतविभाग, भाषासाहित्यभवन, गुजरात युनिवर्सिटी, नवरंगपुरा, अहमदाबाद-३८०००९ (गुजरात)
मो. ९८२५४७८८७६
Email : kamlesh24@yahoo.co.in ११. भावुकत्वाद् गृहीतसंन्यासो जनो वैराग्यस्य परिपक्वताभावात् कदाचित भोगं प्रति आकृष्टः सनु भोगी अपि भवति, विशेषतो भोजनाच्छादन-वस्त्रालङ्कारादिपदार्थेषु, न तु सर्वेन्द्रियभोगेषु । संन्यासित्वात् तादृशत्यागस्याऽपेक्षितत्वाद् -
इति विवेकः ॥ १२. यदि वाहकयवं स्थापयित्वा यात्रिणं वाहनस्थं करोति तदा मित्रता, अन्यथा शत्रुता - इति संदर्भः ॥ १३. जयं प्राप्तः सन् प्रभूतं धनं धारयति । पराजये सत्यकिञ्चनः सन् धनात् सर्वथा मुक्तः, अर्थात् निर्धनो भवतीति
यथायोग्यं विचारणीयं भवति पाठकेन । एवं धनी कदाचित् धनेन युक्तो भवति कदाचित् च धनान्मुक्तो भवतीति
सुस्पष्टम् ॥ १४. वर्तमाने चिकित्सापद्धतौ अतीव रोगिजन आईसीयुमध्ये प्रविष्टो भवति । तत्र कदाचिद् औषधप्रभावेन तस्य
स्वास्थ्यविषये सुतरां समीचीना स्थितिर्बहिर्गतेन स्वजनेन श्रूयते कदाचिच्च गभीरा स्थितिरस्तीति वृत्तान्तः । रोगिणः स्वजनानां च पारस्परिक-साक्षात्सम्बन्धाभावात् सार्वत्रिकी स्थितिरेषा । अद्यत्वे आईसीयुमध्ये प्रविष्टानां परिचर्या
वर्गविशेष एव करोति न तु स्वजना इति महत्सु चिकित्सालयेषु प्रवर्तमाना व्यवस्था प्रसिद्धैव् ॥ १५. संसारे सर्वत्र भिन्ना भिन्ना स्थितिः प्रवर्तते । तत्र कदाचिद् वयमेव कारणं कदाचित् प्रकृतिः कदाचित् च पदार्थः ।
एवं सति बुद्धिमता जनेन, या स्थितिः सुखदा भवति सा सर्वदैव प्रवर्तेत, तादृश उद्योगः करणीयः । अस्य मत्रस्य विचारस्य वा प्रतिपादनाय काव्यमिदं ग्रथितमस्तीति काव्यकारस्य मे प्रान्ते निवेदनम् ॥
Page #17
--------------------------------------------------------------------------
________________
प्रतिष्ठितं भारतराष्ट्रम् ॥
डो. वासुदेव वि. पाठकः 'वागर्थः'
अखण्डभारतराष्ट्र नूनम् कार्यं चित्ते विना विवादम् । संरक्षणं तथैव हि शक्यम् बलं तदर्थं सम्पाद्यम् ॥
नैव गूर्जराणां शिथिलत्वम् यस्मिन् कस्मिन्नपि विषये । बुद्धिं धनं प्रयुञ्जन् प्रीत्या रक्षन्ति राष्ट्र बहुधा ते ॥
गांधी मेघाणी च वल्लभः राष्ट्रहितार्थं सदैवोत्सुकः। यत्कार्यं कार्य, कुर्वन्ति रक्षणार्थमपि स्वस्थसैनिकाः ॥
ग्रामे प्रान्ते राष्ट्रे विश्वे, यथा प्रतिष्ठा भारतीया । संगठने स्यात्तथाऽस्मदीया रीतिः कार्या महनीया ॥
जानन्तु दुष्टास्सर्वेऽपि बुद्धिर्यस्य बलं तस्य । धावन्धावन् रणप्रदेशे निर्बुद्धिर्मूगजलं पिबेत् ॥
Page #18
--------------------------------------------------------------------------
________________
भदभाववर्धकम् ॥
मानवत्वपालनं राष्ट्रधर्मपालनम् भद्रभाववर्धकं सर्वकर्मसाधकम् ॥
मानवत्वपालने सुज्ञता समन्विता सत्यधर्मशासने भारतीयता शुभा; मानवत्वे वरं सर्वलोक सौख्यदम्
भद्रभाववर्धकम्...
संवदन-संगतिं साधयित्वा वराम् कामयामहे सदैव कर्मनिष्ठां पराम्; भावयामहे मुदैव मानवान्परस्परम्,
भद्रभाववर्धकम्...
केवलं न भौतिकं पारमार्थिकं परम् धर्मकर्मसेवने नैव भवति दुःखदम्; ऋषिवरैश्च मुनिवरैरेवमेव दर्शितम्
भद्रभाववर्धकम्...
-X
७
डॉ. वासुदेव वि. पाठकः 'वागर्थः '
३५४, सरस्वतीनगर, आम्बावाडी, अहमदाबाद - १५. फोन : ०७९-२६७४५७५४
Page #19
--------------------------------------------------------------------------
________________
आस्वादः
यशस्तिलकचम्वां वर्णिता द्वादशानुप्रेक्षा:
डो. एच् वि. नागराजराव्
सोमदेवसूरिविरचिता यशस्तिलकचम्पू: संस्कृतसाहित्यस्य सुवर्णकलशायमाना पृथिव्यां प्रथते । अस्यां शब्दसौन्दर्यम् अर्थगाम्भीर्यं धर्मरहस्यं च गोचरीभवति । जैनमतस्य तत्त्वानि काव्यरीत्या सोमदेवसूरिणाऽत्र न्यरूपिषत । द्वितीयाश्वासे यशोधर्ममहाराजस्य वैराग्यं समजनीति वक्तव्ये सन्दर्भ कविादशानुप्रेक्षाः समीचीनया शैल्या विवृणोति । तत्र पीठिकारूपेणेदं वाक्यं तेनोपन्यस्यते -
"तदनु संजातनिर्वेदसंवेदनहृदयः सविधतरनिःश्रेयसाभ्युदयः सच्चरितलोकलोचनचन्द्रमाः पुनरिमाः किल शीलसाराः सस्मार संसारसागरोत्तरणपोतपात्रदशा द्वादशाऽप्यनुप्रेक्षाः" इति ।
___ अनुप्रेक्षाः - भावनाः । शरीरादीनां स्वभावः कः?, नित्यं किम् अनित्यं किम् ? इत्याद्यालोचना अनुप्रेक्षेति जैनैरभिधीयते । प्रपञ्चस्थितेरनुचिन्तनाऽनुप्रेक्षेति ज्ञानिनो वदन्ति । द्वादशानुप्रेक्षा आचार्यैरुपदिष्टा यथा - १. अध्रुवानुप्रेक्षा, २. अशरणानुप्रेक्षा, ३. एकत्वानुप्रेक्षा, ४. अन्यत्वानुप्रेक्षा, ५. संसारानुप्रेक्षा, ६. लोकानुप्रेक्षा, ७. अशुचित्वानुप्रेक्षा, ८. आस्रवानुप्रेक्षा, ९. संवरानुप्रेक्षा, १०. निर्जरानुप्रेक्षा, ११. बोधिदुर्लभानुप्रेक्षा, १२. धर्मानुप्रेक्षा च । एतासामनुप्रेक्षाणां हृद्यमनवद्यं निरूपणं कृतं सोमदेवसूरिणा। ताः प्रसन्नेन मनसा परिशीलयामस्तावत् - १. अधुवानुप्रेक्षा
उत्सृज्य जीवितजलं बहिरन्तरेते रिक्ता विशन्ति मरुतो जलयन्त्रकल्पाः । एकोद्यमं जरति यूनि महत्यणौ च
सर्वङ्कषः पुनरयं यतते कृतान्तः । अत्रोपमालङ्कारेण कविर्जीवितस्याऽध्रुवत्वं न्यरूपयत् । जलयन्त्रकल्पा इत्यस्य अरघट्टघटीमाला सदृशा इत्यर्थः । “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः"२ इति पाणिनिः । ईषदसमाप्तिः सादृश्ये पर्यवस्यति । व्याख्यात्रनुसारेण सर्वङ्कषः पुनः - इत्यस्य दावानलसदृश इत्यर्थः । पुनःशब्द इवार्थे वर्तते इति वदति व्याख्याकारः ।
Page #20
--------------------------------------------------------------------------
________________
पुनराह सोमदेवसूरिः -
लावण्ययौवनमनोहरणीयताद्याः कायेष्वमी यदि गुणाश्चिरमावसन्ति । सन्तो न जातु रमणीरमणीयसारं
संसारमेनमवधीरयितुं यतन्ते । किन्तु सन्तो जिनाः संसारमवधीरयन्ति । तेन ज्ञायते गुणा लावण्यादयश्चिरं कायेषु न वसन्तीति । पश्यामः खलु लोके स्त्रीणां परमरमणीयानामपि कालान्तरे शोचनीयं रूपं वार्धक्यरोगादिभिः । अतो यौवनादीनाम् अनित्यत्वं प्रत्यक्षसिद्धम् । पुनराह सोमदेवसूरिः -
उच्चैः पदं नयति जन्तुमधः पुनस्तं वात्येव रेणुनिचयं चपला विभूतिः । श्राम्यत्यतीव जनता वनितासुखाय
ताः सूतवत् करगता अपि विप्लवन्ते ॥ अत्राऽप्युपमया विवक्षितार्थं दृढीकरोति कविः । सूतवदित्यस्य पारदरसवदित्यर्थः । करेण यथा पारदं ग्रहीतुं न शक्नुमः, तथा वनिता अपि वशीकर्तुं न शक्नुमो महताऽपि श्रमेणेति भावः । अत्र स्त्रीप्रेम्णोऽनित्यत्वं कथितम् । पुनराह -
शूरं विनीतमिव सज्जनवत्कुलीनं विद्यामहान्तमिव धार्मिकमुत्सृजन्ती । चिन्ताज्वरप्रसवभूमिरियं हि लोकं
लक्ष्मीः खलक्षणसखी स्ववशीकरोति ॥ लक्ष्म्याः के न वशंवदाः ? शूरा विनीताः सज्जनाः कुलीना विद्यावन्तश्च लक्ष्मीमिच्छन्तोऽपि तयोत्सृज्यन्ते । तान् विहाय कातरान् अविनीतान् दुर्जनान् अकुलीनान् विद्याहीनान् अधार्मिकान् एव लक्ष्मीः समाश्रयति । तत्राऽपि नित्यं न तिष्ठति । तदेवोक्तं खलक्षणसखीति । खलवदुर्जनवत् क्षणसखी अल्पकालस्नेहिनी इति व्याख्याकारः । एवं च लक्ष्मीः कस्याऽपि न नित्येति फलितम् । पुनः स्त्रीसङ्गस्याऽविश्वास्यताम् आह सोमदेव:
वाचि भ्रुवोर्दृशि गतावलकावलीषु यासां मनःकुटिलतातटिनीतरङ्गाः । अन्तर्न मान्त इव दृष्टिपथे प्रयाताः कस्ताः करोतु सरलास्तरलायताक्षीः ॥
Page #21
--------------------------------------------------------------------------
________________
वागादिषु सर्वेषु स्त्रीणां कुटिलत्वं वक्रत्वमेव वर्तते । ता न कश्चित् सरलाः कर्तुं शक्त इत्यभिप्रायः । पुनश्च -
संसारबद्धकवलस्य यमस्य लोके कः पश्यतोहरविधेरवधि प्रयातः । यस्माज्जगत्त्रयपुरीपरमेश्वरोऽपि
तत्राऽऽहितोद्यमगुणे विधुरावधानः ॥ यमः आयुषां पश्यतोहरः । पश्यतो यो हरत्यर्थान् स चोरः पश्यतोहरः इत्यमरसिंहः । पश्यन्तम् अनादृत्य अर्थहरणे स समर्थ इति भावः । अतो विधेः पुरस्तात् परमेश्वरोऽपि विधुरावधानः । पुनश्च -
इत्थं क्षणक्षयहुताशमुखे पतन्ति वस्तूनि वीक्ष्य परितः सुकृती यतात्मा । तत्कर्म किञ्चिदनुसर्तुमयं यतेत
यस्मिन्नसौ नयनगोचरतां न याति ॥ असौ यमो यथा नेत्रपालत्वं न याति, तादृशं कर्म कर्तुं विवेकी यत्नं कुर्यादिति तात्पर्यम् । एवं लोके यद्यत् सामान्यपुरुषैरभिलष्यते, धनं वाऽधिकारः स्त्रीप्रेम वा तत्सर्वम् अध्रुवम्, अनित्यम् इति भावना कर्तव्या। तदैव वैराग्याङ्कर उत्पद्यते । २. अशरणानुप्रेक्षा
नाशे समुपस्थिते न कश्चित् कञ्चिद्रक्षति । यस्याऽऽयुः समाप्तं तं न कोऽपि वैद्यो रक्षितुं समर्थः । अतो मम शरणं न किञ्चिद् इति चिन्तना अशरणानुप्रेक्षा । तद्विवृणोति सोमदेवः -
दत्तोदयेऽर्थनिचये हृदये स्वकार्ये सर्वः समाहितमतिः पुरतः समास्ते । जाते त्वपायसमयेऽम्बुपतौ पतत्रेः
पोतादिव द्रुतवतः शरणं न तेऽस्ति ॥ नौकाया द्रुतवतः पक्षिणः समुद्रे यथा न कश्चिच्छरणं, तथा अपायसमये जीवस्य न शरणमस्ति ।
बन्धुव्रजैः सुभटकोटिभिराप्तवगैः मन्त्रास्त्रतन्त्रविधिभिः परिरक्ष्यमाणः । जन्तुर्बलादधिनलोऽपि कृतान्तदूतै
रानीयते यमवशाय वराक एषः ॥ राज्ञो बन्धवः सन्ति, अङ्गरक्षकास्सुभटास्सन्ति, आप्ताः सचिवास्सन्ति । तैः परिरक्ष्यमाणोऽपि यमदूतैर्नीयते । अतो मृत्युकाले शरणं नास्ति ।
Page #22
--------------------------------------------------------------------------
________________
संसीदतस्तव न जातु समस्ति शास्ता त्वत्तः परः परमवाप्तसमग्रबोधेः । तस्यां स्थिते त्वयि यतो दुरितोपताप
सेनेयमेव सुविधे ! विधुराश्रया स्यात् ॥ त्वत्तः परः शरणीभवितुमर्हो नास्ति । समग्रबोधि प्राप्तवान् त्वमेव तव शरणम् । बोधौ यदा त्वं स्थास्यसि, तदा दुरितोपतापसेना स्वयं विधुराश्रया भविष्यतीति सच्चरितं जीवं प्रत्याह । इत्थम् अशरणानुप्रेक्षा करणीया । ३. संसारानुप्रेक्षा
जननमरणचक्रे भ्रमणं संसारः । अत्र सर्वे दुःखाभिभूताः निविण्णा भवन्तीति चिन्तना संसारानुप्रेक्षा । तद्विवृणोति सोमदेवसूरिः -
कॉर्पितं क्रमगतिः पुरुषः शरीरमेकं त्यजत्यपरमाभजते भवाब्धौ । शैलूषयोषिदिव संसृतिरेनमेषा
नाना विडम्बयति चित्रकरैः प्रपञ्चैः ॥ शैलूषयोषिन्नटी । सेव संसृतिः चित्रकरैः प्रपञ्चैविडम्बयति । हास्यास्पदं करोति । कर्मार्पितमेकं शरीरं जीवस्त्यजति अपरं गृह्णाति । एषा संसाररीतिः । संसारे किमपि सुखं नास्तीत्याहाऽपरेण पद्येन -
दैवाद्धनेष्वधिगतेषु पटुर्न कायः काये पटौ न पुनरायुरवाप्तवित्तम् । इत्थं परस्परहृतात्मभिरात्मधर्में
लॊकं सुदुःखयति जन्मकरः प्रबन्धः ॥ धनिनो न देहारोग्यं, देहारोग्ये सत्यपि न दीर्घमायुः, यस्याऽऽयुस्तस्य न धनम् । एवं संसारो जीवं दुःखयति । पुनश्चाऽन्यः संसारदोष इत्याचष्टे -
आस्तां भवान्तरविधौ सुविपर्ययोऽयम् अत्रैव जन्मनि नृणामधरोच्चभावः । अल्पः पृथुः पृथुरपि क्षणतोऽल्प एव
स्वामी भवत्यनुचरः स च तत्पदाहः ॥ अन्यस्मिन् जन्मनि उच्चनीचभावो विपर्ययं गच्छतीति तावदास्ताम् । अस्मिन्नेव जन्मनि स दृश्यते । भिक्षुको लक्षाधिपतिर्भवति । लक्षाधिपतिः परेधुभिक्षुको दृश्यते । स्वामी सेवकस्य सेवको भवति । एष प्रकारः संसारस्य ।
११
Page #23
--------------------------------------------------------------------------
________________
वैचित्र्यमित्यमनुभूय भवाम्बुराशेरातङ्कवाडवविडम्बितजन्तुवारेः । को नाम जन्मविषपादपपुष्पकल्पैः
स्वं मोहयेन्मृगदृशां कृतधीः कटाक्षैः ॥ सद्यः प्राणहरो व्याधिरातङ्क उच्यते इति व्याख्या । स्त्री-कटाक्षाय स्पृहयन्ति मनुष्याः । ते विषवृक्षकुसुमसदृशाः । मोहनं तेषां स्वभावः । कृतधीर्बुद्धिमान् । स तैरात्मानं न मोहयतीति संसारवैयर्थ्यचिन्तना मोक्षापेक्षिणा कार्या । ४. एकत्वानुप्रेक्षा
एक एव जीवोऽत्राऽऽयाति, एक एवेतो निर्याति । सर्वेऽन्ये तात्कालिका इति भावना एकत्वानुप्रेक्षा। तामाह -
एकस्त्वमाविशसि जन्मनि संक्षये च भोक्तुं स्वयं स्वकृतकर्मफलानुबन्धम् । अन्यो न जातु सुखदुःखविधौ सहायः
स्वाजीवनाय मिलितं विटपेटकं ते ॥ अन्ये किमर्थं तव सविधे उपस्थिता इति चेत् स्वस्य जीविकायै । पत्नीपुत्रादयः तव साहायकं कर्तुं नैव त्वाम् उपसर्पन्ति । अपि तु स्वार्थेनेति विजानीहि इति जीवं सम्बोध्य कथ्यते । पुनराह -
बाह्यः परिग्रहनिधिस्तव दूरमास्तां देहोऽयमेति न समं सहसम्भवोऽपि । किं ताम्यसि त्वमनिशं क्षणदृष्टनष्टै
र्दारात्मजद्रविणमन्दिरमोहपाशैः ॥ सहसम्भवो देहोऽपि त्वया समं नैति, क्षणदृष्टनष्टैः दारादिभिः मोहपाशैः किं ताम्यसीति स्पष्टोऽर्थः ।
संशोच्य शोकविवशो दिवसं तमेकमन्येधुरादरपरः स्वजनस्तवाऽर्थे । कायोऽपि भस्म भवति प्रचयाच्चिताग्नेः
संसारयन्त्रघटिकाघटने त्वमेकः ॥ एकमेव दिवसं शोचित्वा बन्धुमित्रादयो मृतस्य वित्त लब्धं चेष्टां कुर्वन्ति । कायो भस्मीभवति । जीव एक एव शिष्यते ।
Page #24
--------------------------------------------------------------------------
________________
एष स्वयं तमचलैर्ननु कर्मजालैलूंतेन वेष्टयति नष्टमतिः स्वमेकः । पुण्यात्पुनः प्रशमतन्तुकृतावलम्ब
स्तद्धाम धावति विधूतसमस्तबाधम् ॥ नष्टमतिरात्मानं कर्मजालैर्वेष्टयति । लूतेवेत्युपमानम् । पुण्यमतिः पुनः निर्बाधं धाम गच्छति । उभयत्रैक एव याति इति एकत्वभावना ध्येया । इत्येकत्वानुप्रेक्षा । ५. पृथक्त्वानुप्रेक्षा
जगति समस्तस्य दुःखस्य मूलं शरीरात्मनोः पृथक्त्वज्ञानाभावः । आत्मा शरीरात् पृथगिति भावनाऽपेक्षिता वैराग्यस्य दाढाय । तद्वदति सोमदेवसूरिः -
देहात्मकोऽहमिति चेतसि मा कृथास्त्वं त्वत्तो यतोऽस्य वपुषः परमो विवेकः । त्वं धर्मशर्मवसतिः परितोऽवसायः
कायः पुनर्जडतया गतधीनिकायः ॥ धर्मस्य शर्मणः (सुखस्य) चाऽऽश्रय आत्मा । शरीरं तु पाञ्चभौतिकं न तथेति विरागिना ज्ञेयम् । पुनश्च -
आसीदति त्वयि सति प्रतनोति कायः क्रान्ते तिरोभवति भूपवनादिरूपैः । भूतात्मकस्य मृतवन्न सुखादिभाव
स्तस्मात्कृती करणतः पृथगेव जीवः ॥ __ आत्मनि सति काय उत्पद्यते वर्धते च । आत्मनि निष्क्रान्ते पञ्चभूतरूपम् आसाद्य नश्यति । कर्ताऽऽत्मा, करणं वपुः । करणं कर्तुभिन्नम् ।
सानन्दमव्ययमनादिमनन्तशक्तिमुद्द्योतिनं निरुपलेपगुणं प्रकृत्या । कृत्वा जडाश्रयमिमं पुरुषं समृद्धाः
सन्तापयन्ति रसवदुरिताग्नयोऽमी ॥ सानन्दत्वादिधर्मयुतमात्मानं दुरिताग्नयो जडाश्रयं कृत्वा पारदरसवत्सन्तापयन्ति । अपि च -
कर्मासवानुभवनात् पुरुषः परोऽपि प्राप्नोति पातमशुभासु भवावनीषु ।
१३
Page #25
--------------------------------------------------------------------------
________________
तस्मात्तयोः परमभेदविदो विदग्धाः
श्रेयस्तदादधतु यत्र न जन्मयोगः ॥ तयोः शरीरात्मनोः परमभेदं ज्ञात्वा जन्मयोगाभावाय मोक्षाय विदग्धा विवेकिनः प्रयतेरन्निति पृथक्त्वानुप्रेक्षा कर्तव्या। ६. अथाऽशुचित्वानुप्रेक्षा । शरीरं सर्वाशुचीनां निधानमिति को न जानाति ? तच्चिन्तना वैराग्यं दृढीकरोति । अत आह -
आधीयते यदिह वस्तु गुणाय कान्तं काये तदेव मुहुरेत्यपवित्रभावम् । छायाप्रतारितमतिर्मलरन्ध्रबन्धं
किं जीव ! लालयसि भङ्गुरमेतदङ्गम् ॥ शरीरं सुगन्धि कर्तुं यत्स्रक्चन्दनादि आधीयते, तदपि शीघ्रं दुर्गन्धि अपवित्रं च भवति । तादृशं शरीरं किं लालयसि इति जीवं प्रत्यनुयोगः । पुनराह शरीरस्य हेयत्वम् -
योषिद्भिरादृतकरं कृतमण्डनश्रीर्यः कामचामररुचिस्तव केशपाशः । सोऽयं त्वयि श्रवणगोचरतां प्रयाते
प्रेतावनीषु वनवायसवासगोऽभूत् ॥ मनुष्ये मृते तस्य केशान् हत्वा वायसाः स्वनीडेषु स्थापयन्ति । अतोऽत्र मोहो न धार्य इति भावः ।
अन्तर्बहिर्यदि भवेद्वपुषः शरीरं दैवात्तदानुभवनं ननु दूरमास्ताम् । कौतूहलादपि यदीक्षितुमुत्सहेत
कुर्यात्तदाऽभिरतिमत्र भवान् शरीरे ॥ शरीरस्याऽन्तर्यद्रक्तमांसमज्जादिकमस्ति, तद्यदि बहिर्भवेत्, तदा कस्य तत्र जुगुप्सा न जायते ? बीभत्समेतदिति भावः ।
तस्मान्निसर्गमलिनादपि लब्धतत्त्वाः कीनाशकेलिमनवाप्तधियोऽचिराय । कायादतः किमपि तत्फलमार्जयन्तु यस्मादनन्तसुखसस्यविभूतिरेषा ॥
Page #26
--------------------------------------------------------------------------
________________
अशुचेः कायात् सम्यग्ज्ञानं यदि प्राप्नुयाम, तर्हि तत्सफलम् । अन्यथा सर्वदाऽशुचौ काये प्रीतिर्न कार्येत्यभिप्रायः । इति अशुचित्वानुप्रेक्षा । ७. आस्त्रवानुप्रेक्षा
हिंसा, अनृतं, स्तेयम्, अब्रह्मचर्य, परिग्रह इत्येतानि आस्रवस्य द्वाराणि । तैः पापम् आत्मनि प्रविशति । एतद् ध्यात्वा अहिंसादिकम् एवाऽऽचरणीयम् । वदति सोमदेवः -
अन्तः कषायकलुषोऽशुभयोगसङ्गात् कर्माण्युपार्जयति बन्धनिबन्धनानि । रज्जूः करेणुवशगः करटी यथैता
स्त्वं जीव ! मुञ्च तदिमानि दुरीहितानि ॥ क्रोधमानमायालोभादयः कषायाः । तैर्मलिनान्तःकरणः पुरुषो बन्धकारणानि कर्माण्यर्जयति । तत्रोपमा करटी (गजः) । अतो मतिमान् दुरीहितानि परित्यजेत् ।
सङ्कल्पकल्पतरुसंश्रयणात् त्वदीयं चेतो निमज्जति मनोरथसागरेऽस्मिन् । तत्राऽर्थतस्तव चकास्ति न किञ्चनाऽपि
पक्षे परं भवसि कल्मषसंश्रयस्य ॥ सुखं प्राप्तव्यमिति सङ्कल्पाच्चेतो मनोरथसागरे मज्जति । एतत्कल्मषाश्रयणस्य कारणं भवति । पुनराह कविः -
सेयं विभूतिषु मनीषितसंश्रयाणां चक्षुर्भवत्तव निजातिषु मोघवाञ्छम् । पापागमाय परमेष भवेद्विमूढ !
कामात् कुतः सुकृतदूरवतां हितानि ॥ ईर्ष्यासहितमपि विभूतिषु मनीषितानि भवन्ति । तत्र चक्षुः मनो वा मोघवाञ्छं विफलाशं भवति । अतो जीवस्य विमूढेति सम्बोधनम् । इदं सर्वं पापागमाय कल्पते । कामात् हितानि न भवन्तीति अर्थान्तरन्यासः ।
दौर्विध्यदग्धमनसोऽन्तरुपात्तभुक्तेश्चित्तं यथोल्लसति ते स्फुरितोत्तरङ्गम् । धाम्नि स्फुरेद्यदि तथा परमात्मसंज्ञे
कौतस्कुती तव भवेद्विफला प्रसूतिः ॥ दौर्विध्यं दारिद्यम् । तेन दग्धमनसस्तव चित्तं परम् आत्मसंज्ञे धाम्नि निलये तेजसि वा यदि भवेत्,
Page #27
--------------------------------------------------------------------------
________________
तदा तव प्रसूतिः विफला कौतस्कुती भवेत् । तव जन्म सफलं भवेदिति तात्पर्यम् । इत्यास्रवानुप्रेक्षा । ८. संवरानुप्रेक्षा संवर आस्रवस्य विरोधी । चारित्ररक्षणया संवर उत्पद्यते । सोमदेवसूरिर्वदति -
आगच्छतोऽभिनवकार्मणरेणुराशेः जीवः करोति यदवस्खलनं वितन्द्रः । सत्तत्त्वचामरधरैः प्रणिधानहस्तैः
सन्तो विदुस्तमिह संवरमात्मनीनम् ॥ अत्र सावयवरूपकालङ्कारः । कार्मणरेणुराशिः । सत्तत्त्वचामराणि । प्रणिधानहस्ताः इत्यत्र स ज्ञेयः । आत्मनीनमित्यस्य आत्मने हितमित्यर्थः । इदं संवरस्य सुन्दरं विवरणम् ।
यस्त्वां विचिन्तयति संचरते विचारैश्चार्वी चिनोति परिमुञ्चति चण्डभावम् । चेतो निकुञ्चति समञ्चति वृत्तमुच्चैः ।।
स क्षेत्रनाथ ! निरुणद्धि कृती रजांसि ॥ हे क्षेत्रनाथ ! आत्मन् ! । क्षेत्रं शरीरं तस्य नाथः पतिः । त्वं कृती सन् रजांसि निरुणद्धि इति उपदेशः।
नीरन्ध्रसन्धिरवधीरितनीरपूरः पोतः सरित्पतिमपैति यथाऽनपायः । जीवस्तथा क्षपितपूर्वतपःप्रतानः
क्षीणास्रवश्च परमं पदमाश्रयेत ॥ पोतोऽत्रोपमानत्वेन निर्दिष्टः । स नीरन्ध्रसन्धिश्चेत् समुद्रं तरति । तथा क्षीणास्रव आत्मा संसारं तीर्खा परमं पदम् आश्रयिष्यतीति संवरानुप्रेक्षा कर्तव्या । ९. लोकानुप्रेक्षा
वेत्रासनझल्लरीमृदङ्गाकारेण लोकत्रयं स्थितं जैनदर्शनानुसारेण । मनुष्यलोके अल्पं सुखम् अधिकं दुःखम् । नरके केवलं दुःखम् । ऊर्ध्वलोके सुखाधिक्यम् । सोमदेवः पद्येनैकेन वर्णयति लोकम् -
मध्याधरोर्ध्वरचनः पवनत्रयान्तस्तुल्यः स्थितेन जघनस्थकरेण पुंसा । एकस्थितिस्तव निकेतनमेष लोक
स्त्रस्यन्निकीर्णजठरोऽग्रनिषण्णलोकः ॥ अस्य लोकस्य न कश्चित् कर्ताऽस्तीति पद्यान्तरेणाऽह -
Page #28
--------------------------------------------------------------------------
________________
कर्ता न तावदिह कोऽपि धियेच्छया वा दृष्टोऽन्यथा कटकृतावपि स प्रसङ्गः । कार्यं किमत्र सदनादिषु तक्षकाद्यै -
राहृत्य चेत् त्रिभुवनं पुरुषः करोति ॥ यदि कश्चिदीश्वरस्त्रिभुवनं करोति, स एव कटं घटं पटं च करोति । कटकारेण कस्मात्परिश्रमः कर्तव्यः ? इति प्रसङ्गः । गृहादिनिर्माणे तक्षकादिभिः कस्मात् कार्यं कर्तव्यम् ? इति च प्रश्नः । लोके जीवस्य वृत्तिं पद्येनैकेन वर्णयति सोमदेवः । यथा -
त्वं कल्मषावृतमतिनिरये तिरश्चि पुण्योर्जितो दिवि नृषु द्वयकर्मयोगात् । इत्थं निषीदसि जगत्त्रयमन्दिरेऽस्मिन्
स्वैरं प्रचारविधये तव लोक एषः । पापैर्नरके निवासः पुण्यैः स्वर्गे, पापपुण्यरूपकर्मद्वययोगैर्भूलोके इति लोकत्रये जीवः संचरतीति भावः । पुनराह -
अत्राऽस्ति जीव ! न च किञ्चिदभुक्तमुक्तं स्थानं त्वया निखिलतः परिशीलनेन । तत्केवलं विगलिताखिलकर्मजालं
स्पृष्टं कुतूहलधियाऽपि न जातु धाम ॥ अत्र लोकत्रये जीवेनाऽभुक्तमुक्तं किञ्चिदपि स्थानं नास्ति । विगलिताखिलकर्मजालं धाम तु न स्पृष्टम् । इति लोकानुप्रेक्षा । १०. निर्जरानुप्रेक्षा तपश्चरणेन कर्माणि विलीयन्ते । अनेनैव मोक्षसाधनम् आप्यते । सोमदेव आह -
आपातरम्यरचनैर्विरसावसानैजन्मोद्भवैः सुखलवैः स्खलितान्तरङ्गः । दुःखानुषङ्गकरमार्जितवान् यदेन
स्तत् त्वं सहस्व हतजीव ! नवप्रयातम् ॥ हतजीवेति सम्बुद्धिः । सुखलवाशया त्वं स्खलितान्तरङ्गः । अतः एनः (पापम्) आर्जितवान् । तत् कर्मविपाकं सहस्वेति अत्र कथ्यते । पुनश्च -
कालुष्यमेति यदिह स्वयमात्मकामो जागर्ति तत्र ननु कर्म पुरातनं ते ।
१७
Page #29
--------------------------------------------------------------------------
________________
योऽहिं विवर्धयति कोऽपि विमुग्धबुद्धिः
स्वस्योदयाय स नरः प्रवरः कथं स्यात् ॥ सर्प विवर्धितवान् नरप्रवरो न । कर्म विवर्धितवानपि तथा । मतिमता निर्जरावृद्धौ यतनीयमिति तात्पर्यम् । तदनुवर्तयन्नाह -
आतङ्कपावकशिखाः सरसावलेखाः स्वस्थे मनाङ्मनसि ते लघु विस्मरन्ति । तत्कालजातमतिविस्फुरितानि पश्चा
ज्जीवाऽन्यथा यदि भवन्ति कुतोऽप्रियं ते ॥ ११. धर्मानुप्रेक्षा अनुप्रेक्षासु मुख्या धर्मानुप्रेक्षा । तत्र धर्मविषये आप्तवाक्यं प्रमाणम् । धर्म कं वदन्त्याप्ता इत्याह
श्रद्धाभिसन्धिरवधूतबहिस्समीहस्तत्त्वावसायसलिलाहितमूलबन्धः । आत्मा यमात्मनि तनोति फलद्वयार्थी
धर्मं तमाहुरमृतोपमसस्यमाप्ताः ॥ आप्ताः सर्वज्ञा जिनाः । तत्त्वानि जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षरूपाणि सप्त । अवसाय: सम्यग् ज्ञानम् । फलद्वयार्थी स्वर्ग-मोक्षाकाङ्क्षी । शिष्टं स्पष्टम् ।
मैत्रीदयादमशमागमनिर्वृतानां बाह्येन्द्रियप्रसरवजितमानसानाम् । विद्याप्रभाप्रहतमोहमहाग्रहाणां
धर्मः परापरफलः सुलभो नराणाम् ॥ मैत्र्यादयो गुणाः, इन्द्रियनिग्रहः, विद्या चेति त्रयं येषु तेषां धर्मः सुलभ इति तात्पर्यम् । धर्मः किं करोतीत्याह -
इच्छाः फलैः कलयति, प्ररुणद्धि बाधाः सृष्टेरसाम्यविभुरभ्युदयादिभिर्यः । ज्योतींषि दूतयति चाऽऽत्मसमीहितेषु
धर्मः स शर्मनिधिरस्तु सतां हिताय ॥ ज्योतींषि श्रुतावधिमनःपर्यायादीनि । दूतयति दूतरूपेण प्रहिणोति प्रेषयतीति । अत्र धर्ममहिमा प्रोक्तः ।
Page #30
--------------------------------------------------------------------------
________________
देहोपहारकुतपैः स्वपरोपतापैः कृत्वाध्वरेश्वरमिषं विदलन्मनीषाः । धमैषिणो य इह केचन मान्द्यभाज
स्ते जातजीवितधियो विषमापिबन्ति ॥ अत्र यागानाम् अधर्मकारणत्वं कथितम् । यागमिषेण जीवहिंसां कुर्वाणा विषमास्वादयन्ति । स्वाहितं स्वयम् आचरन्तीति भावः ।
येऽन्यत्र मन्त्रमहिमेक्षणमुग्धबोधाः शर्वैषिणः पुनरतः शिवतां गृणन्ति । ते नावि तारणदृशो दृषदोऽवलम्ब्य
दुष्पारमम्बुधिजलं परिलङ्घयन्ति ॥ __शर्वैषिणो रुद्रमतानुयायिनः । शिवतां शिवस्वरूपप्राप्तिः अस्माकं भविष्यतीति वदन्ति । दृषदः शिलाः अवलम्ब्य समुद्रं ते तितीर्षन्ति । तथैव मुक्तिप्राप्तौ विफला भविष्यन्ति इति भावः ।
धर्मश्रुतेरिह परत्र च येऽविचाराः सन्दिह्य तामसदृशः सततं यतन्ते । दुग्धाभिधानसमताविलबुद्धयस्ते
नूनं गवार्करसपानपरा भवन्तु ॥ इह जैनमते परत्राऽन्यमतेषु च सन्दिह्य सन्देहं कृत्वा ये यतन्ते यत्नं कुर्वन्ति, ते गवार्करसपानपरा भवन्तु । अर्कवृक्षस्य पत्राणां रसो धावल्येन मन्दत्वेन च क्षीरसदृशो भवति । तदेव दुग्धमिति कैश्चित् कथ्यते। तत्पाने कृते रोग उत्पद्यते । तामसदृशो जैनेतरमतं यदाश्रयन्ति, तत् गवार्करसपानसमानमिति भावः।
अज्ञस्य शक्तिरसमर्थविधेर्निबोधस्तौ चाऽरुचेरियममू तुदती न किञ्चित् । अन्धाङ्ग्रिहीनहतवाञ्छितमानसानां
दृष्टा न जातु हितवृत्तिरनन्तराया ॥ अज्ञो ज्ञानहीनः, असमर्थविधिः चारित्रहीनः, अरुचिः श्रद्धाहीनः इत्येते त्रयोऽपि नश्यन्ति । तत्र दृष्टान्तोऽस्ति - वनाग्नौ जृम्भमाणे अन्धः, पङ्गः, हतवाञ्छित इति त्रयोऽपि दह्यन्ते । अतो ज्ञानं चारित्रं श्रद्धा चेति त्रयं यस्मिन् तस्यैव मोक्षसिद्धिः । तदेवाऽऽह -
चालुं रुचौ तदुचिताचरणे च नृणां दृष्टार्थसिद्धिरगदादिनिषेवणेषु ।
Page #31
--------------------------------------------------------------------------
________________
तस्मात्परापरफलप्रदधर्मकामाः
सन्तस्त्रयावगमनीतिपरा भवन्तु ॥ इति धर्मानुप्रेक्षा । १२. बोधिदुर्लभतानुप्रेक्षा
लोके धनं दाराः सुहृदोऽन्ये पदार्थाश्च सुलभाः । किन्तु बोधिः सुदुर्लभा । मानवत्वमेव सुदैवाल्लभ्यते, मानवजीवन एव बोधिर्लभ्यते, नाऽन्यजातिजन्मसु । तदाह सोमदेवसूरिः -
संसारसागरमिमं भ्रमता नितान्तं जीवेन मानवभवः समवापि दैवात् । तत्रापि यद्भुवनमान्यकुले प्रसूतिः
तत्सङ्गतिश्च तदिहाऽन्धकवर्तकीयम् ।। मनुष्यत्वं, सत्कुले जन्म, महापुरुषसंश्रयश्चेति त्रयं यदि केनचिल्लभ्यते, तदन्धकवर्तकीयम् । कश्चिदन्धको यदृच्छया करतलेन करतलं ताडयन्नस्ति । वर्तकः पक्षिविशेषः करतलमध्यागतो गृह्यते अन्धकेन । तद्यथा अन्धकस्य सुदैवात् कदाचिदेव भवति इति दृष्टान्तः ।
कृच्छ्राद्वनस्पतिगतेश्च्युत एष जीवः श्वभ्रेषु कल्मषवशेन पुनः प्रयाति । तेभ्यः परस्परविरोधिमृगप्रसूतौ
अस्याः पशुप्रतिनिभेषु कुमानवेषु ॥ वनस्पतिजन्म, ततः श्वभ्रेषु नरकेषु गतिः, ततः अन्योन्यविरोधिगजसिंहादिजातिषु जन्म, ततः पशुसदृशेषु मानवरूपेषु जन्म ।
संसारयन्त्रमुदयास्तघटीपरीतं सातानतामसगुणं भृतमाधितोयैः । इत्थं चतुर्गतिसरित्परिवर्तमध्यम्
आवाहयेत् स्वकृतकर्मफलानि भोक्तुम् ॥ सातानतामसगुणम् इति सविस्तारतमोगुणप्रभावितम् । गुणशब्दः श्लिष्टः । रज्जुरित्यप्यर्थो विवक्षितः । उदयास्तावेव घट्यः । आधय एत तोयानि । एवं सावयवरूपकमिदम् ।
आतङ्कशोकभयभोगकलत्रपुत्रर्यः खेदयेन्मनुजजन्म मनोरथाप्तम् । नूनं स भस्मकृतधीरिह रत्नराशिमुद्दीपयेदतनुमोहमलीमसात्मा ॥
२०
Page #32
--------------------------------------------------------------------------
________________
मनोरथैराप्तं मानवजन्म व्यर्थैरातङ्कादिभिः यः खेदयेत् स रत्नराशिं वह्नौ क्षिपेत् । रत्नसदृशं मानवजन्म तथा न मोघीकर्तव्यमिति तात्पर्यम् ।
बाह्यप्रपञ्चविमुखस्य शमोन्मुखस्य भूतानुकम्पनरुचः प्रियतत्त्ववाचः । प्रत्यक्प्रवृत्तहृदयस्य जितेन्द्रियस्य
भव्यस्य बोधिरियमस्तु पदाय तस्मै ॥ बोधिर्नाम रत्नत्रयप्राप्तिः । भव्यस्य योग्यस्य मनुष्यस्य । तस्मै पदाय मोक्षाख्याय स्थानाय अस्तु कल्पताम् । तस्य पुरुषस्य योग्यताद्योतकानि षड् विशेषणानि बाह्यप्रपञ्चविमुखस्येत्यादीनि ।
विवेकिभिर्दादशानुप्रेक्षाः कार्याः । अध्रुवत्वादीनां चिन्तना सततं करणीया यया वैराग्यं दृढीभविष्यति। पतञ्जलिनाऽपि योगश्चित्तवृत्तिनिरोध इत्युक्त्वा अभ्यासवैराग्याभ्यां तन्निरोध इति वैराग्यस्य प्राधान्यं प्रतिपादितम् । दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् इति वैराग्यलक्षणं च कथितम् । विवेकचूडामणौ चोक्तम् -
वैराग्यं च मुमुक्षुत्वं तीव्र यस्य तु विद्यते । तस्मिन्नेवाऽर्थवन्तः स्युः फलवन्तः शमादयः ॥ एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत्तत्र शमादेर्भासमात्रता ॥ इति ।
वीतरागाय नमः ।
-x
Page #33
--------------------------------------------------------------------------
________________
क्षमा वीरस्य भूषणम्
सा.मोक्षयशाश्रीः
वैविध्यपूर्णेऽस्मिन् जगति नैकविधविचारशीला मानवाः सन्ति । केचन विमर्शकारिणो नरास्तथा ससंवेदना जना अपि केचन विराजन्ते । मनोरथमया मानवाः केचन तथा हिंसका अपि केचन सन्ति ।
प्रत्येकं मनुष्यस्य हृदि विचारणाः संवेदना मनोरथाश्च भिन्ना भिन्ना भवन्ति । यदि मानवानां पारस्परिकविचाराणां परस्परं सुयोग्यसम्मेलनं स्यात् तर्हि मैत्रीभावः प्रादुर्भवेत् । अन्यथा वैमनस्यं स्यात् ।
"यत्र वैमनस्यं प्रादुर्भवेत् तत्र क्षमा आवश्यकी" ।
स्वकीयविचारेण स्वकीयमनोरथेन च सह यदा विरोधः समागच्छत्यथवा स्वकीयेच्छापूर्त्तिर्यदा न भवेत्तदा मानवः शीघ्रं क्रोधाविष्टो भवति । किन्तु तत्समये स्वकीयमनसि स्वस्थीभूय विचारणीयम् - 'मया तु क्षमा एव प्रदातव्या' इति ।
प्रत्येकस्मिन् मानवे विचाराणां वैविध्यं विज्ञाय क्षमादानकरण एव मनसः स्थिरीकरणं वरम् । क्षमादानप्रभावेन देहस्वास्थ्यं प्राप्यते, आत्मा च प्रमोदभावेन प्रमुदितो भवेत् । अतो महावीरप्रभोः क्षमां मनसि निधाय स्वमताद् विपरीतकार्यकारिषु गालिप्रदायकेषु निन्दाकारिषु च जनेषु क्षमा एव देयत्वेन श्लाघ्यतमा मन्तव्या ।
एकदा कश्चन ज्ञानिपुरुषः सभामध्ये उपविष्टः । तदैकः सामान्यजनः समागत्य तस्मै नैकविधं गालिप्रदानं चक्रे ।
पार्श्वस्थितं तन्मित्रं तस्मै कथितवान् – “अयं भवतो बहुविधानपशब्दानुक्तवान्, तयपि भवतो मुखारविन्दे प्रसन्नता एव दरीदृश्यते - इति भवदीयमनःस्थितिराश्चर्यकारिणी" ।
मित्रवर्यस्य वाक्यं श्रुत्वा सस्मितं ज्ञानिपुरुष उदितवान् – “भो प्रियमित्र ! शृणु । यदि कोऽपि जनः समागत्य स्वकीयं वस्तु दद्यात्, तद्वस्तु च यदि भवते न रोचते तर्हि भवान् तद् गृह्णाति किम् ?"
"नैव, यदि मह्यं न रोचते तर्हि अहं न गृह्णामि ।" "तथैव अस्याऽपशब्देषु मदीया रुचिरपि न वर्तते । अतोऽहं मौनीभूय स्थितवान् ।" क्षमाभावस्य विकासो न कापुरुषाणां किन्तु वीरपुरुषाणां सहजस्वभावः ।
सदाचाररक्षणार्थं प्रतिकारकरणं त्वावश्यकमेव किन्तु क्षमाशीलमनुष्याः प्रतिकारमपि विवेकपूर्वकं कुर्वन्ति । यथा प्रभुमहावीरश्चण्डकौशिकसर्प प्रति सुधारसं प्रवाह्य सर्पमपि सुरलोकस्याऽतिथिं चकार ।
तथैव जगतः सर्वप्राणिषु प्रेमपूर्णा सवात्सल्या मैत्री धर्तव्या, सा एव क्षमा ।
Page #34
--------------------------------------------------------------------------
________________
प्राकृतभाषाविशारदानां विद्वन्मूर्धन्यानां पूज्याचार्यभगवतां श्रीविजयकस्तूरसूरीश्वराणां
दीक्षाशताब्दीमुपलक्ष्य विजयकस्तूरसूरिविशेष:
प्रस्तूयते... २३
२३
Page #35
--------------------------------------------------------------------------
________________
परमगुरुआयरियसिरिविजयणेमिसूरि-थुई
आ. विजयशीलचन्द्रसूरिः आसी जो सयलागमत्थनिउणो गीयत्थसंघप्पहू जो सलाणपहावगो बहुविहग्गंथाण निम्मायगो । जो णं पावयणीतिपत्तबिरुदो विक्वायकित्ती जगे वंदेमो जिणसासणुलइकरं तं नेमिसूरीसरं ॥१॥
वाणी जस्स मणप्पसायजणणी वखाणवेलुब्भवा संदेहोम्महणी सुधम्मपरमत्थोब्भावणी पावणी । एवं धम्मकहीतिलद्धबिरुदो वक्वाणवायफई वंदेमो जिणसासणुन्नइरं तं नेमिसूरीसरं ॥२॥
वाए जेण पराजिआ बहुविहा दुव्वाइणो सूरिणा जे सम्मग्गविरोहिणो जिणमए ते वी य संतज्जिया । एवं लद्धसुवाइपुंगवपओ जो निम्मओ सम्मओ वंदेमो जिणसासणुलइरं तं नेमिसूरीसरं ॥३॥
पुण्णाणं जिणचेड्याइसुकयट्ठाणाण कज्जे तहा संघाईसुक्याण देइ विसए सम्म मुहुत्ताणि जो । एवं जो भुवि कित्तिओ जिणमयोज्जोएण नेमित्तिओ वंदेमो जिणसासणुलइरं तं नेमिसूरीसरं ॥४॥
२४
Page #36
--------------------------------------------------------------------------
________________
बज्झब्भंतरसवभेयतवसो सम्म समाराहगो जो णिच्चं क्यसंवरो मुणिवरो रुद्धासवद्दारओ। जोग्गो जो सहई तवस्सिविरुदस्सऽज्झप्पजोगट्ठिओ वंदेमो जिणसासणुलइकरं तं नेमिसूरीसरं ॥५॥
अज्जते सिरिसूरिमंतपिढिया सव्वा समाराहिया जेणं सविहिपुब्वयं पढमओ माहप्पबुढेिकरा । जाओ मंतपहावगो जिणवराणं सासणे जो महं वंदेमो जिणसासणुलइरं तं नेमिसूरीसरं ॥६॥
अक्खंडेण सबंभचेचरणेणं वक्कसिद्धो खु जो जो नाणाविहजोगसिद्धिकलिओ संविग्गमग्गाणुओ। आसी सिद्धपहावगो गुरुवरो तित्थस्स रक्खाकरो वंदेमो जिणसासणुलइकरं तं नेमिसूरीसरं ॥७॥
सत्थाणं रयणायरेण गुरुणा आइम्मि अंतम्मि य ग्गंथाणं रइया सुकब्बनिवहा ओय-प्पसायलिआ । तेहिं जो सुकईतिसिद्धबिरुदो साहिच्चसत्थण्णुओ वंदेमो जिणसासणुलइकरं तं नेमिसूरीसरं ॥८॥
Page #37
--------------------------------------------------------------------------
________________
आयरियसिरिनंदणसूरि-थुई
आ. विजयशीलचन्द्रसूरिः
जो छदसणसत्थसत्थकुसलो मेहाविणं अग्गणी जो णं कक्कसतक्कसंहियमई जो कम्मसत्थे विऊ। जेणं वागरणाइसत्थनिवहा आलोडिया तं मुया पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥१॥
जो सिद्धंतविऊ पमाण-नय-निक्लेवेसु सीमाधरो जोडणेगंतमयप्पवणमहो काउं अणलो जगे । जो सव्वागमपारगो बुहवरो, तं भत्तिभावलिओ पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥२॥
जो अज्झावणकज्जसज्जसुमई पीऊसपाणी तहा जोईसत्थ-सुसिप्पसत्थनिउणो जो सब्वमन्लो सया । विक्खाओ सुमुहुत्तदाणगुणओ जो सासणे, तं मुया पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥३॥
जो बालो सिसुणा समं च विउओ पन्नाण मज्झे गओ सामनेण जणेण सद्धि सरलो, वच्छल्लवारांणिही । चाणक्को मणुएण वक्कमहणा जो वट्टए, तं मुया पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥४॥
२६
Page #38
--------------------------------------------------------------------------
________________
जो णिच्चं जिणसासणस्स पडिणीयाणं पडीयारगो सामायारिसुरक्खणं सुविहिओ सम्मं च जो कुब्बइ । पव्वाणं तह बारसाण न खयं बुद्धिं न जो मन्नए पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥५॥ कारुण्णामयसिंचणेण सयलं संघे परक्कं जणं संठावेइ सकीयवग्गनिवहे जो सच्छचित्तासयो । 'एसो मज्झ इमो परो' इइ मणे नो जस्स तं सम्मइं पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥६॥ पुण्णं जस्स समग्गसंघकुसले बाढं पउंजिज्जई नो ईहा नियकित्तिकायकरणे संवट्टए जम्मणे । सक्कज्जाण जसो गुरूण चरणे अप्पेड़ जो तं मुया पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥७॥ आसी आयरियो तवोगणवई नामेण नेमी गुरु पट्टे तस्सुदयाभिहाणसुगुरू गीयत्थसत्थग्गणी । पट्टे तस्स विराइयं गुरुगुणं संघस्स सन्नायगं पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥८॥
Page #39
--------------------------------------------------------------------------
________________
आयरियसिरिविन्नाणसूरि-थुई
आ. विजयशीलचन्द्रसूरिः
संतो संतिको पसंतकरणो संतोसभावभुओ दंतो दुम्मइदुक्खदंददलणो निदोसयादायगो । कारुण्णामयपुण्णमाणससरो जो निच्छलो वच्छलो सोऽयं रायउ सव्वमंगलकरो विण्णाणसूरीसरे ॥१॥
पंडिच्चं बहुगंथसत्थविसयं जेणज्जियं किंतु तं आसी मोणजुयं मएण रहियं अंतोमुहं अब्भुयं । सारासारविवेगसंगयमई जो दिग्घदिट्ठी गुरू सोऽयं रायउ सव्वमंगलकरो विण्णाणसूरीसरे ॥२॥
वच्छल्लं भवभीरुया सुचरियं भत्ती गुरूणं तहा सिस्साणं घडणे कठोरहिययत्तं मग्गगामी मई। एवं णेगगुणालओ गुरुवरो धीरो गभीरो य जो सोऽयं रायउ सव्वमंगलको विण्णाणसूरीसरे ॥३॥
२८
Page #40
--------------------------------------------------------------------------
________________
आयरियसिरिकत्थूरसूरि-थुई
आ. विजयशीलचन्द्रसूरिः
जो सिद्धंतमहोयही जिणमए पारंगओ जो परं जेणं संरइया अणेगविसया गंथा तहा पागए । गीयत्थोचियसबसग्गुणगणेहिं जो सयाऽलंकिओ अम्हाणं सुगुरू सया जयउ सो कत्यूरसूरी महं ॥१॥
गंभीरो पपईइ जो गुणगणाणं सायरो वच्छलो जो णिच्वं भवभीरुयंचियमणो चारित्तनिट्ठो तहा । सिस्साणं परिवालगो सुहगुरू अज्झावयाणं वरो अम्हाणं सुगुरू सया जयउ सो कत्यूरसूरी महं ॥२॥
संसुद्धं जिणदेसियं बहुविहं तच्चं परुवेइ जो पंचायारविसुद्धपालणपरो आराहगो जो तहा। सुद्धाणउज्झवसाणगाण रसिओ जो सच्छचित्तो सया अम्हाणं सुगुरू सया जयउ सो कत्यूरसूरी महं ॥३॥ जो नाणावरणेण मुद्दियमई आसी सबालत्तणे तं कम्मं नियतिव्वपोरुसबला जेणं अहो ! निज्जियं । जाओ पागयपंडियाण निवहे सब्बुच्चठाणट्ठिओ अम्हाणं सुगुरू सया जयउ सो कत्यूरसूरी महं ॥४॥
२९
Page #41
--------------------------------------------------------------------------
________________
जो णिच्चं गुरुपायसेवणरओ आणारओडणारयं सीसं जस्स सया गुरुण किवया सच्छत्तमाभासई । जं दटुं गुरुगोयमं समरई वीरस्स सिस्सं जणो अम्हाणं सुगुरू सया जयउ सो कत्यूरसूरी मूहं ॥५॥
जो सज्झायरओ न जस्स हियये अप्पा वि लोएसणा सिद्धतेऽवि य उत्तरायणगे जो तिव्वपीईजुओ । वक्खाणे कुसलोऽणुओगचउगे दवाणुओगण्णुओ अम्हाणं सुगुरू सया जयउ सो कत्यूरसूरी महं ॥६॥
मुद्दा जस्स सया पसन्नवयणा भव्वाण भइंकरा वाणी जस्स सया पसंतवयणा जीवाण आसासगा। कज्जं जस्स सयऽस्सियाण सुमुणीणं सेयसंपायगं अम्हाणं सुगुरु सया जयउ सो कत्यूरसूरी महं ॥७॥
विक्खाओ स विरायई तवगणेसो नेमिसूरीसरो सीसो तस्स गुणायरो समनिही विन्नाणसूरी वरो । सीसो तस्स स होउ अम्ह उवरिं णिच्चं किवासिंचगो अम्हाणं सुगुरू सया जयउ सो कत्यूरसूरी महं ॥८॥
३०
Page #42
--------------------------------------------------------------------------
________________
प्राकृतवाग्विशारदानां पूज्याचार्यश्रीविजयकस्तूरसूरीश्वराणां जीवनवृत्तम्
- कल्याणकीर्तिविजयः स्वनामधन्यानां परमगुरूणां शासनसम्राजां पूज्याचार्यभगवतां श्रीविजयनेमिसूरीश्वरणामष्टौ प्रधानशिष्या ज्ञानेन चरित्रेण तपस्तेजसा च अष्टौ दिग्गजा इव तेजस्विनो, गुणगणसमलङ्कृताः, सामान्यतः सर्वविधास्वपि विद्याशाखासु कृतावगाहा अपि विशेषतो विशिष्टविषयेषु कृतभूरिपरिश्रमाः पारगामिणश्चाऽऽसन् ।
तेषु ह्यष्टसु प्रधानशिष्येष्वन्यतमा आसन् आचार्याः श्रीविजयकस्तूरसूरीश्वराः । यद्यप्येते खल्वाचार्यविजयविज्ञानसूरीश्वराणां शिष्या अभवन्, शासनसम्राजां च प्रशिष्यतया भुवि ख्याता आसन्, तथाऽपि ते निर्मलया प्रज्ञया देदीप्यमानैश्च निजैविशिष्टैर्गुणैः शासनसम्राजां दिग्गजतया विश्रुतानां शिष्याणां पर्षदि स्थानमलभन्त ।
अयं खलु वैक्रमीयः २०७५ तमः संवत्सरः आचार्यवर्यश्रीविजयकस्तूरसूरीश्वराणां दीक्षायाः शततमः संवत्सरः । ततश्च पुण्यनामधेयानां तेषां दीक्षाशताब्दीमुपलक्ष्य तदीयं किञ्चन जीवनवृत्तं यथायथं च गुणगणानत्र वर्णयितुमयमुपक्रमः ।
यद्यपि नाऽयं जनस्तेषां जीवनकालस्य साक्षी, नाऽपि च तेषां गुणगणैः परिचितस्तथाऽपि गुरुजनानां सकाशात् तेषां जीवनस्य विविधान् प्रसङ्गान् श्रावं श्रावं, तथा यत्र तत्र विकीर्णानि तेषां जीवनवृत्तपत्राणि यथाकथञ्चित् संगृह्याऽत्र वर्णनोपक्रमं समारभते । तन्नोपालभ्योऽयं जनः कुत्रचित् स्खलन् कथञ्चिदतिशयोक्तिं वा कुर्वन् ।
Page #43
--------------------------------------------------------------------------
________________
अस्ति किल गूर्जरराज्ये धार्मिक-सामाजिकार्थिकौद्योगिक-कलाशिक्षणादिक्षेत्रेष्वग्रेसरं प्राचीनपरम्पराणामाधुनिकरीतीनां च समन्वयस्थानरूपं वाणिज्यक्षेत्रे च नितरामग्रियमैतिहासिकं चाऽहमदाबादनाम महानगरम् ।
वैक्रमीये विंशतितमे शतके महानगरमिदमासीत् खलु जैनधर्मावलम्बिनां मुख्यं नगरम् । सहस्रशो जैनपरिवारा अत्र वसन्ति स्म । अस्य महानगरस्य प्रत्येकं प्रतोलिकायां जिनमन्दिराणि, पौषधशालाः, उपाश्रयाः, ज्ञानशालाः - इत्यादीनि धर्मस्थानान्यभवन् । प्रत्येकं विपणौ जैनश्रेष्ठिनामेव प्रामुख्यं, व्यापार-व्यवहार-वाणिज्यानि च प्रायशो जैनवणिजामेव हस्तगतान्यासन् । वस्त्रोद्योगः समग्रोऽपि जैनश्रेष्ठिभिरेव प्रवर्त्यते स्म । विशालैर्वस्त्रवयनयन्त्रालयैर्वेष्टितं महानगरमिदं भारतस्य 'मान्चेस्टर' नगरमिति विश्रुतमासीत् । नगरे प्रवर्तमानाः सर्वा अपि शिक्षणसंस्थाः प्रायशो जैनश्रेष्ठिनां दानप्रवाहेणैव स्पन्दमाना आसन् । राजकीयक्षेत्रेऽपि महानगरे जैनश्रेष्ठिनामेव प्रभावो दरीदृश्यते स्म । एतस्योदाहरणद्वयमेव पश्येम – 'सरदार' इति नाम्ना विश्रुतस्य श्रेष्ठिनो लालभाई-दलपतभाई-इत्यस्याऽभिप्रायस्तादात्विकेनाऽऽङ्ग्लसर्वकारीयवाइसरोय-पदस्थितेनाऽपि गृह्यते स्म, मन्यते स्म चाऽपि । एवमेव तदीयपुत्रस्य कस्तूरभाई-लालभाईइत्यस्य गाढः सम्पर्को महात्मगान्धि-सरदारपटेल-नहेरु-इन्दिरागान्धि-प्रमुखै राजनेतृभिः सहाऽऽसीत् । एतादृशैजैनश्रेष्ठिभिश्चाऽत्र महानगरे प्रायः सर्वत्र क्षेत्रेषु निजधनं दानरूपेण प्रवाह्य महानगरमिदं सुन्दरं रमणीयं च विहितमासीत् ।
ईदृशोऽस्य महानगरस्य हृदयस्थानभूते माणेकचोक-इति स्थाने सङ्ख्याताः प्रतोलिकाः सन्ति । तास्वन्यतमाऽस्ति क्षेत्रपालप्रतोलिका । तस्यां प्रतोलिकायां श्रेष्ठिश्रीफत्तेचंद-नानचंद-कीनखाबवाला - इति विश्रुतं कुटुम्बमेकं परिवसति स्म । कुटुम्बमिदं नितान्तं जिनधर्मानुरागि श्रमणगणचरणसेवि चाऽऽसीत् । कुटुम्बमुख्यः श्रेष्ठी श्रीअमीचंदभाई-नामा परमश्रद्धावान् श्रावक आसीत्, तत्पत्नी च धर्मपरायणा गुणगणालङ्कृता चम्पाबेन - इति श्राविकाऽऽसीत् । तयोश्च द्वौ पुत्रौ - रतिलालः, हिंमतलालश्च । द्वावपि संस्कारवन्तौ विद्यावन्तौ विनयादिगुणवन्तौ च ।।
__ पूर्वमपि पुण्यशालिनोरनयोर्दम्पत्योः पुराकृतं किञ्चनोत्कृष्टं पुण्यमुदयकालप्राप्तमिव वैक्रमे १९५७तमे वर्षे पौषकृष्णप्रतिपदि शुभलक्षणोपेतः सर्वस्वजनमनआनन्दकारी पुत्रो जनिमलभत । तस्य जन्मसमयं तत्कालीनग्रहचारं योगांश्चाऽन्यान् संवीक्ष्य ज्योतिषिकैः कथितं यद् - 'बालकस्याऽस्य जन्मकुण्डलिकायामत्युत्तमो ग्रहयोगो वर्तते, तथा जन्मसमयोऽप्यस्य श्रेष्ठोऽतो बालोऽयं कुलदीपकस्तु भविष्यत्येव जगदुपकारकोऽपि भविष्यति' । तस्य च बालस्य परमकान्तिमत्त्वात् कान्तिलाल इति नाम कृतम् ।
ज्येष्ठभ्रातृभ्यामन्येन च स्वजनवर्गेण लाल्यमानस्य पितृभ्यां च पाल्यमानस्य कान्तिलालस्य शैशवमतिक्रान्तं, व्यावहारिकशिक्षणार्थं च स मनसुखभाई-प्रतोलिकायां विद्यमानायां जैनशालायां प्रवेशितः । यद्यपि स तत्राऽक्षरज्ञानमन्यच्च पठन-लेखनादिकं शिक्षितवान्, तथाऽपि तच्छिक्षणमधिकं प्राप्तुं तस्योत्साह नाऽऽसीत् । अतः शालागमने स मन्दादरोऽभवत् ।
३२
Page #44
--------------------------------------------------------------------------
________________
इतश्च, गृहे पर्याप्तं धार्मिकवातावरणमासीत्, माता-पित्रोः संस्कारा अपि धर्ममया आसन्, विशेषेण च वयोवृद्धाः परमतपस्विनश्चाऽऽचार्यवर्याः श्रीविजयसिद्धिसूरीश्वराः (बापजी महाराज - इति ख्याताः) कान्तिलालस्य संसारसम्बन्धेन पितृव्या आसन्, उत्कृष्टतपोरता साध्वीश्रीशान्तिश्रीश्च तस्य पितृष्वसाऽऽसीत् । कान्तिलालश्च 'भट्ठीनी बारी'नामस्थले विद्यमाने वीरविजयोपाश्रये स्थितस्य वयःपर्यायोभयवृद्धस्य श्रीप्रतापविजयाख्यस्य ज्येष्ठसाधोः समीपं प्रत्यहं गत्वा तदाशिषो गृह्णाति स्म । एवं च तारुण्ये परितः संयमवतां साधूनां संसर्गात् तन्मनो वैराग्यवासितं सञ्जातम् । पूर्वजन्मस्वाराधितस्य विरक्तभावस्य संस्कारा उद्बुद्धाः । षोडशे वयसि च तस्य सकलः संसारस्त्याज्यतया प्रतिभाति स्म ।
एतावता चाऽहमदाबादनगरस्य केन्द्रस्थिताया रत्नप्रतोलिकायाः (रतनपोल) समीपे पञ्जरप्रतोलिकायां (पांजरापोल) शासनसम्राजः पूज्याचार्यभगवन्नः श्रीविजयनेमिसूरीश्वराः सशिष्यपरिवाराः समागताः । विक्रमाद् विंशतितमे शतके सुविहितयोगोद्वहनाः सकलविधिविधायकाः सूरिमन्त्रसमाराधकाश्च सर्वप्रथमा आचार्या एते ज्ञानिनः प्रभावका आराधकाश्चाऽऽसन् । अपि च, यौवनं वयः, विशालः शिष्यपरिवारः, निष्कल्मषं शीलतेजः, अखण्डः स्वाध्यायः, निःशब्दं तपः, हृदयं धर्मरसेनाऽभिषिञ्चती प्रवचनधारा, सरलं धर्मव्यवहारं शिक्षयन्ती प्रवचनशैली, विद्वत्तासत्त्वेऽपि निर्भारो व्यवहारः, एतैरेतादृशैश्चाऽन्यैर्बहुभिर्विशेषैः सह जीर्णतीर्थानामुद्धारः, ज्ञानकोशानां स्थापनं, योग्यजीवेभ्यो दीक्षादानं, शिष्याणां च ज्ञान-क्रियाव्यवहाराद्यैर्यथावच्छिक्षणं, यात्रासङ्घप्रेरणं, ग्रन्थसर्जनं, प्राचीनसाहित्यप्रकाशनं, ज्ञात्यादिकलहानां समाधानमित्याद्यैर्वैशिष्ट्यैस्तेषां यशः सर्वत्र प्रसारं प्राप्तमासीत् । अहमदाबादनगरस्य जनताऽपि तेषां गुणपरिमलेन प्रमुदिता तद्गुणरसपानेनोल्लसिता चाऽऽसीत् । एष प्रमोद उल्लासश्च कान्तिलालमप्याकृष्टवन्तौ । सोऽपि च गुरुभगवतां वन्दनार्थं सान्निध्यप्राप्त्यर्थं, तदाशी:प्रापणार्थं च तत्र गन्तुं प्रवृत्तः । वैराग्यसंस्कारैः प्लावितान्तःकरणस्य तस्य स्थैर्यप्राप्त्यै समुचितं स्थानमेकं प्राप्तमिव ।
पञ्जरप्रतोलिकायां कान्तिलालस्य गमनागमनं वृद्धिङ्गतम् । तत्रस्थैः साधुभिः सह तस्य सम्पर्कः परिचयश्चाऽपि वृद्धि प्रापत् । अन्यान्यैः साधुभिः परिचयं कुर्वन् स एकदा पंन्यासप्रवराणां श्रीविज्ञानविजयगणिवराणां सम्पर्कमवाप्नोत् । सर्वथा निर्मलं निर्देशं निर्दम्भं सौम्यं च व्यक्तित्वमासीत् तेषाम् । कान्तिलालश्चाऽपि निर्मलः सरलः शान्तश्चाऽऽसीत् । अतः प्रथमपरिचयादेव द्वयोरपि परस्परं स्नेहः प्रादुर्भूतः ।
ततश्च, कान्तिलालः प्रत्यहं तान् वन्दितुं, तैः सह धर्मचर्यां कर्तुं, वैराग्यरसामा॑न् संलापान् श्रोतुं, धार्मिकी शिक्षा ग्रहीतुं च समायाति स्म । एवं कुर्वता परिचयो गाढोऽभवत्, मनसि वैराग्यरङ्गो दृढोऽभवत्, संसारत्यागार्थं च निश्चला मतिरभवत् । सहैव, मनसैव तैन श्रीविज्ञानविजयगणिवरा गुरुपदे स्थापितास्तेभ्यो विज्ञप्तिरपि च कृता – 'शिष्यस्तेऽहं, शाधि मां त्वां प्रपन्नम्' - इति ।
इतश्च, समग्रां पृथिवीं जलार्दी कृत्वा ततो निर्मला जाताः शारदा वारिदा यथाऽञ्जसैव विलीयन्ते, तथैव शुभैर्योगैः क्रियानुष्ठानैः, ज्ञानवर्धकप्रवचनैश्च धर्मामृतं वर्षयित्वा चातुर्मास्यं च समाप्य सपरिवाराः
३३
Page #45
--------------------------------------------------------------------------
________________
शासनसम्राजो भगवन्तो मेदपाटक(मेवाड)भूमिं प्रति विहर्तुं समुद्यता अभवन् । क्रमेण च विहृतास्ते । कान्तिलालोऽपि यथानुकूल्यं गुरुभगवतां विहारे यातायातं करोति स्म । तन्मनः सर्वत्यागं कर्तुं, श्रमणवेषं धर्तुं, गुरुचरणे चाऽऽजन्मोपासितुं नितरामुत्कण्ठितं वर्तते, किन्तु पित्रोः सकाशात् तदर्थमनुमतिर्लोहमयचणकचर्वणमिव दुर्लभाऽऽसीत् । वस्तुतस्तु 'दीक्षां ग्रहीतुमिच्छाम्यह'मिति पित्रोनिवेदनं कर्तुमपि सर्वथा दुःशकमासीत् । किन्तु दीक्षार्थं हृदयगतोत्कण्ठाऽपि तथा विवृद्धि प्राप्ता यथा तां धारयितुं स न शक्नोति स्म । अत एकदा स गृहे कमप्यनुक्त्वा पलायितः, मेदपाटकप्रदेशे च यत्र गुरुभगवन्तो विराजमाना आसन् तत्र प्राप्तः । सानुनयं सानुरोधं च गुरुभगवद्भयो विज्ञप्तिं कृत्वा, दीक्षादानार्थं चाऽनुकूलान् कृत्वा, वैक्रमे १९७६तमे संवति फाल्गुनकृष्णतृतीयादिने नावलीस्टेशनसमीपे गोधूमग्रामे तेन दीक्षा गृहीता । पन्यासश्रीविज्ञानविजयगणिनां शिष्यतया प्रथितस्य तस्य नाम - मुनिकस्तूरविजयः इति स्थापितम् ।।
दीक्षादिनादेवाऽऽरभ्य तेन गुरुचरणयोरात्मा तथा समर्पितो यथा स स्वीयामिच्छामनिच्छां वा, रुचिमरुचिं वा, अनुकूलतां प्रतिकूलतां वा सर्वथा न गणयति स्म । गुरुभगवतामिच्छां रुचिमानुकूल्यं चैव भगवदाज्ञामिव शिरस्यवधार्य तदनुरूपमेव प्रवर्तते स्म । तथैव दीक्षाग्रहणानन्तरमाजीवनं तेन गुरोः सन्निधावेवोषितं तत्सेवा च कृता । दिनमेकमपि स गुरूभगवद्भयो वियुक्तो न जातः ।
अपि च, पूज्याः श्रीविज्ञानविजयगणिवरा समस्तश्रुतविदो बुद्ध्या च चाणक्यनिभा आसन् । विषमपरिस्थितौ हि पूज्याः शासनसम्राजो भगवन्तस्तैः सहैव परामर्श कुर्वन्ति स्म । किन्तु, एते खलु सर्वथा निःस्पृहाः सन्तोषिणश्चाऽऽसन् । शिष्यान् कर्तुमपि तेषां स्पृहा नाऽऽसीत् । कस्तूरविजयस्य दीक्षाया अनन्तरं तैनिश्चितं यदितः परं न कोऽपि शिष्यतया स्वीकर्तव्यो मया । कस्तूरविजय एव मम कृते पर्याप्तः । तमेव श्रुत-विद्यासम्पन्नं कर्तुं परिश्रमः कर्तव्यो मया । तमेव शासनमान्यं, विद्वज्जनमूर्धन्यं, श्रुतपारगामिणं, लोकविश्रुतं च कर्तुं सर्वायासेन यतितव्यम्' । अतस्तैः कस्तूरविजयमध्यापयितुं सर्वविधाः प्रयत्नाः प्रारब्धाः।
इतश्च कस्तूरविजयस्य ज्ञानग्रहणक्षमता सीमिताऽऽसीत् । रुचिस्तु ततोऽप्यल्पीयस्यासीत् । तथाऽपि गुरुभगवतां हादिकी भावनामवबुध्य, स्वीयां सर्वामपि रुचिमरुचिं चाऽवगणय्य गुरुचरणयोरुपविश्य निरन्तरं तन्मार्गदर्शनानुसारं शास्त्राध्ययनार्थं यत्नान् कर्तुमारब्धः ।
गुरवोऽपि च तमध्यापयितुं सर्वानपि बाह्यव्यवहारान् त्यक्त्वा, प्रलोभनानि विमुच्य, जनसम्पर्काच्च दूरीभूय राजस्थानप्रदेशस्य विविधग्रामेषु विहृतवन्तस्तत्र च विजनेषु स्थानेषु स्थित्वा कस्तूरविजयं स्वयमध्यापितवन्तः, पण्डितानां यतिवर्याणां च सकाशात् शिक्षा ग्राहितवन्तः ।
___ एवं च कृते कस्तूरविजयस्य ज्ञानग्रहणक्षमता निष्ठा च तथा वृद्धिङ्गता यथा स सततं ज्ञानयोगनिरतः स्वाध्यायपरायणश्च सन् गच्छता कालेन परम आगमज्ञो गीतार्थश्च सञ्जातः । सततं ज्ञानार्जनपरिश्रमः, लोकसम्पर्कनिवृत्तिः, पूर्णज्ञाननिष्ठा, गभीरं वैराग्यं, निःस्पृहता, निष्कामा गुरुसेवा, गुरुसमर्पणभावश्चेत्यादिभिगुणैः परिपूर्णः स श्रुतपारगामी विद्वज्जनप्रच्छनीयश्च सञ्जातः ।
३४
Page #46
--------------------------------------------------------------------------
________________
किञ्च, मुनेः कस्तूरविजयस्य दीक्षाया सप्ताष्टवर्षानन्तरमेव गुरुकृपायाः फलत्वेन यथाकालं विविधा मुमुक्षवः समागत्य तत्पावें दीक्षां गृहीत्वा तच्छिष्याः समभवन् । तत्र प्रथम आसीत् मुनियशोभद्रविजयः । तदनु मुनिकुमुद्रचन्द्रविजयः, मुनिचन्द्रोदयविजयः, मुनिकीर्तिचन्द्रविजयः, अन्येऽपि च नव मुनयस्तस्य शिष्यत्वं प्राप्ताः । तथा शिष्याणां प्रशिष्याणां चाऽपि परिवारो बह्ववर्धत, येषु मुनिशुभङ्करविजयः, मुनिसूर्योदयविजयः, मुनिजयचन्द्रविजयः, मुनिप्रबोधचन्द्रविजयः, मुनिअजितचन्द्रविजयः, मुनिशीलचन्द्रविजयः, मुनिसोमचन्द्रविजयः - इत्येते मुख्यास्तथा तेषामपि परिवारे बहवो मुनिवराः सञ्जाताः । (अत्र ये उल्लिखिता मुनयस्ते सर्वेऽपि मुनेः कस्तूरविजयस्य सकाशादेव ज्ञानार्जनं कृत्वा श्रुतविदो भूत्वा आचार्यपदसमलङ्कृता अभवन् । अयमपि चाऽऽलेखकस्तदीय एव परिवारे दीक्षितोऽस्ति ।)
एवमेव बहवः पण्डिताः श्रावका गृहस्थाश्चाऽपि तत्सकाशादधीत्य शास्त्रविदः सञ्जाताः ।
अथ च, व्याकरण-संस्कृतभाषा-साहित्य-तर्क-दर्शनादिषु पारङ्गता बहवः पण्डिता आसन् सन्ति च, सिद्धान्त-कर्मसाहित्यादिष्वपि प्रभूताः विद्वांसः समभवन् विद्यन्ते चाऽपि, किन्तु सनियुक्ति-चूर्णिभाष्या जैनागमाः प्रभूतानि प्रकरणसूत्राणि - इत्यादिकं भूयिष्ठं जैनसाहित्यं यया भाषया निबद्धमस्ति सा प्राकृतभाषाऽद्यत्वेऽत्यल्पतयाऽधीयते, विद्वज्जगति च सा भाषा भृशमुपेक्षास्पदं सञ्जाताऽस्ति । एतत्तथ्यं मनसिकृत्य मुनिकस्तूरविजयेनाऽन्यस्य सर्वविधस्य साहित्यस्याऽध्ययनेन सह प्राकृतभाषाशिक्षणार्थं तदात्मसात्करणार्थं च कठोरपरिश्रमः कृतः । एतस्य फलत्वेन समग्रेऽपि जैनसमाजे विद्वत्समवाये च तस्य प्रसिद्धिः प्राकृतवाग्-विशारदत्वेन सञ्जाताः । प्राकृतसाहित्यविषयाः सर्वा अपि समस्या मुनिकस्तूरविजय एव समाधास्यतीति सर्वत्र प्रसिद्धिर्जाता । राष्ट्रीयाणामन्ताराष्ट्रीयाणां च नैकेषां विदुषां पृच्छास्पदं सोऽभवत् । तेन विरचिताः प्राकृतरूपमाला-प्राकृतविज्ञानपाठशाला-पाइयविन्नाणकहा-प्रमुखा ग्रन्थास्तु विश्वविद्यालयानां पाठ्यक्रमेष्वन्तर्भूताः सन्तोऽद्यत्वेऽपि विद्यार्थिनां प्राकृतभाषासाहित्यजगति प्रवेशद्वारायन्ते।
एवमेवाऽन्येऽपि बहवो ग्रन्थास्तेन विरचिताः सम्पादिताः संशोधिताश्च प्राधान्येन प्राकृतभाषासाहित्यविषयास्तथाऽन्येऽपि संस्कृतादिसाहित्यविषयाः, ये विद्यार्थिनां विद्वज्जनानां च कृते समानतयोपकारकाः सञ्जाताः । एतदर्थं च तान् तादात्विकविद्वज्जनानामिवाऽद्यत्वेऽपि भूयांसो स्वदेशीया वैदेशिकाश्च विद्वांसः प्रशंसन्ति ।
एतादृशस्य मुनेः कस्तूरविजयस्य गुणवत्तां, ज्ञानभाजनतां, शिष्यादिपरिवारसम्पत्ति, लोकविश्रुततां चेत्यादिकां सर्वामपि बाह्याभ्यन्तरसमृद्धिमवलोक्य प्रसन्नैः पूज्यैः परमगुरुभिः शासनसम्राभिर्वैक्रमे २००१तमे वर्षे फाल्गुनकृष्णचतुर्थीदिने स आचार्यपदप्रदानेन समलङ्कृतः । इतः परमेते आचार्याः श्रीविजयकस्तूरसूरयः इत्यभिधाः समभवन् ।
आचार्यपदोपलब्ध्यनन्तरमपि तेषां निःस्पृहताऽनासक्तिः सारल्यं, निरभिमानता, गुरुसमर्पणं, ज्ञानार्जनप्रवृत्तिः, स्वाध्यायः - इत्यादयो गुणास्तु तथैवाऽवस्थिता इति तु न सत्यमपि तु वैशद्यं विस्तारं
३५
Page #47
--------------------------------------------------------------------------
________________
प्रस्तारं चाऽपि प्राप्य नितरां वृद्धिङ्गताः । लोकसम्पर्कस्तु तेभ्य आजीवनं नैव रोचते स्म । सदैव स्वकार्ये एव मग्नास्ते जनाराधनतो दूरमेवाऽवतिष्ठन्ति स्म । तेषां द्वे एव कार्ये प्रियतरे आस्ताम् - अध्यापन स्वाध्यायश्च । एतद्द्वयार्थं हि ते सर्वदाऽपि सिद्धा एवाऽवर्तन्त । एतदतिरिच्याऽन्यस्मिन् कार्ये ते आनुकूल्य-प्रातिकूल्यादिभावान् विचारयन्ति स्म, किन्तु एतद्द्वये तु तैर्न कदापि किमपि विचारितम् ।
किञ्च, तैनिजजीवने केवलं शास्त्रीयमध्ययनाध्यापनादिकमेव कृतं, प्राचीनसाहित्यावगाहनमेव वा कृतम् - इति न, परमाधुनिकसाहित्यावगाहनमपि तथैव रुच्या, उत्साहेन, गभीरतया च कृतम् । प्रायशस्ते सर्वविधैरपि समकालीनाधुनिकप्रवाहैः परिचिता आसन्, तथा प्राचीनार्वाचीनोभयविधेऽपि साहित्ये साधिकारं परामर्श कर्तुं समर्थास्ते आसन् ।
एवंविधास्ते महात्मान आजीवनं गुरुसेवां कृत्वा, गुरौ च स्वर्गते सति, निजानन्दनिमग्नाः प्रायशः सर्वविधलोकव्यवहारादिभ्यो विमुक्ताः, अथाऽपि स्वाध्यायाध्यापनादिषु निरताः, यथायथमुपस्थिताननिवार्यान् लोकव्यवहारान् परिपाल्य, प्रासङ्गिककार्याणि च पूर्णीकृत्य, वयोवृद्ध्या सह स्वास्थ्यहानिं चाऽप्यनुभवन्तो वैक्रमे २०३२तमे वर्षे वैशाखकृष्णचतुर्दशीदिने हृदयाघातं प्राप्य सपरमात्मनामस्मरणं ससमाधिभावं सोज्जागरदशं च स्वर्वासं प्राप्ताः । (अद्यत्वे) आणंदजिलास्थे सोजित्राग्रामे तेषां स्वर्गमनं सञ्जातम् ।
पञ्चभूतमयो देहस्तु तेषां पुनः पञ्चत्वं प्राप्य विलीनो जातः, किन्तु तेषामक्षरमयो देहः शिष्यपरम्परास्वरूपो देहश्चाऽद्याऽपि जीवतितरां, सुचिरं च जीविष्यति, जगज्जनानां च तद्गुणसम्पत्तेः स्मारणं वितरणं च करिष्यति -
इति शम् । विरमामि तावत् ।
३६
Page #48
--------------------------------------------------------------------------
________________
गुरवो सिरिकत्यूरसूरिणो
आ. हेमपूर्णाश्रीः अहमदावादमहानयरे माणेकचउक्कपएसे खेतरपालपोलमज्झे कुटुंबमेगं परिवसइ-फत्तेचंद-नानचंदकीनखाबवाला-इइ । तंमि कुटुंबे अमीचंदसेट्ठी, चम्पासेट्ठिणी - इइ दंपइणो गिहे रइलाल-हिंमतलाल - इइ भाउणोऽणंतरं कांतिलालणामगपुत्तस्स जम्मो जाओ।
सो य पढमजोव्वणत्थो चेव आयरियसिरिविजयणेमिसूरीसर-पट्टाभरणआयरियसिरिविजयविन्नाणसूरीसरसमीवे दिक्खं गहीअ । तस्स य णामं सिरिकत्थूरविजयो त्ति ठावियं ।।
माया-पिउणो आसीसेहिं, गुरूणं च सिरिविन्नाणसूरीणं पसाएणं कत्थूरविजओ समग्गसत्थविऊ पाइयाभासाविसारओ य जाओ । जह पारसमणिस्स फासेण चेव लोहं सुवण्णीहोइ तहेव गुरुकिवाए अप्पमइ-विन्नाणो सिस्सो नाणी सुअपारगामी य हवइ ।
सिरिकत्थूरविजयस्साऽवि एमेव गुरुकिवाए विसुद्धवेरग्गभावणाए य संजमजीवियंमि गुरुभत्तिसुयभत्ति-चरित्तभत्ति त्ति तिण्हं रयणाणं संगमो हवीअ । तेसिं जीवणं तहा पवित्तं निम्मलं च आसि जहा तेसिं समीवं समागयाणं जीवाणं दुहाई उवसमिंसु, हिययं च संतीए सुहेण पसन्नयाए य भरिअं हवेज्ज । तेसिं पसन्नया भावणाए य उच्चत्तणं पाइय-सक्कयभासाहिं पासाइयरीईए रइएसु गंथेसु पइबिंबियाई होज्ज ।
नियजोग्गयाए गुणपत्तत्ताए गुरुकिवाए य पुण्णाणं तेसिं, परमगुरूणं सिरिविजयणेमिसूरीसराणं आसीसाए आयरियपयप्पयाणं जायं । तेहिं च निययनिम्मलचरित्तप्पहावेण जिणसासणस्स पंचसट्ठिसमहियाणं सिस्साणं पसिस्साण य पणामणं कयं । एसा खु तेसिं चरित्तभत्ती ।
___ अह अण्णया पहायसमए सूरिमंतं जवंताण तेसिं झाणं झायंताणं पच्चक्खं समोसरणट्ठियस्स भावजिणेसरस्स दरिसणं संजायं । तओ तेसिं तारिसं चेव जिणालयं निम्मविउं भावणा पाउब्भूया । ताहे तेसिं सीसेणं आयरियसिरिचंदोदयसूरिणा एवं भावणं नाउं तं तारिसं झाणकाले दिटुं समोसरणागारं जिणचेइअं सिरिसत्तुंजयगिरिरायमूले निम्माविअं ।
३७
Page #49
--------------------------------------------------------------------------
________________
तहेव, सिरिसत्तुंजयतित्थे पंचसयाहिअजिणबिंबाण देवकुलियाहिं निम्मविअस्स अहिणवजिणचेइअस्स पइट्ठा वि तेसिं चेव निस्साए संजाया । एसा खु तेर्सि दरिसणभत्ती ।
पाइअभासाविसारएहिं तेहिं अन्नेसिं पाइयभासासिक्खवणत्थं पढमं पाययरूवमाला विरइया । तओ पाइयविन्नाणपाढमाला पाइयवागरणानुसारेणं निम्मिआ, जा सव्वेसिं पाययभासाज्झयणकारगाणं सिक्खगाणं च अज्ज वि उवगारं करेइ । तओ पाइयभासाए चेव तेहिं पाइयविन्नाणकहा, सिरिथंभणपासणाहमाहप्पं, सिरिरिसहदेवचरियं, सिरिचंदरायचरियं इच्चाइणो गंथा विरइया । पाइयविन्नाणगाहा, करुणस्सकदंबगो य त्ति संकलणगंथा निम्मिया । सक्कयभासाए श्रीचन्द्रराजचरित्रं तहा कलिकालसव्वण्णुसिरिहेमचंदसूरीहिं विरइयस्स अभिहाणचिंतामणि-णामसद्दकोसस्स सविवेयणं संपायणं कयं । एवमन्ने वि बहुणो गंथा विरइया संकलिया संपाइया य । एसा खु तेर्सि सुयभत्ती ।
___ एवं च एए आयरियपाया सव्वं पि नियजीवणं दरिसण-सुय-चरित्त-भत्तीए वोलित्ता सव्वहा णिम्मलमाणसा पवित्तचित्तवित्तिणो य अरिहंतपयसुमरणं करेंता सोजित्तागामे समाहिपुव्वयं सग्गगामिणो जाया । अज्ज वि तेसिं समाहिभूमीए आराहणेणं जणाणं णाणग्गहणसत्ती वुढेि पावेइ ।
३८
Page #50
--------------------------------------------------------------------------
________________
गुरवो सिरिकत्यूरसूरिणो आचार्यवर्यैः श्रीविजयकस्तूरसूरीश्वरैः संस्कृतभाषया, प्राकृतभाषया, गूर्जरभाषया च बहवो ग्रन्था रचिताः, नैकानि च सम्पादनानि संशोधनानि च कृतानि । ताभ्य: केषाञ्चित् ग्रन्थानां परिचयलेशोऽत्र प्रस्तुतः । सहैव तदास्वादनार्थं केचनांऽशाः अत्र प्रकाशिताः सन्ति ।
३९
Page #51
--------------------------------------------------------------------------
________________
सिरिवीरजिणथुई, परमगुरूणं थुई - इति द्वे अपि कृती आचार्यवर्यश्रीविजयकस्तूरसूरीश्वराणां कवित्वशक्ति परिचाययितुं प्रमाणयितुं च पर्याप्ते । प्राकृतभाषया रचितयोर्द्वयोरपि स्तुत्योः कवित्वप्रौढिः कल्पनामाधुर्यं च हृदयङ्गमे ।
४०
Page #52
--------------------------------------------------------------------------
________________
सिरिवीरजिणथुई अणंतुवगारगो वीरजिणीसरो (रइयारो-आयरियसिरिविजयकत्थूरसूरिणो)
सुकयट्ठो वि जगप्पहु !, जम्हा जं विहरसे महीमज्झे । तं अनुवयारटुं, अरिहंताण हि पउत्तीओ ॥१॥ तत्ताणं कसाएहिं, वाणी गोसीसचंदणसरिच्छा । रेहइ जिणिंद ! तुम्हं, जगजंतुगणाण अभयदया ॥२॥ आसव्वसंवरं जं, चित्तं तुम्हेच्चयं जगहियगरं । देवाणुत्तर-संजमि-संसयविच्छेयणसमत्थं ॥३॥ केवलनाणस्स कहं, महिमा तव मिज्जए जिणिंदवर ! संकंतो जहि लोगो, आयंसे पडिकिइ विवेह ॥४॥ भीमे महासमुद्दे, मज्जंताणमिह भवियजंतूणं ।। निच्छिद्दा सुहकट्ठा, नावायइ तुम्ह आणा हि ॥५॥ मोहनरिंदमहागय-कुंभविदारणखमा हि देवेस ! । तुव पायपउमसेवा, भयवं सीहव्व छज्जेइ ॥६॥ कामगवी-चिंतामणि-कप्पतरुअहिगपहावसंजुत्तो । तुं च्चिय नाहेमि अहं, मणाइरेगफलदायार ! ॥७॥ तहवि जगजीवसुहयर !, विहेहि विहियायरं पसण्णयरं । चरणसरोए लीणं, जिणेस ! मे माणसं रत्तं ॥८॥ इत्थं विन्नाणसूरिस्स, सीसकत्थूरसूरिणो । मम वीरजिणे भत्ती, होज्जा सिवसुहप्पया ॥॥
४१
Page #53
--------------------------------------------------------------------------
________________
परमगुरूणं थुई आयरियसिरिविजयनेमिसूरिणो पहावपुण्णा गुणा
(रइयारो-आयरियसिरिविजयकत्थूरसूरिणो)
अरिहंतं णमिऊणं, सयलपच्चूहबूहसमणपरं । थोसामि गुरुगुरुमहं, खायं नेमित्ति नामेणं ॥१॥ गुणरयणनियरभरिओ, गुरुवारिनिही तरिज्जड़ कहमिमो । तह वि य भत्तितरीए, गंतुं पारं पगुणओ म्हि ॥२॥ पगुरुसिरिनेमिसूरी, तित्यसमुद्धरणसीलसाली जो । तवगच्छगयणतवणो, पुण्णपहावेण संजुत्तो ॥३॥ जस्स किवादिट्ठीए नमिरा भत्ता हवंति वरमइणो । सूरीसरस्स तस्स हि, गायमि सद्भूयगुणविसरं ॥४॥ आयरियअट्ठसंपय-दुल्लहगुणगणविहूसिओ सूरी। पवयणसारपवण-परी सया जयउ पावयणी ॥५॥ धम्मकहं जस्स सुहं, पायं पायं विमुत्तभवगरला । भव्वा विबुहा जाया, धम्मकही सच्चमेवायं ॥६॥ गुहिरो जस्स य घोसो, चमक्करइ जुत्तिविज्जुआजाओ । परिसाइ वरिसइ सइ, वाइघणोऽयं बुहसिहिसुहो ॥७॥ दिण्णं जेण मुहुत्तं, बिंबपइट्ठाइज्जकमउलं । वितहं कत्थ वि नाऽभू, रेहइ सोऽयं निमित्तण्णू ॥८॥
४२
Page #54
--------------------------------------------------------------------------
________________
बज्झ-भंतरतवसा, सुबंभतेएण तह य तेयंसी । पुहवीविक्वायजसो, परमोयंसी य तेणेसो ॥॥ अप्पसहावियसंजम-बलेण मंताइवेइणो वि परे । जेण विमूढा विहिया, मंतविउच्च स तओ तेण ॥१०॥ पगरिसवयणपहावा, सद्धाविहूसियभत्तवग्गाणं । सिझंति सुकज्जाइं, तेणायं वयणसिद्धिवरो ॥११॥ वागरण-नायगंथाइ-विद्दाणेण पहावियं जेण । सासणमिमं हि तेणं, कविव्व स पहावगो णेओ ॥१२॥ सिद्धायल-रेवयगिरि-वराइतित्थेसु संघजत्ताओ । पूयापहावणाहिं, विहाविया सूरिणा बहुसो ॥१३॥ सद्धसुहचिंतणपरो, मणुय-तिरिय-दुक्खदुरियहरणे य । कारुण्णपुण्णहियओ, करुणारसमुत्तिओ तेण ॥१४॥ सूरीसरचक्कीणं, एयारिसगुणसमिद्धिजुत्ताणं । कोडी वंदणसेणी, होज्जा कत्थूरसूरिस्स ॥१५॥ जम्मसयद्दीदिवहे, नवनयण-गयण-नयणमिए (२०२९) वरिसे । सिरिनेमिसूरिगुरुणो, गुणगणगानं हियं विहियं ॥१६॥ विनाणसूरिसीसेण, सिरिकत्थूरसूरिणा। रइया गुरुभत्तीए, चिरं जए इमा थुई ॥१७॥
Page #55
--------------------------------------------------------------------------
________________
min" "Elai-या नागौर ममममारmaanaa Ramera
(तीय निशान नामी गंगा
शायनसभारपणाचावलीविजयमभूराश्वरपट्टधर गयाणश्रीविषयविज्ञानमीभापमानाकामाद
प्रजाचाय श्रीविजयकस्तरमरीनररिपालग
चन्द्रचरित्रम् ७. (चन्द्रराजचरित्रम्)
दियानीवाट -mumगार परम पूज्य आचार्य श्री विजय चन्द्रोदयसूरीश्वरजी महाराज साहेब
मिमियममा पाथ पूज्य आचार्य iiari नि अशोकचन्द्रसूरीश्वरजी महाराज साहेब
सन्न मार्गदर्शन नया आशीर्वाद
परम पूज्य आचार्य श्री विजय माधचन्द्रमरीश्वरजी महाराज साहब
संपादक: प.पू.आचार्य श्री GAD | विजयश्रीचन्दमूरिजी म.सा Parts
प्रकाशकीरगम Har पाटोमा मेष - 4aat
श्री जिविता कस्तानि हामंदिर परमश सभाचोक सात-१९५०
चदचरित्रम्
मध्यकालीनगर्जरभाषाकविना पण्डितश्रीमोहनविजयेन गूर्जरभाषया 'चंदराजानो रास' इति नाम्ना चन्द्रराजस्य चरितमालिखितमस्ति । तदेवाऽवलम्ब्य प्रथमं संस्कृतभाषया पद्यनिबद्धं चन्द्रचरित्रम् - इति तथा तदनन्तरं प्राकृतभाषया गद्य-पद्योभयनिबद्धं सिरिचंदरायचरियं इति च पूज्याचार्यवर्यश्रीविजयकस्तूरसृििभविरचितम् ।
तत्र संस्कृतभाषानिबद्धे चरिते सप्त सर्गाः सन्ति । विविधच्छन्दःसु विरचितेष्वेतेषु सर्गेषु आहत्य १९२९ मिता: श्लोकाः सन्ति प्रशस्तेश्च १३ श्लोकाः - इति १९४२ मिताः श्लोकाः सन्ति ।
महाकाव्योपमेऽत्र चरिते आचार्यवर्याणां काव्यरचनक्षमता स्पष्टतया दृग्गोचरीभवति ।
४४
Page #56
--------------------------------------------------------------------------
________________
शासनसम्राटपूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधरपूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारदपूज्याचार्यश्रीविजयकस्तूरसूरिप्रणीतं
चन्द्रचरित्रम्
(चन्द्रराजचरित्रम्) प्रथमः सर्गः
मङ्गलश्लोकाः यत्कृपालवमासाद्य, प्रजाः प्रापुः सुपद्धतिम् । तमाद्यं तीर्थपं वन्दे, सिद्धिधामगतं प्रभुम् ॥१॥ फणिराजफणच्छत्रं, पवित्रितजगत्रयम् । श्रीपार्श्वेशं दयासिन्धुं, मनसा प्रणिदध्महे ॥२॥ त्रिशलानन्दनं नौमि, तं सुरासुरसेवितम् । यदीयवाक्सुधाचामाद्, भवाब्धिर्गोष्पदायते ॥३॥ गौतमाद्यान् गणधरान्, देशनामृतवर्षिणः ।। भव्यकै रवशीतांशून्, नौम्यन्धतमसच्छिदे ॥४॥ आबाल्यब्रह्मनिष्ठं तं, गुरूणां गुरुनायकम् । श्रीनेमिसूरिसम्राजं, वन्दे कारुण्यविग्रहम् ॥५॥ शान्त्याचान्तमृदुस्वान्तं, भव्यसेव्यपदाम्बुजम् । वन्दे विज्ञानसूरीशं, महान्तं सुधियं गुरुम् ॥६॥ कुन्देन्दुघनसाराभां, कलहंसासनां सुरीम् । मूकस्याऽपि वचस्वित्व-कारणं नौमि शारदाम् ॥७॥ क्चाऽहं मन्दमति'नं, कूपमण्डूकसन्निभः । क्चाऽसौ महाधीः श्रीचन्द्र-स्त्रिजगच्चन्दिसद्यशाः ॥८॥
Page #57
--------------------------------------------------------------------------
________________
तथाऽपि तस्य चरितं, वच्मि त्रैलोक्यपावनम् । श्रेयसे हि कृतो यत्नो, न्यूनोऽपि न विगीयते ॥७॥
जम्बूद्वीपस्य भरत-क्षेत्र पूर्वदिगाश्रया । 'आभेति नाम्नी नगरी, विद्यते पूधुरन्धरा ॥१०॥ आभेव सर्वजगतः, सर्वसंस्कारबन्धुरा । यामपेक्ष्य सुरेन्द्रस्य, नगरी न गरीयसी ॥११॥ नाडलं साऽप्यलका वापि, रत्नद्वीपोऽथवा कुतः ?। तस्याः समत्वं लभते ?, किमन्धुः सिन्धुवद् भुवि ? ॥१२॥ युक्तं लङ्काउब्धिमध्येडगाद्, यदीयसुषमा जिता । मृतिर्वा दूरसंप्राप्ति-माने म्लाने सतां गतिः ॥१३॥ तत्र भूमौ सुदुर्गाभा, उच्चैः सौधा बभासिरे ।
औन्नत्येन सुमेरोयें, लघिमानं वितन्वते ॥१४॥ रत्नभान्वितहाणि, शिखरश्रेणिकैतवात् । अझं हसन्त्युद्दन्तानि, दिवमालोक्य तत्र किम् ? ॥१५॥ विपण्य आपणायन्ते, यस्मिन्नापणसन्ततिः । रत्नाकरायते वीथी, रोहणागति' सर्वतः ॥१६॥ व्यापारिणो नृपायन्ते, नूपोऽपीन्द्रति सम्पदा । कुबेरन्ति महेभ्याश्च, यस्मिन् पुरवरेऽनिशम् ॥१७॥ रथ्यासु राजमार्गेषु, चन्दनाक्तजलाप्लुतिः । पारिजाततरोरेषा, सुषमामप्यचूचुरत् ॥१८॥ तत्र श्रीवीरसेनाह्वो, राजा राज्यमपालयत् । यस्य प्रभावादरयो, मुनिवेषमदीधरन् ॥१९॥ प्रसादे चन्द्रति श्रीमान्, प्रतापे मिहिरायते । दाने कर्णायते दण्डे, पितृराजायतेऽप्यसौ ॥२०॥ तस्य वीरमतीनाम्नी, देवी सर्वाङ्गसुन्दरी । तद्रूपेण जिता नूनं, रतिर्दृश्या न भूतले ॥२१॥
१. 'रोहणपर्वतायते' ।
Page #58
--------------------------------------------------------------------------
________________
तडिद्वा किमु ? तारा वा ?, ज्योत्स्ना वा सा हिमश्रुतेः ? । तामालोक्य जना एवं, विवदन्ते परस्परम् ॥२२॥ तया सह महीपालो, रात्रिन्दिवमनाकुलः । विषयोत्थं सुखं भेजे, पौलोम्येव पुरन्दरः ॥२३॥ तस्य तत्सुखमालोक्य, सुरेन्द्रोऽपि दिवानिशम् । प्रशशंस सुधर्मास्थः, पुरो नाकसदामसौ ॥२४॥ अथैकदाऽश्वव्यापारी, वाहानादाय तत्पुरे । अननिगमद् राज-सभायां सभ्यशेखरः ॥२५॥ विशालनयनानश्वान्, कुक्कुटस्कन्धकांस्तथा । मनःपवनयोर्वेग-जिष्णूनुच्चैःश्रवःसमान् ॥२६॥ येषां गतिं समालोक्य, संदिहानो जनोऽभवत् । सुपर्णः किं विना पक्षा-वेष यातीति भूतले ? ॥२७॥ विद्युत्कल्पा हि सहसा-ऽदृश्या वेल्लन्ति लाघवात् । खुराघातेन शकलान्, कुर्वाणाः पर्वतानपि ॥२८॥ तौरुष्का हांसलाः श्रीमत्काम्बोजा इव तेऽभवन् । अनेकजातिसञ्जातान्, दृष्ट्वा राजा तुतोष तान् ॥२९॥ तस्मै दत्त्वाऽधिकं मूल्यं, सर्वानश्वान् महीपतिः । आत्मसात्कृतवान् तज्ज्ञः, समये न हि सीदति ॥३०॥ तेषु वक्रगतिः कश्चि-दश्चः पमसुन्दरः । आसीत् तत्र नृपोऽर्थेऽभून्महारागोऽतिलुब्धवत् ॥३१॥ अथैकदा महीपाल-श्चतुरङ्गबलान्वितः । तमेवाश्वं समारुह्य, मृगयायै ययौ वनम् ॥३२॥ इतस्ततस्ते हरिणान्, शशकान् महिषान् किरीन् । पलायमानान् जगृहु-नारकीयानिवाऽन्तकाः ॥३३॥ तेषु चैकं मृगं वेगाद्, नश्यन्तमवलोकयन् । अश्वारूढोऽनुचक्राम, सत्वरं तज्जिघृक्षया ॥३४॥ बहुदूरगतोऽप्येनं, नाऽऽससाद नरेश्वरः । आयुःसत्त्वे न कस्यापि, कोऽपि किञ्चित् करोति हि ॥३५॥ (युग्मम्)
Page #59
--------------------------------------------------------------------------
________________
स वक्रगतिनाऽश्वेन, बहुदूरमनीयत । अजानस्तद्गतेश्चेष्टां, समुद्रोमिमिव प्रभुः ॥३६॥ दुर्दमेन हृदेवासा-वपि रुद्धखलीनकः । पवनातिगवेगेन, वाजिना दूरमापितः ॥३७॥ प्रयत्लेनाऽपि तद्वेगं, नृपो रोद्धमनीश्वरः । तृषार्तोऽचिन्तयद् युक्ति-मवताराय वाजिनः ॥३८॥ इतो वापीतटे कञ्चिद्, वटवृक्षं व्यलोकत । ततशाखाशतैश्छन्नं, नानापक्षिनिनादितम् ॥३९॥ तं वीक्ष्य नृपतिश्चित्ते, चिन्तयामास ‘यद्यहम् । अस्य शाखामधिश्रित्य, नीचैः स्यां तर्हि मे सुखम् ॥४०॥ इति निश्चित्य सपदि, शाखामालम्ब्य वाजिनः । उत्ततार महीपालः, सोऽप्यश्वो निभृतं स्थितः ॥४१॥ तं दृष्ट्वा निश्चलं राजा, पश्चात्तापमुपागतः । अहो ! अजानता व्यर्थं, मया दूरमुपस्थितम् ॥४२॥
तृतीयः सर्गः
(पृथ्वीवृत्तम्) स्फुरत्फणिफणावलीसुललितातपत्रः सदा,
मृगाङ्कमधुरच्छविर्वतनुर्महोमण्डितः । विमुक्तिवरसुन्दरीकरनिपीडनप्रोल्लस
लमज्जनसुरद्रुमो विजयतां स पार्श्वः प्रभुः ॥१॥
(उपजातिवृत्तम्) चन्द्रेण वाग्भिर्बहुबोधिताऽपि,
गुणावली नैव गता प्रतीतिम् । कूतोऽपराधो हि जनस्य चित्तं,
करोत्यनास्थाग्रसितं प्रसह्य ॥२॥
४८
Page #60
--------------------------------------------------------------------------
________________
कृताञ्जलिः साऽथ नृपं जगाद,
___ 'सत्यं मदुक्तं न पुनर्मूषोद्यम् । स्वप्नेक्षितस्वीयमृति: पुनर्ना,
जानाति किं तदृतमस्तनिद्रः ? ॥३॥ रात्रौ मया जागरितं, न तेऽभूद्,
विश्वास इत्यत्र न काउपि तेन । हानिः, प्रभुर्वेत्ति समस्तमेव,
जिनाधिपोऽसौ भुवनावलोकी ॥४॥ मृषा गिरन्तः पुरुषाः समस्तं,
जगद् विजानन्ति मृषामयं हि । यदीक्षणं पीतिमदोषदुष्टं
पीतं स गृह्णाति पदार्थसार्थम् ॥५॥ कौटिल्यदक्षाः पुरुषा भवन्ति,
नार्यो न कुत्राऽपि कलङ्कभीत्या । तथाऽप्यनास्था यदि ते मयि स्यात्,
कुर्यां समाधिं कमहं तदाऽत्र ॥६॥ एवं प्रियाया वचनं निशम्य,
प्रोवाच चन्द्रोऽपि 'वृथा किमर्थम् । मह्यं प्रिये ! क्रुध्यसि निष्फलं त्वं,
गायस्व संवादय मे न रोधः' ॥७॥ स्वप्ने कथं तेऽभवदिन्दुवक्त्रे !,
विश्वास एवं किल नर्मणोक्ते । अथाऽपि चेत् ते हृदयेऽस्त्यनास्था,
जानीहि सर्वं मम सम्यगुक्तम् ॥८॥ श्वश्रूसमेता कुरु सौख्यमग्ग्रं,
योगो मनोज्ञो युवयोरयं हि । त्वं जातुचिन्माऽप्यनुगृह्य कान्तं,
संदर्शयेस्तत्कुतुकं पुरस्तात् ॥७॥
Page #61
--------------------------------------------------------------------------
________________
समीक्षितं यन्निशि वीरमत्या,
सह त्वया तत्सकलं मयाऽपि । संलक्षितं कर्म न तेऽस्तु मन्यु
मन्मन्तुमेतं ललने ! क्षमस्व' ॥१०॥ श्रुत्वा वचस्तस्य गुणावलीत्थं,
प्रोवाच 'सर्वोऽयमसत्प्रलापः । तस्मान्मयि प्रेम विनश्वरं ते,
जानामि नाऽन्याव समस्ति वार्ता ॥११॥ निःस्नेहमेवं हसता त्वयाऽहं,
बेभिद्यमानान्तरिदं यथेष्टम् । जानामि यत् ते श्रवणेऽद्य कोऽपि,
प्राजञ्जबित्थं कथमन्यथोक्तिः ॥१२॥ बहिः प्रतोल्या अपि नागमं किं,
__ वृथैव मां दूषयसि प्रियाऽद्य ? । विषाक्तवाक्यं सुधया प्लवित्वा,
जने विमुग्धे मयि किं प्रयुझे ॥१३॥
(वंशस्थवृत्तम्) करेऽन्वयाऽऽबद्धविवाहकङ्कणं,
निभाल्य कान्तं भयविस्मयाकुला । विचिन्तयामास समस्तमेव सा,
चरित्रमेतद् विमलापुरोद्भवम् ॥१४॥ तथाऽपि न स्वीकृतमेतया बहुं,
. विधाय माया परिभोज्य वल्लभम् । उपागमद् वीरमती गुणावली,
जगाद सर्वं च पतीरितं वचः ॥१५॥ "मयि प्रकोपं कुरुते तवाऽऽत्मजो,
विबुध्य सर्वं विमलापुरोद्भवम् ।
Page #62
--------------------------------------------------------------------------
________________
उदन्तमेतस्य पुरोऽखिलं तव,
तृणायते कौशलमेतदम्बिके ! ॥१६॥ व्यधत्त पाणिग्रहणं तदैव स,
नृपाङ्गजाया विमलापुरं गतः । मया भवत्यै कथितं तदैव यत्,
___ त्वया न तत् सत्यतयोपलक्षितम् ॥१७॥ जगत्यनेका विदुषी महीयसी,
पुमांसमत्येतुमसौ प्रभुर्नहि । पतिं स्वकीयं तच्छलयन्त्यहं स्वयं,
छले निमग्ना दुरदृष्टतो हहा ! ॥१८॥ छलेऽतिनिष्णैरपि यः परैर्नृपः
प्रतारितो जातु न स स्त्रिया कथम् । प्रतारणीयो, न हि सङ्गतं मया,
व्यधायि तावत् तव सङ्गदोषतः ॥१९॥ त्वदीयवाक्यं न मया पुनस्तथा,
करिष्यते प्रेरितयाऽपि जातुचित् । कया स्वभर्तुर्विपरीतचेष्टितं,
विधीयते कोपनयाऽपि योषिता ॥२०॥ विराजतां ते सकला कला ततो,
न मेऽधुना किञ्चिदपि प्रयोजनम् । त्वयेतरा भर्तृमती जनन्यथो
न जातु कार्या कुतुकेक्षणोत्सुका ॥२१॥
अथ ग्रन्थकृत्प्रशस्तिः श्रीमहावीरशिष्योऽभूच्छ्रीसुधर्माभिधो गणी । यद्वाणीसुरधुन्यम्बु-धारा श्रुतिधरातले ॥१॥ मधुमज्जितमाध्वीक-माधुरी मन्दयन्त्यलम् । अविश्रान्तं नृणामन्तः, पुनात्यद्याऽपि भासुरा ॥२॥ युग्मम्
Page #63
--------------------------------------------------------------------------
________________
तदीयपट्टहट्टाली-क्रीतसंयमवैभवः पञ्चव्रती शान्ततन्द्रो, जगच्चन्द्रो बभूविवान् ॥३॥ तपोगच्छं महास्वच्छं, चन्द्रो जगदिवाकरोत् । तत एव स सर्वत्र, तपोगच्छोऽतिपप्रथे ॥४॥ तत्पट्टरत्नाकरतो, हीरः सूरिरुदीयिवान् । अकब्बरमनोध्वान्त-मन्तमत्यन्तमानयत् ॥५॥ सेन-देवौ पुष्पवन्तौ, तत्पट्टोदयशैलतः । तपोगच्छाम्बरेऽभाता-मुदितौ सूरिनायकौ ॥६॥ तत्पट्टमण्डनो वृद्धि-चन्द्रो विद्यानुरागवान् । पादचारेण धरणिं, पपाव भविमोदकृत् ॥७॥ तत्पट्टचक्रनेमिः श्री-नेमिः सूरिवरोऽभवत् । कदम्बप्रमुखानेक-तीर्थोद्धारपरायणः ॥८॥ ततस्तृतीयस्तत्पट्ट-धरः शान्ताकृतिः परः । समयज्ञोऽस्ति विज्ञान-सूरिशौण्डो गुणाकरः ॥९॥ तदीयापारकारुण्य-लेशं सम्प्राप्य तोषभाक् । तत्पट्टसरसीजात-भानुः कस्तूरसूरिराट् ॥१०॥ इदं पवित्रं श्रीचन्द्र-चरित्रं प्राणयच्छुभम् । तद् गुरूणां शयाम्भोज-द्वन्द्वे स च समार्पयत् ॥११॥ वस्वाकाशवियन्नेत्र-मिते(२००८) वैक्रमवत्सरे । नेम्यब्दे वह्निसंख्याते(३), पूर्णो ग्रन्थः शरद्विधौ ॥१२॥
(वसन्ततिलकावृत्तम्) जीयाद् यशोबलसमृद्धिसुशीलपद्म
___ भानुः शुभङ्करगुणोदयसिद्धिपूर्णः । विज्ञान एष मुनिवल्लभमुन्निधान
कस्तूरयद्विनयकैरवचन्द्र आर्यः ॥१३॥
Page #64
--------------------------------------------------------------------------
________________
PWLWARYAAVARVAYAug
॥ विजय कत्यूरसूरि-विरड्यं॥
सिरि चंदरायचरिया
सिरिचंदरायचरियं
प्राकृतभाषया निबद्ध गद्य-पद्यमयेऽस्मिन् चरित्रे चन्द्रराजस्य विस्तृता कथा चर्तुषूद्देशेष्वालिखिताऽस्ति पूज्याचार्यैः श्रीविजयकस्तूरसूरीश्वरैः ।
अत्राऽपि भाषालालित्यं, वर्णनक्रमः प्रासादिकी शैली-इत्याद्या काव्यगुणाः प्रतिवाक्यं दृष्टिपथमवतरन्ति हृदयं चाऽऽह्लादयन्ति ।
Page #65
--------------------------------------------------------------------------
________________
आयरियविजयकत्थूरसूरिविरइयं सिरिचंदरायचरियं
मंगलायरणं पढमो पुढवीनाहो, जो आसी तित्थनायगो पढमो । तं जिणयंदं वंदे, नाहिसुयं सूरसरिसाहं ॥१॥ निम्मलयर-कंति-सिहा-भूसियसिरयं उसहजिणंदस्स । जाओ पोम्मदहाओ, सिंधुनईए पवाहो कि? ॥२॥ सहिऊण छुहं लद्धं, केवलनाणं समप्पियं जेण । नियमाऊए लोए, सो जणणीवच्छलो जयउ ॥३॥ जास य वंसाहरणा, एसरियजुया सुभोगिणो भूवा । नाणं लहिऊणाऽऽयं-सघरे सिववरवहुं वरिआ ॥४॥ बल्ले इक्खुरसासी, पारणगे सो वि चेव संजाओ । महुरो इक्खुरसो सो, कुणेउ भदं सुभत्ताणं ॥५॥ बारसअंगधरो जो, सुत्तत्थाणं परूवगो निच्चं । जंगमनाणसमुदं, नमेमि तं पुंडरीगगणिं ॥६॥ भवियाण इट्ठदाइणि !, मणगयतमहरणि ! सारए ! तं च । सीलायारकहाए, वत्तुस्स ममाऽऽणणे वससु ॥७॥ गुणरयणनियरभरिओ, गुरुवारिनिही तरिज्जइ कहमिमो । जस्सुवयारोऽणंतो, तं गुरुपायं नमसामि ॥८॥ पगुरुसिरिनेमिसूरिं, तित्थसमुद्धरणतप्परं निच्चं । तवगच्छगयणतवणं, पहावसोहंतसूरिवरं ॥९॥ नमिऊण तह य सगुरुं, वच्छल्लनिहिं पसंतमुत्तिधरं । विन्नाणसूरिरायं, झाइय हं सपरबोहटुं ॥१०॥ सीलरयणरमणिज्जं, रएमि चंदनिवइस्स सच्चरियं । जं सवणुत्तंसं सइ, सिया निउणधम्मसुपवित्तं ॥११॥ एयकहारसपुरओ, विबुहाण सुहारसो मुहा होइ । तं कविवयणविलासं, सुणेह भविया कहारसिगा ॥१२॥ महुरो कहापबंधो, वयणविलासो कहागरो य बुहो । जइया सोया वियद्धो, तइया अप्पेइ महुरत्तं ॥१३॥
अह पढमो उद्देसो अत्थि वलयागारासंखिज्जदीवसमुद्दवेढिओ लक्खजोयणविच्छिण्णो जंबूरुक्खपरिमंडिओ जंबूदीवो नाम दीवो । तत्थ छक्खंडसोहियअट्टमीसोमसरिसपयासगं भरहखित्तं सयलखित्तसिरोमणिभावं भयइ। जओ तत्थ तित्थाहिरायसिरिसिद्धायलमहातित्थं पवित्तयमं सोहइ । जत्थ पत्तेयचउद्दससहस्ससरियापरिवारपरिवरिआओ गंगासिंधूओ दुण्णि वरनईओ संति । जंमि सड्ढपणवीसाऽऽरिअदेसा संति, सेसा य सव्वे अणारिअदेसा विण्णेयव्वा । भरहखित्तस्स मज्झखंडे रमणीययमपुव्वदेसो अत्थि, जहिं जिणीसरा केवलनाणं लहेइरे । तम्मि अणेगविसयसमागयाऽहिलवत्थुपरिपुण्णा अइविसाला आभापुरी नाम नयरी आसि । लंका अलगा य पुरी तीए नयरीए सोहं दट्ठणं लज्जंतीओ विव दूरं गयाओ। तीए नयरीए नियरूवनिज्जियदेविंदो दरियसत्तुनिद्दलणो वेरिवग्गजयणवीरो वीरसेणो नाम नरीसरो नीईए रज्जं पसासेइ । जओ -
५४
Page #66
--------------------------------------------------------------------------
________________
दुट्ठस्स दंडो दुअणस्स पूया, नएण कोसस्स य संपवुड्डी ।
अपक्खवाओ रिवुदेसरक्खा, पंचेव जागा कहिया निवाणं ॥ तस्स सयलंतेउरपहाणा विसालकुलसमुप्पण्णा विसालनयणा नियरूवसोहुवहसियतियसंगणा वीरमई नाम पहाणदेवी अस्थि । तीए सह विसयसोक्खं अणुहवमाणस्स रज्जधुराधरणधवलस्स सुहियस्स तस्स कालो अइकम्मइ ।
अह अण्णया संगहियतुरंगरयणा केइ तुरंगवावारिणो तीए नयरीए बाहिं कयावासा संठिआ । ते तुरंगमा सिंधु-वणाउ-कंबोय-वल्हिग-तुरुक्क-हंसप्पमुहविविहदेसुप्पण्णा विज्जुविलासा जियवाउवेगा दिढकाया तिक्खखुरघायपकंपियभूयला संति । विण्णायतुरंगागमणसरूव-नरिंदेण ते तुरंगवावारिणो आहविआ, सल्लक्खणंकियदेहे य ते तुरंगमे दट्ठण मुहमग्गियं धणं ताणं वियरिऊण सव्वे तुरंगमा गहिआ । एगया राया विसिट्ठागारं एगं आसरयणं निरिक्खिऊणं पसण्णमणो अण्णायविवरीयगईं तं आरोहिऊण सेणासहिओ मिगयानिमित्तं वणम्मि गओ। तत्थ विविहसावयगणाइण्णे काणणे नरवई धम्मरहिओ परप्पाणववरोवणवसणो संततचारिणो तिणजल-संतोसविहियवित्तिणो मिगससग-वराह-संवराइपाणिगणे वित्तासेइ । आसारोहा वि रुक्खेसु रुक्खेसु भमिऊण परमाहम्मिया नारगे विय ते पाणिगणे बहुं तासेइरे । वुत्तं च -
हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कएण णासेइ अप्पाणं ॥ दुक्खस्स उव्वियंतो, हंतूण परं करेइ पडियारं ।
पाविहिइ पुणो दुक्खं, बहुययरं तन्निमित्तेण ॥ ताओ जूहाओ कहं पि एगो हरिणो पलाइउं लग्गो । पलायमाणं तं दट्ठण मिगयाभिरओ नरवई तस्स पिट्ठम्मि नियतुरंगमं पेरेइ । सो वि मिगो जियपवणवेगो धावमाणो पवंतो खणंतरेण अदंसणं पत्तो। 'पुढाउसं पाणि न को वि पहरिउं तरेइ' । मिगं पहरिउं इच्छमाणो सो नरिंदो मिगाणुसारी गच्छंतो गयबहुपहं पि न जाणेइ । निवाणुगामिणो हयारोहा तुवरंता वि तं नरिदं अपेच्छंता अणुसरिय-हय-पयमग्गा रण्णमज्झम्मि अणुगच्छित्था । वंकगइतुरंगमयाणतो निवो जह जह वग्गं आगरिसेइ, तह तह सो तुरंगमो समुद्दतरंगरासिव्व उच्छलंतो चित्तगई जाओ । सो आसो कत्थ वि ठाणे न संठिओ, किंतु अप्पेण कालेण बहुं भूमि उल्लंघित्था । निवो अच्चंतवाउलो किं कायव्वं त्ति मूढमणो तुरगावहरिज्जमाणो ताव वच्चेइ जाव अग्गओ एगं सुरहिसरोयविराइयं वाविं तीए य उवकंठं दीहजडामण्डलमण्डियं साहप्पसाहागहणं वडरुक्खं पासेइ, पासित्ता चिंतेइ - 'जइ एयं तुरंगाहमं मोत्तूणं कहं वि एयं वडरुक्खसाहं आसाएमि तया सोहणं' । एवं चिंतमाणस्स सो वडरुक्खो समीवं समागओ। जया नरवई वडसाहं घेत्तुं हत्थाओ वग्गं सिढिलेइ तया सिढिलियवग्गो वंकगइतुरंगमो खलंतगई तत्थ च्चिय ठिओ । तयाणिं जायविम्हओ पत्थिवो वियारेइ - अयं तुरंगमो विवरीयसिक्खिओ अत्थि त्ति णच्चा तम्मि पसण्णचित्तो संजाओ। अण्णायतुरंगमइगई हं मुहा वग्गागरिसणपरिस्समं कुणित्था, न इमस्स दोसो । तओ किवापूरिअमाणसो
५५
Page #67
--------------------------------------------------------------------------
________________
ताओ तुरंगाओ ओयरिऊण वडतरुच्छायाए तं बंधित्ता जलपाणाय वावीमज्झम्मि उत्तरेइ । भूवई तत्थ जहिच्छं जलपाणेण विगयतिसो विहियमज्जणकिरिओ जलकीलं निव्वत्तेइ मयरंदरसं च पिवइ । तत्तो बाहिरं निग्गच्छित्ता अवराणि वत्थाई परिहेइ । तओ समाहियचित्तो सत्थीभूओ वावीसोहानिरिक्खणतल्लिच्छो महीवई रहत्थिअं एगं विसालजालिगं देक्खइ, तत्थ य अइरमणिज्जसोवाणसेणि विलोइऊण हिटुं ओयरेइ । अह असिसहेज्जो साहसिओ सो निवई सोवाणमग्गेण ओयरंतो कोऊहलरओ पायालमज्झम्मि अग्गे गच्छंतो एगं महारण्णं पासित्था । जओ -
उज्जमो साहसं धिज्जं, बलं बुद्धि-परक्कमा । ___ छ एए जहि विज्जंते, तहिं देवो वि संकए ॥
सत्तसहो निब्भयचित्तो तत्थ वच्चंतो कीए वि बालिगाए करुणसरगब्भियं रुइयं सोच्चा जायविम्हओ विआरेइ - अहो ! एयम्मि पायालविवरे काणणं कुओ ? निज्जणे य इमम्मि रण्णम्मि दीणाणणबाला करुणसरं कहं रोएइ ? असंभवणिज्जं एवं ति चिंतमाणो जमजीहासरिसं करवालं करम्मि धरंतो परुवयारपरो तस्सद्दाणुसारी पुरओ गच्छंतो सो मुद्दियनयणजुगं पउमासणासीणं जवमालाकलियकरं विविहपुप्फधूवोवयारकलियं कमवि जोगिं पासेइ, तस्स य पुरओ कोसरहियासि पयंडजालाजलियग्गिकुंडं च पासित्ता जाणियपरमट्ठो विवेगविगलं तं णच्चा तस्सोवरिं नरिंदो भिसं कुप्पइ । पुणो य तावसस्स अग्गे निविडबंधनिबद्धं अंसुकिलिन्नयणं रुयंतिं एगं बालं एवं वयंति सुणेइ – 'आभापुरीस ! सरणागयवच्छल ! सरणरहियं दीणं मं रक्ख रक्ख, अण्णहा एसो निद्दओ जोगी मे इमम्मि अग्गिकुंडम्मि पक्खिविहिइ' । इत्थं सुणिय जायाणुकंपो नियनामसवणसंजायअच्छेरो नरिंदो पच्चक्खीभूय नेत्तसण्णाए बालं संकेइऊण नियलाहवेण य जोगि-समीवत्थिअं खग्गं पुव्वं घेत्तूणं तं वएइ – रे निग्घिण ! निद्दय ! निट्ठरमाणस ! पावरय ! हीणमइ ! तुं मइ विज्जमाणे इमाए बालाए कहं बलिं काहिसि ? सिग्धं मुंच मुंच इमं मणोहरं बालं, जुद्धाय वा सज्जीभव, अहुणा तुमं न मुंचिस्सं । एवं नरवइवयणं निसमिऊण झाणं चइत्ता नियतणुत्ताणपरो स जोगी पलाइऊण वणम्मि नट्ठो । नरिंदो तस्स पिट्ठम्मि न गओ, तस्स य विज्जासाहणसयलसामग्गि गिण्हित्था । सत्तेण देव-दाणव-खेयरा कूरपसुणो वि वसीहवंति । जओ -
विक्कमंचियभूवाणं, सेणा सोहाइकारणं ।
केवलं सत्तमुक्किटुं, जगरक्खाविहायगं ॥ तओ भूवई तं बालं बंधणरहियं काऊणं सायरं पुच्छेइ – निरुवमलायण्णसालिणि ! बाले ! तुमं एयस्स ताक्साहमस्स पासे कहं पडिया? आभापुरीराया तव पिययमो कहं संजाओ? कास निवइणो तणया सि? त्ति अहुणा तुं निब्भया समाणी सुत्थत्तणं धरिअ सयलवुत्तंतं मम निवेइसु । तओ सा बाला तं चिय आभापुरीविहुं नियभत्तारं नच्चा लज्जानमिरमुही वएइ । वुत्तं च -
असंतोसी दिओ नट्ठो, संतोसी य महीवई । सलज्जा गणिगा नट्ठा, निल्लज्जा य कुलंगणा ॥
Page #68
--------------------------------------------------------------------------
________________
नरेस ! आभापुरीए पणवीसजोयणंते अच्चंतमणोहरा पउमपुरी विज्जइ । तत्थ सूर-वीरपुरिससिरसिरोमणी पउमसेहरो महीवई । तस्स य सारयससिवयणा सारयासरिसमइसालिणी रइरूवा नाम महादेवी अस्थि । तीए कुक्खिसंभवं चंदावई नाम मं जाणेसु । नायजिणधम्मतत्तं अईयबालभावं कामिजणमणहरं जोव्वणवयारूढं मं निरिक्खिऊणं मम जणगो अणुरूवं वरचितं कासी । जओ भणियं -
निप्पंकसुवन्नसमुज्जला वि सुइसीलसोरभजुया वि । केयइफडसव्व सुया, परोवयाराय निम्मविया ॥ कुलं च सीलं च सणाहया य, विज्जा य वित्तं च देहो वयं च । वरे गुणा सत्त विलोअणिज्जा, अओ परं भग्गवसा हि कन्ना ॥ कन्नत्ति जाया महई हि चिंता, कास प्पदेय त्ति महावियक्को । दिण्णा सुहं जाहिइ वा न वा, कन्नापिउत्तं खलु कट्ठदाइं ॥ जम्मंतीए सोगो, वड्ढंतीए य वड्डए चिंता ।।
परिणीआए दंडो, जुवइपिआ दुक्खिओ निच्चं ॥ एयम्मि समए को वि नेमित्तिओ रायसहामज्झम्मि समागओ । रण्णो चिंताकारणं नियनाणेण नच्चा रायाणं कहेइ - 'राय ! चिंतं मा कुणसु, तव कण्णाए गुणरयणरयणागरो आभापुरीनरीसरो भत्ता होही' । एवं नेमित्तियवयणसुहारसपाणेण हरिसभरियमाणसा मायपियरा वसण-भूसण-धणेहिं नेमित्तियं सक्कारिऊणं विसज्जेइ । अहं पि पियनामं सोच्चा धरियरोमंचकंचुगा वयणाइरेगाणंदं पत्ता ।
अह अण्णया सहीजणपरिवरिया अहं जलकेलिनिमित्तं सरियातीरे गच्छित्था । तत्थ थिएण तावसाहमेण एएण इंदजालियविज्जाए तहा हं विप्पयारिआ, जहा त विणा हं न कंचि पासित्था । मज्झ सहीणं दिट्ठिबंधं विहेऊण मं च अवहरिअ एत्थ आगंतूण पुक्खरिणीए जालिमा-मग्गेण अवयारित्ता एसो एयम्मि वणम्मि आणेसी । राय ! दुक्खसागरमग्गाए मज्झ सहेज्जसमए एत्थ समागंतूण इमाओ महावसणाओ तुं मं मुंचित्था । गुणरयणजलनिहि ! मणोहर ! तुम्ह गुणे कहिउं न पारेमि, अहवा नियपियारक्खणकए जं किंपि विहिज्जइ तत्थ उवयारो कहं मण्णिज्जइ ? स-पियापालणं पियस्स धम्मो च्चिय । जओ -
बालत्तणम्मि जणओ, जुव्वणपत्ताइ होइ भत्तारो ।
वुड्ढत्तणेण पुत्ता, सच्छंदत्तं न नारीणं ॥ ___ जइ अहं अत्थिणी होती तया तव कित्तिं गाएज्जा, जसपडहं च वाएज्जा । इयाणि एरिसायारविसेसेण भवंतं पाणप्पियं जाणामि । जओ -
आयारो कुलमक्खेइ, देसमक्खेइ भासणं । संभमो नेहमक्खेइ, देहमक्खेइ भोयणं ॥
Page #69
--------------------------------------------------------------------------
________________
एयम्मि दुरंतदुक्खम्मि अवरो को सहेज्जं काउं समागच्छेज्जा? एवं तीए वयणं सोच्चा वीरसेण नरीसरो तं पसंसिअ सम्माणं च काऊणं मणोहारिणिं तं बालं पुरओ किच्चा वणं अइक्कमित्ता तं चिय सोवाणपंति आरोहिऊण जालिगादुवारेण वावीमज्झे समागओ । पुणो वि तत्थ मज्जणं करिऊण वावीए बाहिरं निग्गओ । तया नियपिट्ठाणुसारिणी सव्वसेणिगा तत्थ समागया । विहियनरिंददंसणा लद्धजीविया विव सव्वे भूमिनयसिरा निवेयंति - सामि ! सुहडबुंदं चइऊण सावयगणाइण्णे इमम्मि घोरवणम्मि हरिणनिमित्तं एगागिणो निग्गमणं न जुत्तं, तुम्हारिसा नरसिरोमउडा पुरिसा जत्तेण रक्खणिज्जा, पुरिसुत्तमा पइपयं न लहिज्जति ।
चउत्थो उद्देसो अहो ! तिरिअभावे मे, सोलसवरिसा गया । सुहं न पाविअं किंचि, एहिगं पारलोइअं ॥ कत्थ गुणावणी भज्जा ?, कत्थ मे सुहसंपया ?। कत्थ सयणसंगो मे ? कत्थ रज्जसुहं मम ? ॥ सव्वं मे विहलं जायं, असुहकम्मजोगओ ।
वेरिणी हि विमाया मे, खगो हं जीह निम्मिओ ॥ संसारम्मि सव्वे जीवा किल नियत्थसाहणपरा संति, अओ च्चिअ निस्सारो इमो गणिज्जइ । तह य इमे नडा दुक्कम्मविवागजणियकुक्कुडसरूवं मं घेत्तूंणं अणेगविसएसु भमिआ, तह वि मम पावकम्माण पज्जंतो न आगओ । मणुअत्तणं चइऊणं अहं उक्करडम्मि भमिरो कुक्कुडो संजाओ। बहुसमए अईए मणूसत्तणसंपत्तीए अहुणा का आसा ? मए समीववट्टिणीए नियभज्जाए समाणाए राइदिवसाई कहं जावियव्वाइं? दंसणं डहणं च कहं सहिज्जइ ? मम रम्म इमं जोव्वणं निष्फलं गयं । मम अचिंतणीअदुक्खवत्ताए अलं । केवलं दुक्खभायणं जीवियव्वं मुहा मण्णेमि । संपत्तकुक्कुडभावाओ मरणं वरं, तम्हा अहुणा एयम्मि कुंडम्मि झंपापायं दाऊणं कल्लाणं कुणेमि ।
असारे इह संसारे, कास को वि न विज्जइ ।
नियकम्माणुसारेण, सव्वे जीवा मिलंति हि ॥ कास माया, कास पिया, कास भज्जा, कास नयरी ? एए असासया भावा न कासइ सासया हवंति, अओ एएसुं मोहो न कायव्वो। एए अम्हेच्चया कया वि न हुविरे, अओ एएसुं ममत्तणं चइयव्वं । सव्वे संबंधिणो नियनियकज्जसाहणतल्लिच्छा संति । वुत्तं च -
Page #70
--------------------------------------------------------------------------
________________
एगो हं नत्थि मे कोई, नाऽहमन्नस्स कस्सइ । एवं अदीणमणसो, अप्पाणमणुसासइ ॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥ संजोगमूला जीवेण, पत्ता दुक्खपरंपरा ।
तम्हा संजोगसंबंधं, सव्वं तिविहेण वोसिरिअं ॥ एवं वियारंतो जुगाइनाहं च झायंतो भवविरत्तचित्तो सो पेमलालच्छीकराओ सहसा उड्डेऊण कुंडम्मि झंपं पयच्छेइ । पेमलालच्छी तस्स साहसं पासिऊणं संभंतमाणसा वएइ - पक्खिराय ! तुमए एयं किं विहियं ? अहं सिवमालाए किं उत्तरं दाहं ? मायपिऊणं पि किं कहिस्सामि ? थेवदिवससंबंधम्मि तए दीणवयणं सरणविरहियं मं चइऊणं एयं किं कयं ? अहवा मईअसिणेहपरिक्खानिमित्तं तुमए इमं साहसं जइ विहिअं सिया, तइया 'जारिसी तुव गई तारिसी मम अत्थु'त्ति चिंतिऊण सा वि कासइ अकहिऊण तन्नेहपासनिबद्धा तग्गहणमिसेण कुंडम्मि निवडेइ । तं दट्ठणं सव्वत्थ हाहाकारो संजाओ । पेमलालच्छी अकम्हा तं घेत्तूं उज्जया होत्था । तइया विमाऊए निबद्धो दवरगो जो जुण्णत्तणं उवागओ सो दइव्वजोगेण तक्करम्मि समागओ तुट्टिओ य । तयाणि सो कुक्कुडत्तणं जहित्ता दिव्वरूवधरो चंदराओ पयडीहूओ । तं दट्टणं सव्वे विम्हयं पावेइरे । तइया तक्खणेण सासणाहिट्ठाइगा देवी समेच्च ते दुण्णि बाहिरं उद्धरिऊण कुंडतडम्मि मुंचेइ । अह पेमलालच्छी लद्धसत्था नियं भत्तारं पेक्खिऊण अच्चंतहरिसं उवागया । विम्हयजणगो एसो वुत्तंतो खणमेत्तेण सव्वहिं पसरिओ । तहिं तित्थनिवासिणो सम्मद्दिट्ठिदेवा ताणं उवरिं पुष्फपुटुिं चंदणच्छंटे अ विहेइरे । तित्थप्पहावो सव्वासु दिसासुं वित्थरिओ ।
जलं सूरिअकुंडस्स, पावकम्मससोहगं ।
पसिद्धी इअ सव्वत्थ, जाया सद्धाविवडणा ॥ सूरिअकुंडवारिफरिसणाओ चंदराएण मणूसत्तणं लद्धं ति सव्वेहिं वियाणिअं । अह पेमलालच्छी लज्जं धरंती चंदरायं भणेइ - सामि ! एयम्मि कुंडम्मि सिणाणं विहेऊण सिरिउसहसामिस्स वंदणं अच्चणं च समायरेसु, एयस्स गिरिरायस्स पहावेण तुम्ह सव्वे मणोरहा सिद्धा संजाया । अहो ! अस्स तित्थस्स आराहणं अक्खयफलदायगं ।
इह सिद्धा अणेगे हि, सिज्झिस्संति य साहवो । मण्णंति सासयं तित्थं, इमं मुत्तिपयं बुहा ॥ सम्मत्तकप्परुक्खं, सिंचसु भावेण भत्तिरसजलओ । पल्लविओ सो होज्जा, तुम्ह हि विरइफललाहगरो ॥
Page #71
--------------------------------------------------------------------------
________________
अह विहियमज्जणा ते दुण्णि दंपईउ अच्चुत्तम-दव्वेहि सिरिउसहजिणीसरं अच्चंति। जिणवयणठविअनयणा ते भावपूअं विहेइरे । तओ सो चंदराओ पुंडरीयगिरिरायं वंदमाणो वएइ -
जं किंचि नामतित्थं, सग्गे पायालि माणुसे लोए । तं सव्वमेव दिटुं, पुंडरिए वंदिए संते ॥३२॥ केवलनाणुप्पत्ती, निव्वाणं आसि जत्थ साहूणं । पुंडरिए वंदित्ता, सव्वे ते वंदिया तत्थ ॥३३॥ अट्ठावय-संमेए, पावा-चंपाइ उज्जित-नगे य ।
वंदित्ता पुण्णफलं, सयगुणं तं पि पुंडरीए ॥३४॥ एवं गिरिवरं वंदिऊण जुगाइपहुं थुणेइ – हे जिणराय ! परमतिलोगनाह ! अणुत्तरपुण्णसंभार ! खीणरागदोसमोह ! अचिंतचिंतामणि ! भयवं ! पढमतित्थयरो सया तुमं जयसु । भुवणत्तयपडिपालग! समसुहारसससहर ! भवियजणमणवंछिय-समप्पणाऽभिणवसुरतरु ! सयलसुरासुरपुरंदरसेवियपयपंकय ! अपरिमियगुणरयणरयणागर ! थावरजंगमजगज्जंतुजायपवट्टियाण ! पाणिसमुदायपावकम्ममहीधरभेयणवइरसरिस ! सव्वभावाणुभवरस-सायर ! केवलनाणदिवागर ! पहू ! हे देवाहिदेव ! नाणरयणसमुद्द! तुव पुरओ अवरदेवा छिल्लरजलसरिसा, हरि-हर-बम्हपमुहा य देवा खज्जोयसरिच्छा संति । हे देव ! जलहिभायणे असियगिरिसरिसं कज्जलं, सुरतरुवरसाहाए लेहणि, पुढवीपत्तं च काऊणं जइ सारयादेवी सव्वकालं लिहइ तह वि तुव गुणाणं पारं न पावेइ । जिणिंद ! सिवगिरिवरगुहाए वसंतो तुं पंचाणणसरिच्छो सि । तुव चरणकमलसेवाहेवागा अच्चुयदेविंदाइणो किंकरा संति । जह गंधहत्थिगंधमेत्तेण अण्णे गया मयरहिया हुंति तह अणंतगुणसमुद्दस्स तुम्ह पुरओ अण्णे देवा विमया हुवेइरे । अपुव्वो तुं गरुलो सि, जओ तुम्हत्तो कम्मविसहरा भयं पाविऊणं दूरओ पलायंति । जे भव्वजीवा तुमं नमसंति ते अवरदेवाणं पुरओ कया वि हि नियसिरं न नमावेइरे । जओ कप्पतरुच्छाहिं चइऊणं कटइल्लदुमं को सेवेज्जा ?
तुम्हाराहणमेहेण, सिंचिए भव्वभूयले । भवदावानलो संति, उवेइ पाणितावगो ॥ गुणरयणरोहणगिरी, परिसहउवसग्गसहणधरणी य । कम्महरिणारि-सरहो, अणंतधम्मो तुमं जयसु ॥ देव ! ते हुज्ज सेवा मे, ताव सोक्खविधाइणी । जाव हि सव्वकम्मेहिं, विमुत्तो न भवामि हं ॥
भाव च्चिय परमत्थो, भावो धम्मस्स साहगो भणिओ । सम्मत्तस्स वि बीअं, भाव च्चिअ बिति जगगुरुणो ॥
६०
Page #72
--------------------------------------------------------------------------
________________
एवं सुहासरिसं चंदरायकेवलिदेसणं निसमित्ता बहवो भव्वजीवा वयनियमग्गहणेण नियजीविअं सहलीकुणेइरे । तओ जंगमतित्थसरूवो सिरिचंदकेवली पुढविं पवित्तयंतो बाल-मज्झिमुत्तमाइपाणिणो जहारिहं उवदिसंतो कइह अगम्माऽगोअरभावे पयासंतो कमेण विहरंतो सिद्धायलतित्थक्खित्तं समागओ। 'जं इमं पवित्ततित्थं पुरा वि तस्स नरत्तणलाहम्मि परमुवयारकारणं होत्था, पुणो वि नाणेण विण्णायं - जं एवं तित्थं पज्जंतम्मि मम सिद्धपयदायगं भविस्सइ, इह अणंताणंतमुणिवरा सिद्धिपयं पत्ता, अस्स गिरिरायस्स सुमरणमेत्तेण पाणीणं सव्वकम्मविणासो जायइ'त्ति वियाणंतो सो तम्मि चेव महातित्थम्मि मासिगिं संलेहणं कासी । सो चंदरायमहारिसी एगं वरिससहस्सं पव्वज्जापज्जायं पालिऊण वरिसाणं तीससहस्साई सव्वाउसं भोत्तूणं पज्जते जोगनिरोहं काऊणं चउद्दसमे अजोगिगुणट्ठाणम्मि पंचहस्सक्खरुच्चारसमयप्पमाणं ठाऊणं तइया वेयणिज्जा-ऽऽउस-नाम-गोत्ताणं चउण्हं अघाइकम्माणं पि सव्वहा खयं किच्चा अणंतवीरिअ-अखेयत्तणाऽइंदियत्तणऽक्खयत्तणं च लभ्रूणं इक्कसमयमेत्तेण उड्डगमणं काऊणं सिद्धिपयं पावित्था । सव्वट्ठसिद्धविमाणस्स उवरि दुवालसहिं जोयणेहिं गएहिं उत्ताणच्छत्तसंठाणसंठिया ईसिपब्भारनामा पुढवी वट्टेइ, सा पणयालीसलक्खजोयणायामवित्थरा परिरएण य साहिगतिगुणा विज्जइ। तीए उवरिं जोयणे लोयंतो अत्थि, तत्थ जोयणस्स उवरिमो जो कोसो तस्स कोसस्स छट्ठभाए सिद्धाणं
ओगाहणा जीवपएसनिप्पसंठाणा हवेइ, तत्थ जाइजरामरणविप्पमुक्को अवेयकम्मकलंको पणट्ठवाबाहो केवलनाणदंसणो निरुवमसुहसंगओ सव्वहा कयकिच्चो साइ-अपज्जवसिओ अक्खयाणंदसरूवो सो जाओ । वुत्तं च -
अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं बुदि चइत्ताण, तत्थ गंतूण सिज्झइ ॥ ईसिं पब्भाराए, सीयाए जोयणम्मि य लोगंतो ।
बारसहि जोयणेहिं, सिद्धी सव्वट्ठसिद्धाओ ॥ सिद्धसिलासरूवं -
निम्मल-दगरयवण्णा, तुसार-गोखीर-हारसरिवण्णा । उत्ताणय-छत्तयसंठिया उ भणिया जिणवरेहिं ॥ बहुमज्झदेसभागे, अद्वेव जोयणाइँ बाहल्लं । चरिमंतेसु य तणुई, अंगुल-संखिज्जई भागं ॥ ईसीपब्भाराए, उवरि खलु जोयणस्स जो कोसो ।
कोसस्स य छब्भागे, सिद्धाणोगाहणा भणिया ॥ अह सुमइ-सिवकुमारसाहवो गुणावली-पेमलालच्छी-साहुणीओ वि य कमेण अट्ठकम्माइं खविऊण सिद्धिपयं पत्ता । सिवमालापमुहअज्जापरिवारो सव्वट्ठसिद्धविमाणं गच्छित्था, तओ चवित्ता महाविदेहम्मि
६१
Page #73
--------------------------------------------------------------------------
________________
मणुअत्तणेण उव्वज्जिऊण सव्वाओ ताओ सिद्धिसुहं पावेइरे । एवं सीलरयणप्पहावेण जह एएसि एरिसी इट्ठसिद्धी संजाया, तह हे भविया ! चंदराय व्व अण्णो वि जो बंभवयं पालेज्जा सो मुत्तिसुहं पावेइ । जो नवहिं बंभचेरगुत्तीहिं विसुद्धसीलो विमल-गिरिवरं फरिसेइ सो चंदनरवइ व्व परमसंतसुहारसासायणपरो हवइ ।
चंदस्स पयडभावो सत्तुवहो य गमणं च आभाए । संजमगहणं सिवपय-लाहो कहिया चउत्थम्मि ॥
* * *
पसत्थीएवं निम्मलसीलो-वरिं चरित्तं हि चंदरायस्स । सोच्चा तहा सुसीले, जत्तो भविएण कायव्वो ॥१॥ एवं चंदनिवइणो, निम्मलवरगुणगणे हि गाइत्ता । भव्वाण सीलरयणे, मए सुसिक्खा वरा दिण्णा ॥२॥ एवं चरियं सोच्चा, उवहसियव्वं न केण विबुहेण । इह जाया जा खलणा, बुहसिट्ठा तं विसोहंतु ॥३॥ एत्थ न पयलालित्तं, उत्तमकविसारिसी न पयरयणा । मंदमइबोहणटुं, तह वि मम उज्जमो सहलो ॥४॥ सोआ भवइ पवित्तो, जइया गुणगाणओ सुपुरिसाणं । तइया तस्स पणेआ, कहं न होज्जा पवित्तयमो? ॥५॥ सिरिसेणसूरिराओ सपरसमयरयणरासिपारीणो । आसी जिणवरसासण-पहावगो तवगणाहिवई ॥६॥ उज्झायकित्तिविजओ, संजाओ तस्स पंडिओ सीसो। तस्स सिरिमाणविजओ, सीसो कइसेहरो जाओ ॥७॥ सीसो उरूवविजओ, संभूओ तस्स नाणलद्धिजुओ। तस्स वि सीसप्पवरो, मोहणविजओ बुहो जाओ ॥८॥ तेण विबुहेण रम्मो, रासो सिरिचंदरायनिवइस्स । भवियहियय-मोअगरो, ललियपयालंकिओ रइओ ॥९॥ सिरिथंभतित्थनयरे, रइयं रसाणुसारिचरियमिमं । । थंभणपासकिवाए, आससिसूरं जए जयउ ॥१०॥ सिरिणेमिसूरिरायं, पगुरुं पणमामि घोरबंभवयं । पोढप्पहारवकलियं, तवगच्छगयणसहस्सकरं ॥११॥ पारिति गंथरयणे, जस्स पसाएण मारिसा मंदा । समयण्णुं गुरुरायं, नमिमो सिरिसूरिविन्नाणं ॥१२॥ सीसेण तस्स रइयं, नरवइसिरिचंदरायचरियमिमं । कत्थूरायरिएणं, वरसे भुअहत्थ-नहनेत्ते (२०२२) ॥१३॥
इअ तवागच्छाहिवइ-सिरिकयंबप्पमुहाणेग-तित्थोद्धारग-सासणप्पहावग-आबालबंभयारि-सूरीसरसेहर-आयरिय-विजयनेमिसूरीसर-पट्टालंकार-समयण्णु-वच्छल्लवारिहि-आयरिअविजयविण्णाणसूरीसर-पट्टधर-सिद्धंतमहोदहि-पाइअभासाविसारयायरिअविजयकत्थूरसूरिणा विरइए-पाइअसिरिचंदरायचरिए चंदरायपयडण-वीरमईवह-आभापुरि प्पयाण-संजमग्गहण-मत्तिपयगमणसरूवो चउत्थोद्देसो समत्तो
समत्तं च सिरिचंदरायचरियं ॥
Page #74
--------------------------------------------------------------------------
________________
श्री प्राकृत विज्ञान पाठमाला
विचविषयावर सीमावाणीविजय
विजयाबसूरीश-पाप-विजय
बिलीवाति
हिरचन्द्रमाई रामचन्द्रमा मेरी
यसरखारी.
प्राकृतविज्ञानपाठमाला प्राकृतभाषाशिक्षणार्थं प्रवेशद्वारस्वरूपेयं पाठमाला आचार्यवर्यश्रीविजयकस्तूरसूरीश्वरैः स्वीयदीक्षातः षष्ठे वर्षे एव विरचिताऽऽसीत् । अस्यां खलु सङ्केपेण प्राकृतभाषाव्याकरणनियमाः, तदुत्सर्गापवादाः, शब्दधात्वादीनां रूपाणि, भाषाज्ञानदृढीकरणार्थं चोभयभाषानिबद्धानि वाक्यानि - इत्येतत् सर्वं विद्यार्थिनामुपयोगि सामग्यं प्रदत्तमस्ति । एतत्पठनानन्तरं हि प्राकृतभाषाव्याकरणं सरलतयाऽवगाहितुं शक्यम् । एषा च पाठमाला भारतस्य विविधेषु विश्व-विद्यालयेषु प्राकृतभाषाशिक्षणालयेषु च पाठ्यपुस्तकत्वेनाऽधिकृता सती विद्यार्थिभ्यः पाठ्यते ।
Page #75
--------------------------------------------------------------------------
________________
आयरियसिरिविजयकत्थूरसूरिसंग्गहिया ।
पाइयविन्नाणगाहा
ना छतपर्ग तथा वासी श्री बारभाई छगनलाल शाह परिवार
पाइयविन्नाणगाहा
प्राकृतभाषासाहित्यस्य श्रेष्ठानि शृङ्गाररसमयानि काव्यानि सगृह्य पूर्वं (प्राकृतसाहित्यानुरागिणा) विदुषा महाराजेन शालिवाहनेन गाहासत्तसइ (गाथासप्तशती)- इत्याख्यो ग्रन्थो विरचित आसीत् । अस्य च ग्रन्थस्य प्रायस्त्रयोदश व्याख्या विरचिताः सन्त्यद्यावधि ।
एवमेव जैनसाधुना महोपाध्यायश्रीसमयसुन्दरेण गाथासहस्त्री-नामा सङ्कलनग्रन्थो विरचितो यत्र विविधचरितग्रन्थेभ्य उद्धृत्य शान्तरसमयानि काव्यानि सङ्ग्रहीतानि सन्ति ।
तथा, जयवल्लभाख्यपण्डितेन वज्जालग्गं इत्याख्यो ग्रन्थो व्यरचि यत्राऽपि विविधानि प्राकृतभाषामयानि सूक्तानि निबद्धानि ।
एतादृशां ग्रन्थानां परम्परायां पूज्याचार्यवर्यश्रीविजयकस्तूरसूरीश्वरैरपि विविधेभ्यो जैनागम-सिद्धान्तप्रकरण-चरितादिग्रन्थेभ्य उद्धृत्य त्रिपञ्चाशत्सङ्ख्येषु विषयेषु विविच्य प्रायः १८००-प्रमिताः गाथाः सङ्कलिताऽस्ति पाइयविन्नाणगाहा इति ग्रन्थे ।
संस्कृतच्छाया-गूर्जरानुवादसहितस्याऽस्य प्रकाशनमवश्यं पठनीयं प्राकृतभाषाजिज्ञासुभिः ।
६४
Page #76
--------------------------------------------------------------------------
________________
योगव्याधिपति-महोपकारिशिरोमणि- परमगुरुपयेश्रीमद विजयनेमिसूरीश्परपावपोम्यो नमोनमः ।
प्राकृतरूपमाला.
प्रणेता. मनुयोग्णचा म्यासश्रीम शिकामविजयगणि
शिचरमपनि-यो-कस्तूरविजया
प्राकृतरूपमाला
पूज्याचार्यश्रीविजयकस्तूरसूरीश्वरैर्दीक्षायाः प्रारम्भिकेष्वेव वर्षेषूपनिबद्धायामस्यां रूपमालायां प्राकृतभाषया शब्दनां धातूनां च यानि रूपाणि भवन्ति, तत्र च ये उत्सर्गा अपवादाश्च सन्ति तत् सर्वं विस्तरेण समालिखितम् । विद्यार्थिनां कृतेऽतीवोपयोगी ग्रन्थोऽयम् ।
Page #77
--------------------------------------------------------------------------
________________
सूरिचक्रचक्रवर्त्तिभट्टारकाचार्यश्रीविजयनेमिसूरीश्वरचरणाम्भोजचञ्चरीक-शिष्यरत्नानुयोगाचार्यपन्यासश्रीविज्ञानविजयगणि-विनेय-मुनिकस्तूरविजयविनिर्मिता
प्राकृतरूपमाला देवेन्द्रवन्द्यामिपयोजयुग्मं, समस्तभावप्रविभासदक्षम् । संसारसिन्धूत्तरणैकपोतं, नमामि पञ्चासरपार्श्वनाथम् ॥१॥ यनामस्मरणादनेकभवभूपापावली सत्वरं, नाशं याति समभ्युपैति सहसा कल्याणवृन्दः सताम् । कृत्याकृत्यविचारदानकुशला प्रज्ञा समुत्पद्यते । तं वन्दे विवुधाभिवन्दितमहं श्रीनेमिसूरीश्वरम् ॥२॥ प्रणम्य गणिपन्यासं, विज्ञानविजयं गुरुम् । मालां प्राकृतरूपाणां, कस्तुरस्तनुते मुनिः ॥३॥
Page #78
--------------------------------------------------------------------------
________________
सिरिउसहणाहचरियं
सिरिउसहणाहचरियं
पूज्याचार्यवर्याणां श्रीविजयकस्तूरसूरीश्वराणां हृदये एकोऽभिलाष आसीद् यत् - त्रिषष्टिसङ्ख्याकानां शलाकापुरुषाणां चरितानि यथा कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यैः संस्कृतभाषया पद्यबन्धेन निबद्धानि सन्ति तथा प्राकृतभाषयाऽपि गद्यपद्यमयानि स्युः । ततश्चैतदभिलाषं चरितार्थीकर्तुं तैः त्रिषष्टिशलाकापुरुषचरितानुसारेणैव प्रथमतीर्थकृतः श्रीऋषभदेवस्य चरितं प्राकृतभाषया निबद्धम् ।
अत्र चैतस्य ग्रन्थस्य प्रास्ताविकं प्रस्तुतमस्ति ।
६७
Page #79
--------------------------------------------------------------------------
________________
सिरिउसहणाहचरिय-गंथस्स
पत्थाविगं छिज्जति जस्स गंथा, अन्नाणविसहरणे रयणसरिसा । सिद्धनिवइमहिओ जो, कुमारवालस्स बोहगरो ॥ सव्वण्णुसमो इहयं, कलिकालम्मि य समणवई जाओ । दंसणियसव्वगंथा, जेण विरइया जगपसिद्धा ॥ सिरिहेमचन्दसूरी, विन्नाणविबुहविणमियपयकमलो ।
तस्स हि सब्भूयजसं, गायमि कत्थूरसूरी हं ॥ सिरिहेमचंदसूरिणो जम्मो विक्कमस्स सर-वेय-भूमि-ससंक (११४५)वरिसम्मि कत्तियसुक्कपुण्णिमाए धंधुगानयरम्मि होत्था । तस्स पिउणो नाम 'चाच' माऊए य 'पाहिणी' आसी । गिहत्थावत्थाए हेमचंदस्स नाम चंगदेवुत्ति । तस्स मोढजाईए उप्पत्ती हुवीअ ।
चंदकुलायरियदेवचंदसूरी सिरिथंभतित्थंमि तस्स माऊए आणं घेत्तूणं विक्कमस्स गयणसरचंद-भूमि(११५०)वरिसम्मि माहमासस्स सुक्कचउद्दसीए मंदवासरे रोहिणीनक्खत्तम्मि सिरिपासणाहचेइयम्मि दिक्खं दाऊणं सोमचंद त्ति नाम अकरिंसु ।
तओ सोमचंदो निम्मलमइबलेण नाय-वागरण-साहित्तमुहविज्जाओ अब्भसित्ता विसेसओ मइविगासनिमित्तं कम्हारदेसम्मि गंतूण सरस्सईदेवीसमाराहणमणोरहं कासी ।।
तयणंतरं थंभणतित्थाओ गीयट्ठसाहूहि सह विहारं काऊणं कमेण थंभतित्थसमीवत्थिअ-रेवयावयारतित्थम्मि सिरिनेमिणाहचेइए तीए आराहणे सावहाणपरो होत्था । तइया पुण्णाणुभावाओ मज्झरत्तीए नासग्गठविअनेत्तस्स तस्स सोमचंदस्स पुरओ पच्चक्खीहोऊण पसण्णा सरस्सई वएइ – 'वच्छ ! देसंतरं मा वच्चसु, तुम्हेच्चयविसुद्धभत्तीए तुट्ठा हं । तुम्ह इच्छिअं एत्थच्चिअ सिज्झिहिइ' इइ वोत्तूणं सा अदंसणं पत्ता ।
लद्धसरस्सइपसायं तं सोमचंदं पासिऊणं गुरवो संघसमक्खं नगराहीसविहियमहसवपुव्वयं विक्कमस्स रस-उउ-ससि-ससंक(११६६)वरिसम्मि अक्खयतइयाए मज्झण्हसमए सूरिमंतपयाणेण तं आयरियपए ठवित्था । तइया सो हेमचंदसूरी इअ नामेणं पसिद्धि पाविओ ।
तस्स माया पाहिणी सुयसिणेहेण गुरुसगासम्मि संजमं गिण्हित्था । जणणीवच्छलो अहिणवायरिओ
६८
Page #80
--------------------------------------------------------------------------
________________
गुरुहत्थाओ तं पवत्तणीयपयम्मि ठवीअ ।
हेमचंदसूरी तओ विहरमाणो कमेण अणहिल्लपुरं समागच्छित्था । एगया सिद्धराओ भूवई गयवरारूढो रायवाडिगाए वियरंतो रायपहम्मि विवणीसंठियं हेमचंदपहुं पेक्खिऊणं तम्मुहाओ सुभासिअं सुणिउं पेरेइ, तइया सूरिणा वुत्तं – 'हे सिद्धराय ! नीसंकं गयरायं चलावेसु, दिसिगया तसिंतु, तेहिं किं? जओ पुढवी तुमए च्चिय उद्धरिया' । एवं सुहासिअं सोच्चा पसन्नहियओ सो नरवई रायसहाए आगमणटुं पत्थणं कासी ।
__एगया सिद्धराएण मालवदेसविजएण तओ आणीओ भोयवागरणपमुहगंथभंडारो सिरिहेमचंदस्स दंसिओ । सिद्धरायस्स निद्देसेण हेमचंदपहुणा 'सिद्धहेम'त्ति अभिणवं वागरणं सुत्त-उणाइ-धाउपाढगणपाढ-लिंगाणुसासणनामपंचंगरूवं निम्मविअं । तस्स य अट्ठज्झाया । तस्स वागरणस्स विवरणट्ठाए बिहन्नासो महावुत्ती लहुवुत्ती य निम्मियाओ । विसेसओ नाममाला-सेसनाममाला-अणेगट्ठनाममालादेसियनाममाला-निघंटु-छंदोणुसासण-कव्वाणुसासण-तिसट्ठिसलागापुरिसचरिय-सत्तसंधाणमहाकव्वदुविहदुगासयकव्व-पमाणमीमंसा-जोगसत्थपमुहा विविहविसयगंथा विरइया । ते य विउसगणेहिं पमाणीकया।
पंडियवरभागवायरियस्स इंदजालियदेवबोहस्स दुक्खियावत्थाए तेण सूरिणा सहेज्जं कयं ।
सिद्धरायनरवई पुत्तस्साऽभावेण सिरिहेमचंदपहुणा सद्धिं तित्थजत्ताए निग्गओ। पुव्वं सिद्धगिरिम्मि जत्तं काऊणं तित्थस्स पूआइ दुवालसगामे दाऊणं रेवयायलतित्थम्मि समागओ । तत्थ नियसज्जणमंतिकारियजिण्णुद्धारम्मि सत्तावीसलक्खसुवण्णदम्मवयं सोच्चा तं च लाहं सयं घेत्तूणं सो बहुयं पसंसिओ । तओ सिरिहेमचंदसूरिसहिओ सो सिद्धराओ सोमेसरपट्टणम्मि उवागओ । तत्थ महादाणाई दाऊणं अच्चब्भुयपूअं च काऊणं सो अंबिगादेवीए अहिट्ठिए कोडिणारनयरम्मि अबिंगादेवीदंसणटुं समागओ । पुत्तटुं आराहियाए अंबिगादेवीए सिद्धरायस्स पुत्ताभावो निद्दिट्ठो । तस्स य उत्तराहिगारी पेइयभाउ-देवपसायस्स पोत्तो तिहुवणपालस्स पुत्तो कुमारवालो होहिइ त्ति देवीवयणं सोच्चा पुव्वकम्मदोसेण तम्मि वरं वहेइ । तस्स वहाइ विविहे उवाए चिंतेइ । तं वियाणिऊण कुमारवालो वेसपरावट्टणं काऊणं अच्चंतगूढठाणे वसिउं लग्गो ।
___ एगया सिरिहेमचंदेण अणहिल्लपुरनयरम्मि सिद्धरायभएण भमंतो सो रक्खिओ । पुणो वि एगया थंभतित्थम्मि सावगदुवारेण बत्तीसलक्खदम्मे दाविऊण तस्स सहेज्जं दिण्णं ।
विक्कमस्स गह-नंद-रुद्द(११९९)वरिसम्मि सिद्धराए परलोगं गए कुमारवालो महाराओ जाओ। सो विवत्तिसमए सहेज्जकारगे सव्वे आहविऊण अईव सम्माणं तेसिं कासी ।
सवायलक्खदेसाहिवइ-अण्णोरायस्स अणेगसो जयम्मि निप्फले गए तस्स जयटुं नियमंती बाहडो पुच्छिओ 'कहं सो जिणिज्जइ?' । तइया मंतिबाहडवयणेण पट्टणसंथिअसिरिपासणाहचेइअमज्झम्मि सिरिहेमचंदपहुपइट्ठिअमहापहावजुअसिरिअजियणाहजिणीसरपडिमाराहणेण अण्णोरायस्स विजओ विहिओ।
Page #81
--------------------------------------------------------------------------
________________
एगया जइणधम्मसवणे मंतिबाहडमुहाओ सिरिहेमचंदसूरिणो गुणे सोच्चा तं च आहविऊणं तम्मुहाओ जिणधम्मं सुणिऊणं मंसाहारचागपमुहनियमे गिण्हित्था । तओ सो जइणसत्थाणं अज्झयणं कुणंतो कमेण महासावगो संजाओ। नियदंताणं विसोहणटुं बत्तीसं जिणचेइयाई तह य नियपियरसेयनिमित्तं 'तिहुवणविहार'-चेइअं अन्नाइं च अणेगचेइआई करावेसी । पुव्वं सिरिअजियजिणाराहणेण अण्णोरायस्स विजओ कओ आसी, तओ तस्स सुमरणनिमित्तं तारंगायलसिहरम्मि उच्चयमं भव्वमहापासायं कराविऊणं तम्मि इक्काहिगसयंगुलपमाणं सिरिअजियणाहजिणपडिमं करावित्ता तहिं पइटुं करावित्था ।
उदयणमंतिस्स बिइयपुत्तेण अंबडेण भरुअच्छनयरम्मि 'सउणिगाविहार'चेइअस्स उद्धारो कओ तस्स पइट्ठा वि विक्कमस्स उउ-चंद-आइच्च(१२१६)वरिसम्मि सिरिहेमचंदसूरिणा विहिया ।
सिरिहेमचंदपहुणो उवएसेण कुमारवालो नरिंदो समणोवासगस्स दुवालसवयाइं गिण्हित्था । ताहे सो नियसव्वदेसेसुं जीववहं तह य जूअपमुहसत्तवसणाई निवारित्था ।
सिरिहेमचंदसूरिस्स वयणेण कुमारवालेणं सिंधुसोवीरदेसरायधाणीवीअभयपट्टणस्स भूमिखणणेण निग्गयाओ पुव्वकालियजिणपडिमाओ इह पट्टणम्मि आणाविऊणं जिणचेइएसु पइट्टाविआओ।
___ एवं आयरियसिरिहेमचंदसूरी कुमारवालमहारायं पडिबोहिऊण तह य सव्वंगीअगंथरयणेण गुज्जरदेसस्स सिरिजिणसासणस्स य अणुवमं पहावणं काऊणं विक्कमस्स नंद-नयण-भुय-ससंक(१२२९)वरिसम्मि चउरासीइवरिसाउसो सग्गं समागओ। एवं महापुरिसाणं गुणगाणं कम्मक्खयाय होइ। तहेव इह उसहचरियविरयणे सिरिहेमचंदसूरिविरइयतिसट्ठिसलागामहापुरिसचरियस्स पढमपव्वस्स उवओगो मए विहिओ । तेण एएसिं महापुरिसाणं गुणगाणं मज्झ वि कम्मखयटुं हवेउ ।
एवं सिरिहेमचंदपहुणो संखेवओ पहावगचरियस्स समत्तीकाऊणं अहुणा तिसट्ठिसलागापुरिसचरियाइमपव्वस्स रूवरेहा मए आलिहिज्जइ -
अणाइनिहणम्मि एयम्मि जगम्मि पउरपुण्णोदएण सुलद्धमणुअभवा संखाईया पाणिणो अज्झप्पुन्नइपयं पाविआ। एएसिं पुरिसुत्तमाणं सब्भूयकित्तणाई जिणागमेसुं अणेगठाणेसुं विहियाइं । तेसिं च निद्देसो सत्थेसुं महापुरिस-सलागापुरिसाभिहाणेण निदंसिज्जइ ।
इह भरहखेत्तम्मि पत्तेगं ओसप्पिणीए तह उस्सप्पिणीए तिसट्ठी तिसट्ठी सलागापुरिसाणं गणणा किज्जइ । इमीए वट्टमाणकालहुंडावसप्पिणीए चउव्वीसं तित्थयरा, दुवालस चक्कवट्टिणो, नव वासुदेवा, नव बलदेवा, नव पडिवासुदेवा इअ तिसट्ठी सलागापुरिसा संजाया। सिरिसीलंकायरिएण नवपडिवासुदेवाणं निद्देसं अकिच्चा महापुरिसाणं चउप्पण्णं गणणा साहिया अत्थि । तहिं च जीवाणं संखा सट्ठी अत्थि, जओ सोलसइम-सत्तरसइम-अट्ठारसइमतित्थयरा एयम्मि भवम्मि च्चिय तित्थयरा चक्कवट्टिणो वि संजाया, भिण्णभिण्णभवाविक्खाए जो चिय तिवुट्ठवासुदेवो सच्चिय कालंतरम्मि सिरिमहावीरसामी नामेणं चउव्वीसइमो तित्थयरो जाओ, तेण तयविक्खाए एगूणसट्ठी सलागापुरिसा गणिज्जंति ।
७०
Page #82
--------------------------------------------------------------------------
________________
एएसिं सलागापुरिसाणं गुणाणं उक्कित्तणं पुव्वकालम्मि पुव्वाणुयोगम्मि आसी । अज्जयणसमए सो न लहिज्जइ । अहुणा उ सलागापुरिसवण्णणविसया गंथा इमे संति । १ चउप्पण्णमहापुरिसचरियं, २ कहावली सिरिभद्देसरसूरिविरइया. ३. हेम-तिसट्ठी, ४ उवज्झायमेहविजयगणिविरइया लहु-तिसट्ठी ।
अन्नं च दिगंबरीयमयम्मि महापुरिसवण्णणविसया कइई गंथा संति, जे इमे -
१ सिरिजिणसेणायरिएण आइपुराणदुवारेण महापुरिसचरियं पारद्धं, तस्स य सीसेण गुणभद्देण उत्तरपुराणरूवेण संपुण्णं विहियं । २ पुप्फदंतविहियं तिसट्ठिमहापुरिसालंकारु किं वा महापुराणं ।
कलिकालसव्वण्णुसिरिहेमचंदपहुणा सक्कयभासाए तिसट्ठिसलागापुरिसचरियं छत्तीससहस्ससिलोगसंखपमाणं विरइयं अत्थि । तं च दससु पव्वेसु विभइयं तहिं च पढमपव्वम्मि छ सग्गा संति ।।
एवं इहयं पि पत्थुयचरियं पढमपव्वस्स पाइयभासाए रूवंतरं अत्थि । इहावि पव्वस्स ठाणम्मि वग्गो तह य सग्गस्स ठाणम्मि उद्देसो, एरिसं नामं ठवियं ।
अहिगारा -
देवाहिदेव-पढमसिरिउसहणाहस्स तेरस भवा संति । तत्थ पढमोद्देसम्मि दुवालस भवा । तह बीय-उद्देसाओ चरिम-छट्ठद्देसं जाव तेरसमो अंतिमभवो वण्णिओ अत्थि ।
विसेसओ - बीयउद्देसम्मि सत्तकुलगराणं वुत्तंतो, तह य भरहचक्कवट्टिस्स उप्पत्ती निद्दिट्ठा । तइयम्मि भरहरायस्स चक्करयणलाहो, मरुदेवाए मोक्खगमणं । चउत्थम्मि भरहरायस्स छक्खंडसाहणा। पंचमम्मि भरहस्स बाहुबलिणा सद्धि जुद्धं । छट्ठम्मि भरहनरवइणो पुत्तस्स मरीइणो वेसपरिवट्टणं । सिरिउसहणाहस्स भरहचक्कवट्टिणो य अट्ठावयगिरिम्मि निव्वाणपयसंपत्ती ।
___ अवरं च एयस्स गंथरयणाए सिरितवागच्छाहिवइ-सासणपहावग-आबालंबभयारि-सूरीसरसेहराऽऽयरियविजयनेमिसूरीस-पट्टालंकार-समयण्णू-वच्छल्लवारिहि-गुरुदेवसिरि-आयरयिविजयविण्णाणसूरीसरं सुमरणपहम्मि समाणेमि। तास अणुवमकिवादिट्ठीए सुहासिसाए य पेरिओ हं गंथसमत्तीकरणे पक्कलो संजाओ। तस्स य निद्देसेण मुद्दणालए मुद्दणटुं एसो गंथो समप्पिओ। किंतु संपुण्णमुद्दणकज्जाओ पुव्वं तस्स गुरुदेवस्स सिरिथंभतित्थे ओसवालुवस्सयम्मि विक्कमस्स नेत्त-भुय-गयण-कर(२०२२) वरिसम्मि महुमासस्स सुक्कदसमीवासरे आराहणपुव्वगं देहविलयाओ सरणविरहिओ हं संजाओ, तेण गुरुदेवविरहबाहा मे चित्तं अज्ज वि जाव अईव दूमेइ ।
पज्जते इमस्स गंथस्स मुद्दणपत्ताणं संसोहणकम्मम्मि मईयपरिवारगय-उवज्झायचंदुदयविजयगणिमुणिअसोगचंदविजय-मुणिजयचंदविजयपमुहेहिं जेहिं सहेज्जं दिण्णं ते वि धण्णवायारिहा ।
इअ वेय-नयण-गयण-कर(२०२४)वरिसम्मि सूरियपुरम्मि विजयकत्थूरसूरी निवेएइ ।
Page #83
--------------------------------------------------------------------------
________________
करुणरसकदंबक
पाइय खंड १
संस्कृत खंड १
करुणरसकदम्बकम्
अयं खलु नास्ति कश्चनाऽखण्डग्रन्थः प्रत्युत सङ्कलनरूपोऽयं ग्रन्थः । विविधजैनसाहित्यग्रन्थेषु यत्र यत्र करुणरसपोषका विविधाः प्रसङ्गाः सन्ति ते उद्धृत्याऽत्र ग्रन्थे च सङ्कलय्य ग्रन्थरूपेण प्रकाशिताः सन्ति ।
____अस्य च खण्डद्वयमस्ति । तत्र प्रथमे खण्डे प्राकृतभाषानिबद्धाः ८५ मिताः प्रसङ्गाः सन्ति । द्वितीयस्मिंश्च खण्डे संस्कृतभाषा-निबद्धाः ३४ सङ्ख्याकाः प्रसङ्गाः सन्ति ।
अस्याऽपि ग्रन्थस्य प्रास्ताविकमत्र प्रस्तुतमस्ति ।
७२
Page #84
--------------------------------------------------------------------------
________________
। (३) करुणरसकदंबकस्य प्रास्ताविकम्
पासंगिअं
आहिवाहिउवाहिविसहरसंकुलाए, जम्मजरामरणसावयगणभीसणाए विविहसोगदवाणलतवियाए भवाडवीए संसरंताणं संसारिजीवाणं सुहदुक्खाणि बहुसो पत्ताइं । कित्तिमसुक्खलेसविमूढा पाणिणो सुहढे सावज्जकमाइं समायरंति । तयणुबंधेण पुणो पुणो ते दुक्खाणि चेव लहंति । नेहो नाम मूलं सव्वदुक्खाणं, जओ उत्तं समराइच्चचरिए - "अहो णु खलु नत्थि दुक्करं सिणेहस्स, सिणेहो नाम मूलं सव्वदुक्खाणं, निवासो अविवेयस्स, अग्गला निव्वुईए, बंधवो कुगइवासस्स, पडिवक्खो कुसलजोगाणं, देसओ संसाराडवीए, वच्छलो असज्झववसायस्स, एएण अभिभूआ पाणिणो न गणेन्ति आयइं, न जोयन्ति कालोइअं, न सेवन्ति धम्मं, न पेच्छन्ति परमत्थं, महालोहपंजरगया विय केसरिणो समत्था विसीयन्ति ।"
पियवत्थुसंजोगो सुहस्स निमित्तं, तस्स य विओगे दुहमेव ।
अस्सि संसारे जीवाणं अणेगप्पयारदुक्खरिंछोली संभवइ । तीए निमित्ताणि वि अणेगाणि । ताई लभ्रूण मणूसा वि विविहसोगजन्ननाणाकरुणभावे अणुहवंति । अस्स गंथस्स एएसिं भावाणं सक्खंकारगत्तेणं इमस्स अभिहाणं करुणरसकदंबयं ति ठविअं।
नूणं इमो गंथो दुहमइए विविहपसंगे अणुसरिअ कहिं कहिं संकिण्णरसं पोसेइ । सच्चमेयं, परंतु करुणरसस्स पाहण्णेण, तओ करुणरसमइओ एसो गंथो अओ इमा संना ।
जहा सक्वय-गुज्जराइभासासु विविहाओ करुणरसपोसगा किईओ दरिदीसंति, तहा पाइअसाहिच्चे वि संति, किंतु एआओ पाइअभासज्झयणज्झावणमंदत्तणेण मुद्दियगंथट्ठिअत्तेण य ण सुपसिद्धिं संपत्ताओ। तओ पाइअभासाणिबद्धाणेगविसयपरिपुण्णमुद्दियसत्थसागराओ मया संगिण्हिआओ इमाओ कइवयाओ किईओ । ताओ नाणाकव्वखंडामियरसपरिपुण्णाओ संति । अस्सि विसयविवरणवियारदसणं पि एत्थ कायव्वं, परंतु इमपुत्थयसंपायणे पोच्छाहणेण समणोवासगेण एहिगंमि विज्जालये पाइअपज्झावगेण
७३
Page #85
--------------------------------------------------------------------------
________________
एम०ए०इइ पयवीमंडिएण कप्पडियासंनासंजुत्तेणं रसिगदाससुएणं हीरालालेण गुज्जरामुहे विसयविआरस्स सवित्थरं दंसिअत्तणेण मए य विसयसूईए निमित्तसूईए य किमवि सूइअत्तेण विरमेमि इमाओ पत्थावत्तो, विसयविआरजिण्णासूणं आमुहाइदंसणं भलावित्ता ।
___अवरं च इमगंथसंकलणाए हं पेरिओ पाइअसाहिच्चरसिगेण एम०ए०पयालंकिएण तिवेइसनाधारिणा चंदुलालसूणुणा चीमणलालेण इइ निद्दिसामि साणंदं ।
पज्जते इमं पि सूएमि जं संपइकाले वि महामोहतिमिरंधणत्तणं पत्ता बहुलोगा पियप्पियविओगसंजोगजन्नविविहदुहपरंपराए संबाहिआ सइ आउलवाउला हवंति । तेसिं सोगकरुणनिमित्ताइं अणेगाणि हुँति । तारिसकियंतनिमित्ताणं पयंसगो एसो गंथो । अओ एअंमि गंथे पदंसिए अणेगतिव्वदुक्खयपसंगे सम्मं पढिअ दुक्खविंदमोअणाए अउणोणिउत्तीए य सिणेहबंधणाओ अप्पाणं छोडाविऊणं अणासत्तिजोगं वीयरागभावणं च भावित्ता सिवमयलमरुअमणंतमक्खयमव्वबाहं ठाणं भो भव्वा ! सिग्धं चिय लहंतु त्ति पत्थेइ सिरिविजयविन्नाणसूरिअंतेवासी कत्थूरविजओ सूरियपुरे वीरवरिसे २४६७तमे मग्गसीसस्स सुदिपक्खम्मि बीआए तिहीए ॥
७४
Page #86
--------------------------------------------------------------------------
________________
पाइअविन्नाणकहा
पाइयविन्नाणकहा
प्राकृतभाषासाहित्यजिज्ञासूनां तत्र शीघ्रा गतिः स्यादिति मनसिकृत्य पूज्यैः आचार्यवर्यश्रीविजयकस्तूरसूरीश्वरैरष्टोत्तरशतसङ्ख्याककथानिबद्धोऽयं विरचितः। प्रत्येकं कथा व्यवहारे, अभ्यासे, प्रवचने, स्वबोधार्थं च नितान्तमुपयोगिनी वर्तते । सहैव भाषाशिक्षणार्थं चाऽपि समुपकारिकाऽस्ति ।
नन्दनवनकल्पतरौ हि कथा एता आबहोः कालात् प्रकाश्यन्त एवेति वाचकास्ताभिः भृशं परिचिताः सन्ति ।
७५
Page #87
--------------------------------------------------------------------------
________________
पाइयविन्नाणकहा
आ. विजयकस्तूरसूरीश्वराः
(१) दाणम्मि विक्कमाइच्चभूवइणो कहा अह पुणो वि दीवव्व कन्नाकुंडलं आभासिऊणं जोगी कहं कहेइ - धणरहनयरम्मि बलदत्तसेट्ठिणो दुहा रूववई नाम सुआ होत्था । सा य पियर-मायर-भायर-माउलेहिं पिहं पिहं वराणं दिण्णा । अह विवाहटुं समागए चउरो वि वरे मिहं विवयंते विलोइऊण मम निमित्तं अहो ! महंतो कलहो त्ति झाइत्ता सा जीवंती एव अग्गिम्मि पडिऊण भस्सीभूया । तइया ताणं एगो तीए समं अग्गिम्मि पविट्ठो, बीओ उ मसाणम्मि भूमिघरं किच्चा ठासी । तइओ उ भिक्खायरो होऊण भिक्खाए लद्धंसं२ चियाइ उवरिं मोत्तूणं सेसं सयं खाएइ ।
चउत्थो उ तीए हड्डाई घेत्तूणं गंगं गच्छंतो पहम्मि समागयम्मि महाणंदपुरम्मि भिक्खटुं पविट्ठो माणदत्तसेट्ठिणो गिहम्मि गओ । तइया पइव्वयं कमलसिरिनामं तस्स भज्जं भिक्खादाणम्मि अंतरायं कुणंतं अईव रुवंतं नियं बालं चुल्हीवन्हिम्मि पक्खिविऊणं भिक्खं दाउं उवट्ठियं सो वएइ – 'हे मायर ! मम निमित्तं बालहच्चा जाया तेण इमं भिक्खं न गिहिस्सं' ति निसेहं किच्चा पडिनियत्ते तम्मि सा अमियसिंचणेण तं बालं जीवाविऊणं पुणो तस्स भिक्खं दाउं उवट्ठिया । तेण कहिया सा – 'हे मायर! एयस्स अमियरसस्स अंसं मम दाही' । इअ अब्भत्थियाए तीए दिण्णेण अमियरसेण सद्धिं तहिं समागओ सो तं कण्णं जीवावित्था तीए सद्धिं च जो अग्गिम्मि पडिओ सो वि जीविओ होत्था ।
अह हे कुंडल ! तीए जीवियाए तयटुं मिहं चउण्हं पि कलहं कुणंताणं ताणं मज्झम्मि कास इमा पत्ती ? इअ जोगिणा अभिहिए तं रायकण्णं जंपिउं उसुगेण कुंडलब्भंतरसंठिएण वेयालेण वुत्तं जीवियदाउणो पत्ती हवइ । इअ भिसं असमंजसं भणियं सोच्चा संजायरोसा वीसरियनियपइण्णा रायपुत्ती - रे पावकुंडल ! मा मुसं वयाहि त्ति – बाढसरेण जंपित्था । बीयवारं रायसुआ जंपिय त्ति सो जोगी ढक्काए पहारं दावित्था।
हे जोगिंद ! कास एसा पत्ती ? तह य तयन्नेहिं च को संबंधो? - इअ कुंडलेण वुत्ते सो जोगी
१. पृथक् पृथक् । २. लब्धांशम् ॥
७६
Page #88
--------------------------------------------------------------------------
________________
वएइ - अमियरसेण जो जीवियदायगो सो पिआ, चियामज्झाओ सहुत्थिओ सो भाया, चियत्थाणरक्खगो सो दासो, भिक्खालद्धंसेण भोयणवसणाइदाया पिओ, वत्थलंकारभोयणाइदाणं हि पिययमाहीणं ति जोगिणा कहिए दुवारं अहं एएण समं जंपिया, वारदुगं अवसीसइ इअ विसेसेण सा मउणं घेत्तूणं संठिया।
(२) विक्कमाइच्चभूवइणो कहा अह पुणो वि दीवव्व कन्नाहारं उद्दिसित्ता जोगी कहं साहेइ, तहा हि - नरसारम्मि नयरे नरवालस्स रण्णो पुण्णवालो नाम सुओ आसी । तहिं च पुरोहिय-सुत्तहार-सुवण्णगार-कुविंदाणं बुद्धिसार-गुणसाररूवसार-धणसारनामा पुत्ता रायपुत्तस्स वयंसा होत्था ।
___एगया पिउणो निद्देसेण देसचागं विहेउकामेण पुण्णवालेण चउरो वि ते पुत्ता पुट्ठा कहिंसु - अम्हे देहच्छाहि व्व तुमं न चयामो । इअ तेहिं सहिओ सो नियपुराओ निग्गओ कमेण गहणं वणं पत्तो ।
तहिं तेसुं चउसु कमेण जामिगेसुं रायसुओ सुवित्था । पढमे पहरे गुणसारो सिरिखंडखंडमई सव्वावयवसोहिरं सुररमणि व्व रमणिज्जं एगं पुत्तलिगं निम्मेऊण पसुत्ते बिइयपहरम्मि धणसारो उत्थी। तम्मि वि जहोइयचीवरुत्तरिज्जाइवत्थाई परिहाविऊण सुत्ते, तइयपहरम्मि रूवसारो उत्थिओ । तम्मि वि मणिसुवण्णाइ-भूसणेहिं तं अलंकरित्ता सुत्ते, चउत्थे पहरे बुद्धिसारो उत्थित्था । तेण वि मंताकड्डिअस्स भगवओ आइच्चस्स पयोगेण जीवियाए तीए पभायं संजायं ।
__ हे हार ! जीवणजुअं तं विलोइत्ता नियं नियं किच्चं पुण्णवालस्स पुरओ निवेइत्ता तयटुं मिहं कलहं कुणंताणं तेसिं मज्झे कास एसा पत्ती ? इअ जोगिणा भणिए तं रायकण्णं जंपिउं ऊसुगेण हारतट्ठिएण वेयालेण 'जीवियदाउणो पत्ती' इअ अच्चंतं असमंजसं कहियं निसमिऊण जायासूया पुणो वीसरियनियनिण्णया रायाकण्णा – रे पावहार ! 'मा मुसं भासाहि' त्ति बाढसरेण भणित्था । 'तइयवारं रायकन्ना जंपिया' इअ जोगी ढक्काए पहारं दावित्था ।
हे जोगिंद ! 'कास इमा रोहिणी । तीए तेहिं च को संबंधो ? त्ति हारेण पुढे, जीवावगो पिआ, पुत्तलिगाए निम्माया माया, भूसणदाया माउलो, वत्थदाया पिओ वियाणियव्वो । जओ नग्गं रमणि पई एव पिहेइ । इअ जोगिणा अभिहिए वारत्तयं हं अणेण भासिया, एक्को चिय वारो अवसिस्सइ त्ति विसेसेण मउणपरा चिट्ठीअ ।
७७
Page #89
--------------------------------------------------------------------------
________________
(३) विक्कमाइच्चभूवइणो कहा अह पुणो वि दीवव्व कन्नाकंचुगं उद्दिसिऊण जोगी कहं साहेइ – तहाहि हरिचंदपुरे हरिसेणनामा राया होत्था । तेण एगया संकराभिक्खो विप्पो चोरिक्केण घेत्तूणं हणिज्जमाणो वएइ – हे नरिंद ! 'कुमारत्तणस्स' मरणे न सग्गगई' इअ सुई सुणिज्जइ । 'तेण मम जंघतग्गय-रयणपंचगं वियरिऊण कीए वि विप्पपुत्तीए मं उव्वाहिऊण पच्छा मं मारिज्जसुत्ति विप्पविण्णत्तेण रण्णा रयणपंचगदाणपुव्वगं एगस्स विप्पस्स पियमईनामकण्णं उव्वाहित्ता स हओ ।
अह मयम्मि भत्तारम्मि सइरिणी संजाया सा कम्हा वि पुरिसाओ जायं पुत्तं नियनाममुदंकियं काऊणं पुरस्स बाहिरं तं उज्झित्था । अह धम्मनामेण कुम्भयारेण सो बालो पुत्तत्तणेण वड्डिओ। अण्णया सायंतणम्मि मट्टियाखणिसमीवम्मि रूवरमणिज्जो एसो एगागी भमंतो हरिसेणनिवेण दिट्ठो । 'निद्धणिओ एसो मम पुत्तो होज्ज' त्ति घेत्तूणं रण्णा रण्णीए समप्पिओ । मयम्मि य रायम्मि सो रणसिंहो नाम राया जाओ । अन्नया सद्धदाणावसरे गंगं गंतूणं पिंडं दाउं उज्जए तम्मि तित्थपहावाओ चउरो करा जुगवं पिंडगहणाय गंगाजलाओ बाहिरं निस्सरिआ। एयं कोउगं विलोइऊण विम्हिएण तेण सवहपुव्वं पुट्ठा रण्णी जहाजायं कहित्था ।
__ अह मट्टिगाखाणीए वियाणियसव्वतस्सरूवेण राइणा मयपइगा सा कुंभयारपत्ती पुट्ठा जहजायं निवेइत्ता नामंकियं तं मुद्दिगं दासी । मुद्दिगक्खराओ अवगयवट्टामूलेण रण्णा भणियाए तीए माहणीए वि सच्चे अभिहिए राया गंगं गंतूणं - मम चउरो पियरा संति । तत्थ जो पिंडाहिगारी सो करं धरेउ - इत्थं कहित्था । तइया, हे कंचुग ! ताणं मज्झे कास करो पिंडटुं पगुणो होज्ज ? त्ति जोगिणा भणिए तं जंपिउं उस्सुगेण कंचुगब्भंतरट्ठिएण वेयालेण रण्णो कहियं - जारस्स करो पिंडं पावेइ, जओ तस्स बीएण जणियत्तणाओ।
इत्थं अच्चत्थं अघडतं भणियं सोच्चा जायरोसा वीसरियनियपइण्णा सा रायपुत्ती – रे पावकंचुग ! 'मा मुसं वएज्जसु' इअ बाढसरेण अकहिंसु । चउत्थवारं रायपुत्ती जंपिया इअ जोगी ढक्काए पहारं दावित्था । हे जोगिंद ! कास करो पिंडं लहीअ? इअ कंचुगेण वुत्ते जोगी वयासी - हे वेयाल ! चोरविप्पस्स करो पिंडं पावेइ, जओ तम्मि चेव मयम्मि सा माहणी रंडा जाया, इइ चउत्थी कहा ।
___अह पहाए जाए हे जोगिंद ! अहं तुम्ह किंकरी तुमं च मे सामी इअ वयंतीए वियाणियवुत्तंतो तीए रायकण्णाए पिआ तहिं आगंतूणं तं जोगिं पणमिऊण पुरओ संठिओ । विक्कमाइच्चो नरिंदो वि ससरूवं पयडीकाउणं जहत्थियं च निवेइऊणं ते रायाइपुत्ते मोयावित्ता अविवाहियाए तीए जुओ नियं पुरि समागओ । चउत्थी कहा समत्ता ।
अह रायम्मि भित्तीए अंतरम्मि ठिए रायसहाए चित्तं कुणंतं चित्तकलागव्विटुं एगं चित्तगरं अवरो १. कुमारत्वस्य ॥ २. श्रद्धादानावसरे ॥
७८
Page #90
--------------------------------------------------------------------------
________________
चित्तगरो वएइ - हे मित्त ! किं चित्तकलाहंकारं कुणेसि ? किं चित्तकलारंजिओ राया तुम्ह अज्ज आणीयं अवाइणि रायकन्नं दाहिइ ? इअ समायण्णित्ता दाणवीरो विक्कमाइच्चो तस्स चित्तकारिणो तं रायकण्णं दाऊणं तं चित्तगरं देसाहिवई कासी । एवं दाणिणो किंपि अदिज्जं न होज्जा । उवएसो -
विक्कमाइच्चभूवस्स, परदुक्खविणासिणो ।
कहं सोच्चा तहा तुम्हे, दाणे जाएज्ज सव्वया ॥ एवं 'दाणिणो किं पि अदेयं न सिया' इह विक्कमाइच्चभूवइस्स
कहा समत्ता ॥
- विक्कमचरित्ताओ कहारयणायराओ य ।
(४) दहलाि पडिकूलम्मि दुकखपरंपरा हवई' इह पुण्फवईए कहा
दइव्वे पडिकूलम्मि, होइ दुक्खपरंपरा ।
इह पुप्फवईनायं, भववेरग्गकारणं ॥ वाराणसीए नयरीए धणदत्तस्स सेट्ठिणो पुप्फवई नाम भज्जा आसी । तीए य कुबेरसेणो पुत्तो होत्था । एगया तत्थ नयरम्मि सिंहसूरस्स पल्लीवइस्स धाडी पडिया । तइया सा पुप्फवई पल्लीवइणा गहीया भज्जाभावेण य रक्खिया । अह धणदत्तो तीए सुद्धि कुणंतो पल्लीमज्झे आगंतूणं ण्हाविअस्स घरम्मि ठाइत्ता सपियं च तत्थ नच्चा ण्हावियभज्जं तीए समीवम्मि पेसित्था । सा वि नियप्पियं आगयं वियाणित्ता कालिगादेवीमंदिरम्मि चउद्दसीए राईए अहं आगच्छिस्सं त्ति संकेयं पहावियभज्जादुवारेण नियप्पियं जाणवेसी।
_ 'महई मह पीला नियट्टिया अत्थि'त्ति कालिगाए पूअं चउद्दसीरयणीए करिस्सं ति दंभेण पल्लीवइजुत्ता सा तर्हि आगया पल्लीवई असिणा निहणित्ता देवकुलम्मि पविठ्ठा । तहिं सपई दइव्वदोसेण सप्पदटुं पासित्ता तस्स तुरंगमं आरोहिऊण राईए च्चिय तओ निग्गया । पहायम्मि य पहम्मि चोरेहिं सव्वं घेत्तूणं खंडायणनयरम्मि सा कामरूवाए वेसाए विक्किणिआ ।
एगया रूवजोव्वणवई सा वेसाकम्मं कुणंती तत्थ आगएण कुबेरसेणेण नियपुत्तेण सह संभोगं विहेसी । रहंसि तीए पुढेण तेण मायरपियरनामाइनियवुत्तंते कहिए - हा ! पावाए मए सुयसंगो विहिओ त्ति विसायं आवण्णा सा वेसावुदेण वारिज्जमाणा जीवंती चेव चियाए पविट्ठा । तइया य दइव्ववसाओ समागएण उवरियणेण नईपूरेण सा चिया वाहिया । अह महंतम्मि कट्ठम्मि ठिआ तरंती जंती सा सारणनामेणं आहीरेण निक्कासित्ता भारियत्तणेण रक्खिया ।
एगया गोवकुलसमुइयकंबलपमुहवेसवंती सा तक्कं विक्केउं महुराए नयरीए गया । तहिं
७९
Page #91
--------------------------------------------------------------------------
________________
विवणिमज्झम्मि रायपुत्ततुरंगमेण हया सा भूमीए पडिया । अह उट्ठिया सा भग्गभायणा पडिए वि तक्के विसेसओ विम्हियमुहा तयणुवलक्खणपरेण एगेण पुरिसेण 'हे सुंदरि ! पडियं पि तक्कं न सोएसि तं किं' ति ? पुट्ठा । तं अणुवलक्खमाणी सा नियं सरूवं कहित्था । जं नरिंदं हंतूणं, सप्पदटुं पई पेक्खिऊण देसंतरम्मि विहिवसाओ गणिगा हं जाया । तओ पुत्तेण सद्धि संगम विहेऊण चियाए पविट्ठा, अहुणा गोवरोहिणी जाया, अहं कहं अज्ज तक्कं सोएमि । वुत्तं च -
हच्चा निवं पइमवेक्ख भुयंगदटुं, देसंतरे विहिवसा गणिग म्हि जाया । पुत्तस्स संगमहिगम्म चियं पविठ्ठा,
सोएमि गोवगिहिणी कहमज्ज तक्कं ॥ इअ सोच्चा नियसरूवं च निवेइऊण तेणावि कुबेरसेणेण तप्पुत्तेण सा संजईणं पासम्मि समाणीआ। तओ सा पुष्पवई तीए उवएससवणेण संजायवेरग्गा दिक्खं गिण्हित्था । आलोइयासुहकम्मविवागा सा विहियविविहतवकम्मा सग्गलोगे समुप्पण्णा, कमेण महाविदेहम्मि सिद्धि पाविहिइ ।
पुष्फवईइ दिद्रुतं, कम्मविवागदंसगं ।। सोच्चा तह विहेयव्वं, जह दुक्खं न तारिसं ॥
एवं दुक्खपरंपराए पुष्फवईए कहा समत्ता ॥
- विक्कमचरित्ताओ कहारयणयराओ य ।
(५) को महंतयमो ? इह हरि-हर-बम्हदेवाणं कहा तिलोगगयदेवाणं, गुणुत्तमवियारणे ।
को हि महत्तमो देवो, वुत्तं चेह नियंसणं ॥ हरि-हर-बम्हाणं एगया विवाओ संजाओ - अम्हाणं मज्झम्मि को महंतयमो अत्थि ? बम्हा वएइ - जयम्मि सव्वपयत्थसमुप्पत्तिकारगाओ अहमेव । हरी कहेइ – वीसजंतुपालणभावाओ अहं चिय, अण्णह जगजंतुणो न जीवेज्जा । हरो साहेइ - पावाणं वुड्डीए जगसंहारकरणे मम सत्ती अत्थि, तेण महंतो हं । एवं एएसिं विवाए संजाए बम्हरिसिणा कहियं – भिगुरिसिसमीवम्मि अस्स निण्णयं करावेमो। एयम्मि महेसो संमओ संजाओ । किंतु विण्हू संमओ न जाओ, जओ अम्हासु विज्जमाणेसु सो रिसी जया अम्हाणं आहारेण जीवइ, तया सो किं निण्णयं काही ? इअ कहित्ता सो सह न गओ ।
१. तदनुपलक्षणपरेण ॥
Page #92
--------------------------------------------------------------------------
________________
महेसो बम्हदेवो य तस्स समीवम्मि गंतूणं सव्वं च वुत्तंतं कहिऊण अम्हाणं को महत्तमो अत्थि ? त्ति पण्हो पुच्छिओ । भिगुरिसिणा वुत्तं - अम्हे विण्हुपासम्मि जाएमो, तहि तुम्हाणं निण्णयं करिस्सामि। ते सव्वे विण्हुसहाए समुवागया, तत्थ समागए ते दट्ठणं सहासंठिआ सव्वे देवा उत्थाय ताणं सम्माणं कुणेइरे । किंतु सो विण्हुदेवो नियट्ठाणाओ न उट्ठिओ ।
एवं अविणयपरं तं पासित्ता उप्पन्नकोहो सो भिगुरिसी तं उवगंतूणं तस्स उरंसि लत्ताए पहरेइ । पहरिज्जमाणो वि सो कोवरहिओ सहसा उट्ठिऊण 'तुम्हाणं पायम्मि बाहा न संजाया' इअ वोत्तूणं तस्स पायं संवाहिउं लग्गो । तओ सहणया-विणम्मया-खमणपरं तं दट्ठणं भिगुणा वुत्तं एसो विण्हू सव्वेसिं देवाणं महत्तमो अत्थि । जओ जम्मि सहणया-विणम्मया-खमय त्ति गुणा हवेइरे सो जगम्मि पुरिसुत्तमो मण्णियव्वो ॥ उवएसो -
हरि-हराइ-देवेसु, नच्चा जं गुणभूसि । ताण गुणाण पत्तीए, उज्जमेह, दिणे दिणे ॥ 'को महंतयमो' इह हरिहरबम्हदेवाणं
कहा समत्ता ॥
गुज्जरभासाकहाए
८१
Page #93
--------------------------------------------------------------------------
________________
FinETHIMical:
विवेचनका. યdય વિનયનરમ્રવિણી
अभिधानचिन्तामणिनाममाला कलिकालसर्वज्ञश्रीहेमचन्द्राचार्येण विरचिता अभिधानचिन्तामणिनाममाला (नामानुशासनम्) पूज्याचार्यवर्यश्रीविजयकस्तूरसूरीश्वरैः स्वयं गूर्जरभाषया निबद्धया चन्द्रोदया-वृत्त्या समलङ्कृता अभिधानबीजकरूप-विषयानुक्रमेण च सहिता प्रकाशिता । एषा च नाममाला संस्कृतभाषाविदां जिज्ञासूनां च कृते भृशमुपयोगिनी वर्तते ।
Page #94
--------------------------------------------------------------------------
________________
m
Page #95
--------------------------------------------------------------------------
________________
पुस्तक-समीक्षा
१. नागराजशतकत्रयी (निन्दास्तुतिशतक-अर्थान्तरन्यासशतक-दृष्टान्तशतकानि)
रचयिता विद्वान् डॉ. एच्. वि. नागराजराव्, मैसूरू प्रकाशकः सुधर्मा प्रकाशनम्, मैसूरु, २०१८
#561, 2nd Ramachandra Agrahara,
Mysore-570004. Phone: 0821-2442835 पृष्ठनि ६०+४ मूल्यम् रू. ५०/
विद्वन्मूर्धन्यस्य काव्य-साहित्यनिष्णातस्य डॉ. एच. वि. नागराजराव्महोदयस्य नामतो नन्दनवनकल्पतरोर्वाचकाः सर्वथा परिचिताः सन्ति । तस्य संस्कृतभाषा-साहित्यसेवा संस्कृतज्ञैर्नितरां श्लाघ्यते । नन्दनवनकल्पतरुरपि तदीयसाहित्यप्रकाशनेन समृद्धो जातोऽस्ति । गतेषु वर्षेषु तेन स्वीयकाव्यप्रतिभोल्लासेन बहूनि शतकानि विरचितानि येभ्यः कानिचित्तु नन्दनवनकल्पतरावपि प्रकाशितानि । तेषां शतकानां मध्यात् एतानि त्रीणि शतकानि सम्मेल्य लघुपुस्तकरूपेण प्रकाशितानि सन्ति इतीदं संस्कृतसाहित्यास्वादिनां कृते महत् सौभाग्यम् ।
प्रत्येकं शतकं कवेः काव्यनैपुण्यं तु प्रदर्शयत्येव, सहैव चिरस्थायिनं साहित्यरसास्वादं कारयति, बोधं चाऽपि वर्धयति । व्याकरणालङ्कार-काव्यतत्त्वादि-ज्ञातॄणां कृते इमानि शतकानि महोत्सवस्वरूपाणि, तदध्ययनकर्तृणां कृते तु रसप्रदपाठस्वरूपाणि ।
एतादृशां शतकानां रचयितारं विद्वद्वर्यं श्रीनागराजराव्-महोदयं सादरं सोल्लासं चाऽभिनन्दति नन्दनवनकल्पतरुपरिवारः ॥
८४
Page #96
--------------------------------------------------------------------------
________________
२. गोगीतम् (वैद्युतिकं पुस्तकम् [e-book]) (कन्नडभाषया रचिताया "गोविन हाडु" इति रचनाया समच्छान्दसिको मुक्तः संस्कृतानुवादः)
रचयिता विद्वान् डॉ. एस्. जगन्नाथः, मैसूरू uchyrch: Shankarasanskritebooks
गोगीतमिदं कन्नडभाषया केनचिदज्ञातकविना रचितस्य "गोविन हाडु" (गोर्गीतम्) - इति कृतेः कथावस्त्ववलम्ब्य तत्र तत्र च कानिचिदावश्यकानि परिवर्तनानि विधाय विदुषा श्रीएस्.जगन्नाथमहोदयेन विहितः संस्कृतानुवादः । मूलकृतौ यच्छन्द उपयुक्तं तदेव च्छन्दोऽनुवादकळ संस्कृतानुवादेऽपि प्रयुक्तमिति तु विशेषः ।
अस्यां कृतौ, पुण्यकोटिनाम्नी गौः अर्बुदनामकस्य व्याघ्रस्य क्षुधां निवारयितुं स्वप्राणान् हातुमुद्यता, तदा "ईदृशीं परोपकारकर्ती गां मारयितुमिष्टवानहम्" इति पश्चात्तापतप्तो व्याघ्रः स आत्मघातं करोति - इति कथावस्तु ।
मूलतोऽपि संशोधकात्मना श्रीजगन्नाथमहोदयेनाऽस्याः कृतेर्मूलरचनां तादृशीरन्याश्च रचना आश्रित्य सुविस्तृतं तुलनात्मकमध्ययनं कृतमस्ति प्रस्तावनायाम् । अतः कवित्वस्याऽनुवादकत्वस्य, तथा संशोधकत्वस्येति त्रयाणां तत्त्वानां संमीलनमत्र पुस्तके सहैव प्राप्यते - इत्ययं प्रमोदप्रदो विषयो जिज्ञासूनामभ्यासरतानां च कृते ।
__कृतिश्चेयं साक्षात्पुस्तकरूपेणाऽप्रकाश्य वैद्युतिकपुस्तक(e-book)रूपेण प्रकाशितेत्यपि च सर्वथोचितमेव पर्यावरणदृष्ट्या । यतः पुस्तके उपयुज्यमानः कागदोऽपि वृक्षाणां विनाशादेव प्राप्यते । अतो यथाशक्ति तद्रक्षणार्थं प्रयतितव्यमेवाऽस्माभिरिति भावनां मनसिकृत्यैव प्रवृत्तस्य श्रीएस्.जगन्नाथमहोदयस्य प्रयासोऽयं सर्वथा स्तुत्योऽनुकरणार्हश्च ।
Page #97
--------------------------------------------------------------------------
________________
३. अन्वीक्षा (विद्वद्वर्यस्य उमाकान्तभट्टमहोदयस्याऽभिनन्दनग्रन्थः)
सम्पादकः डा. अडिगोपाह्वो मधुसूदन शर्मा प्रकाशिका विद्वदभिनन्दनसमितिः
Dikshit Compound, 1st Floor, Nr. Adimadhavaraya Temple,
Bellur, Nagamangala (Mandya Dis.)-571418 पृष्ठानि ३०४+८ मूल्यम् रू. ३००/
विद्वद्वर्यः श्रीउमाकान्तभट्टमहोदयो दाक्षिणात्ये प्रदेशे मूर्धन्यो वरिष्ठश्च विद्वान् । प्राचीन-नव्यन्यायशास्त्रपारङ्गतोऽप्ययं विद्वान् काव्यसाहित्ययोरप्यधिकारी तथा कन्नडभाषासाहित्ये कलारङ्गे यक्षगानेऽपि च प्रसिद्धोऽस्ति । प्राचीनन्याये कृतभूरिपरिश्रमोऽयं विद्वान् तच्छास्त्राध्यापने प्रवृत्तस्तादृशानां विदुषामन्तिम इव प्रतिभाति । संस्कृतमहाविद्यालये त्रयस्त्रिंशद्वर्षाणि यावत् शास्त्रीयाध्यापनं कृत्वा निवृत्तोऽयं विद्वान् कुशाग्रमतिः प्रतिभावान् प्रगल्भश्च प्रवचनकारोऽप्यस्ति । तस्य तलस्पर्शिज्ञानेन हृदयस्पर्शिनिरूपणेन च विद्वज्जना रसिकाश्च भावका सर्वथा प्रमुदिताः प्रसन्नाश्च भवन्ति । एतादृशः सन्नपि स छन्दस्वतीनाम्न्या अद्वितीयाया षाण्मासिक्याः पद्यमय्याः संस्कृतपत्रिकायाः सम्पादकोऽप्यस्ति ।।
एतादृशस्य विद्वन्मूर्धन्यस्य भट्टमहोदयस्याऽभिनन्दनार्थं तच्छिष्यैः सुहृद्भिश्चाऽयमभिनन्दनग्रन्थः प्रकाशितोऽस्ति । अत्र ग्रन्थे भट्टवर्यस्य व्यक्तित्वं प्रकाशयन्तः केचन लेखाः सन्ति, केचन तु न्यायवैशेषिकदर्शनयोः सूक्ष्मतत्त्वानि निरूपयन्तो लेखाः सन्ति, केचन च साहित्यरसास्वादकराः सन्ति । सर्वेऽपि लेखाः वरिष्ठैर्विश्रुतैश्च विद्वद्भिरधिकारिजनैश्चाऽऽलिखिताः सन्ति । अतो ग्रन्थोऽयं सर्वथाऽऽदेयः सङ्ग्राह्यश्च जातोऽस्ति जिज्ञासूनामभ्यासिनां च कृते ।
Page #98
--------------------------------------------------------------------------
________________
पर्यटनम्
अणहिल्लपुरपत्तन(पाटण)नगरस्य वैशिष्ट्यम्
सा. हंसलेखाश्रीः आर्यावर्त इति सञ्जया सञ्जिताऽस्माकं जन्मभूमिः । अत् = प्रकृतमाचरितुं = यः कर्तव्यमाचरितुमकर्तव्यमनाचरितुं च योग्यः स आर्यः । ततो योऽर्यति = गच्छति पापाद् दूरं स आर्यः । आर्या वर्तन्ते यत्र स आर्यावर्तः ।
एतस्मिन्नार्यावर्ते संस्कृतीनां सभ्यतानां संस्काराणां चाऽऽधान-संवर्धन-संरक्षण-कर्तृणि विद्यमानानि नैकानि नगराण्यसन् । तेषु चाऽन्यतमदस्ति अणहिल्लपुरपत्तनम् ।
अस्ति स्वस्तिकवद् भूमेर्धर्मागारं नयास्पदम् ।।
पुरं श्रिया सदाऽऽश्लिष्टं नाम्नाऽणहिल्लपाटकम् ॥
अद्याऽपि यस्मिन् पुरे स्वस्तिकरैः शताधिकैजिनालयध्वजैः पवित्रितस्य वायोः स्पर्शेन मनः शाम्यति, तस्य पत्तनपुरस्याऽपूर्व इतिहासोऽतीवाऽवधाना) रोचकश्चाऽस्ति ।
____अस्य नगरस्य स्थापनामुहूर्तस्य लग्नपत्रिकैवं सूचयति यद् भूमितले प्राकृतिक्याऽऽपदा नष्टेष्वप्यनेकेषु नगरेषु पत्तनपुरस्य स्थिरता दीर्घकालिनी भविष्यति ।
अस्य दीर्घकालभाविनः पत्तनपुरस्य स्थापना वैक्रमे ८०२मिते संवत्सरे वैशाख-शुक्ल-तृतीयायां सोमवासरे, 'अणहिल्ल' नाम्ना गोपालकेन दर्शितायां भूमौ (वर्तमाने लाखाराम-नाम्नि स्थले), साऽपि च नागेन्द्रगच्छीयजैनाचार्यवर्याणां श्रीशीलगुणसूरीश्वराणामाशीर्वचोभिर्जाता ।
जैनमन्त्रोच्चार-पूर्वकं स्थापितस्याऽस्य नगरस्याऽभिधानं, भूमिगवेषकस्याऽणहिल्ल-गोपालकस्य नाम्ना अणहिल्लपाटकमिति स्थापितम् ।
यदा नगरमावासयितुमणहिल्लेन सह राजा वनराज-चापोत्कटो भूमिगवेषणां करोति स्म, तदैकत्रैकः शशकः शृगालं पराभवन् दृष्टः । इदं दृश्यं दृष्ट्वा ताभ्यां निर्णीतं यदियं भूमिः शौर्यवती, अतोऽत्रैव नगरं वासयितव्यम् ।
८७
Page #99
--------------------------------------------------------------------------
________________
असौ साङ्केतिको निर्णयः कियान् समीचीन आसीदित्येतद् ज्ञापयति, पुष्टीकरोति च वर्तमानकालीनं (अद्यतन) B.B.C. - News - इत्यस्य संशोधनम् । यथा -
"विश्वस्य कामपि दिशं पश्येम, पत्तनपुरसदृशं नगरं कुत्राऽपि नाऽस्ति । अत्रत्यैर्भू-वायु-जलैर्यः संवधितो जनः, स शताधिकमायुः सुखेन लभते । अस्यां भूमौ यानि खनिजानि सन्ति, तानि मानवस्य जीवने नवीनमुत्साहं जनयन्ति, देहस्य वार्धक्यं जीर्णत्वं च रुन्धन्ति, दीर्घकालं यावद् यौवनं स्थिरीकुर्वन्ति च । अत्रत्यं वातावरणं ह्यस्थिजालं श्वसनतन्त्रं च दृढीकरोति, रक्तं तनूकरोति श्वास-क्षयादिरोगेभ्यो रक्षति च । अत्रत्यस्य राज्या वापिका (राणकी वाव) नाम्ना ऐतिहासिकस्य स्थलस्य परिसरे द्वित्रमासपर्यन्तं वासेनाऽपगच्छन्ति बहवो रोगाः । वापिकाया जलं हि श्वासकासौषधतुल्यमेव' ।
ईदृशस्य सौभाग्यवतो गुर्जरराष्ट्रस्य प्रधाननगरस्य पत्तनपुरस्य राजसिंहासने वैक्रमीये ८२१मिते संवत्सरे वैशाखशुक्लतृतीयादिने सोमवासरे, श्रीदेवीनाम्न्या जैनश्राविकया कृततिलक ऐदम्प्राथम्येन श्रीवनराजचापोत्कट:(चावडा) राजपदमलङ्कृतवान् ।
___पत्तनपुरमीदृशं भव्यमूर्जस्वि चाऽस्ति । तस्य भूमिः शताधिकैजिनालयैः, अनेकैरप्यन्यैर्देवमन्दिरैमण्डिताऽस्ति, अनेकैः कविवरैर्ग्रन्थसर्जक-विद्यापुरुषैनिजज्ञानरसेन सिक्ताऽस्ति । राज्यधूश्चाऽस्य श्रद्धापूतैः प्रजावत्सलैर्यशस्विभिश्च राजभिरूढाऽस्ति ।
अस्य राज्यस्य सर्वेऽपि राजानः शैवधर्मिणः सन्तोऽपि सर्वधर्मसहिष्णुतयाऽमितेन द्रव्यव्ययेन सर्वधर्मदेवालयान् निर्मापितवन्तः सर्वमतीयान् गुरून् पूजितवन्तश्च । केवलं जैनदेवालयानेवाऽधिकृत्य विचारयामस्तदाऽपि तेषां राज्ञामुदारदृष्टिरस्माकं हृदयमाह्लादयति ।
यथा किल राज्ञा वनराजेन ८०२ प्रमिते वैक्रमे वर्षे वनराजविहारः इति नाम्ना पार्श्वनाथजिनालयो निर्मापितो योऽद्यत्वे पञ्चासरापार्श्वनाथजिनालय इति नाम्ना प्रसिद्धोऽस्ति । ततो वैक्रमे ९४२तमे वत्सरे मूलराजेन मूलराजवसतिरित्यभिधं जिनमन्दिरं कारितम् । तदनन्तरं ९९८तमे वर्षे राज्यारूढेन चामुण्डराजेन नैकानि जिनभवनानि निर्मापितानि । ततस्तु १०८८तमे संवति विमलमन्त्रिणाऽर्बुदगिरौ देवकुलपाटके जगद्विश्रुतकलाकलापकलितं विमलवसतिरिति जिनसद्म कारितम् । तत्पश्चात् ११४६तमे वर्षे मुञ्जालमन्त्रिणा मुञ्जालवसतिः ११५०तमे च वर्षे शान्तनुमन्त्रिणा शान्तनुवसतिरित्याख्ये जिनमन्दिरे निर्मापिते । ततश्च त्रयोदशशतस्याऽऽरम्भे राजराजेश्वरेण परमार्हतबिरुदधारिणा महाराजकुमारपालेन कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्य सदुपदेशं शिरस्यवधार्य तारणगिरि(तारंगा)प्रमुखेषु विविधस्थलेषु शतशो जिनालया निर्मापिताः ।
अपि च, कुमारपालमहाराजस्य त्वहिंसापालने तथाऽभिरुचिरासीद् यद् अष्टादशसु देशेषु विस्तृते तत्साभ्राज्ये मृ-हन्-वध्-हिंस्-घात्-प्रभृतीनां धातूनां तत्साधितशब्दानां चाऽपि प्रयोगो निषिद्ध आसीत् । यूका-पिपीलिका-कीट-मूषकादीनामपि क्षुद्रजन्तूनां घातका दण्डारे अभवन् । एतस्या जीवदयायाः
८८
Page #100
--------------------------------------------------------------------------
________________
अहिंसायाश्च संस्कारा अद्यत्वेऽपि पत्तननगरजनेषु दरीदृश्यन्ते ।
विद्या-कला-संस्कार-समृद्धि-धर्मपालन-शौर्य-पराक्रम-परोपकार-जीवदयादिगुणैः समृद्धा अस्य नगरस्य नागरिका उदाराः सुकृतनिरताश्चाऽऽसन् ।
नगरमिदं स्थापनादिनादारभ्य षट्शतानि वर्षाणि यावत् तु गूर्जरदेशस्य राजधानी समासीत् । महम्मदगझनी-अल्लाउद्दीनखीलजीप्रभृतिभिश्च म्लेच्छैर्वारं वारमाक्रान्तं भज्यमानं चाऽप्येतन्नगरं पुनः पुनः समुत्थानं प्राप्नोत्, समृद्धिं च पुनः पुनरप्यवाप्नोत्, विद्या-कला-संस्कार-धर्मादीनि तत्त्वानि च नैव कदाऽपि व्यलीयन्ताऽस्मान्नगरात् ।
ततश्चाऽद्यपर्यन्तमपि नगरमेतत् शतशो देवालयैर्मण्डितं, विविधशाखीयैर्विद्यावद्भिः पण्डितैरुपशोभितं प्राचीनस्थापत्यैश्चेतिहासं स्मारयत् राराजतेतराम् । अस्य नगरस्याऽन्यदपि वैशिष्टयमुल्लिख्य विरमामि । पाटण- पटोळु - इति नाम्ना जगद्विख्याता कौशेयमयी पट्टशाटिकाऽद्यत्वेऽप्यत्रस्थैः परम्परागततन्तुवायपरिवारैः प्राचीनपद्धत्यैव निर्मीयन्ते । एकां शाटिकां निर्मातुं प्रायः षण्मासमितः काल आवश्यकः, मूल्यं चाऽस्याः पञ्चषलक्षरूप्यकमितं भवति ।
तदेतादृशं विशिष्टं पत्तननगरमवश्यं दर्शनीयं पर्यटनीयं च वर्तते । तत्रत्यं वातावरणमासेवनीयं वर्तते, तस्य इतिहासश्च पठनीयो वर्तते । यदि भवन्त उत्सुकास्तदाऽवश्यं समागच्छन्तु, स्वागतं भवताम् ।
Page #101
--------------------------------------------------------------------------
________________
कथा
संस्कारप्रपा
मुनिः अक्षयरत्नविजय
(१) जीवनं नाम प्रहेलिका
अस्माकं जीवनं वर्तते विस्मयप्रदम् । कदाचित् तत् प्रतिभासते सुखमयं, किञ्च कदाचित् प्रतिभासते तत् समस्यामयम् । यद्यपि बहुधा तु जीवनस्वरूपं दृश्यते समस्यामयमेव, अत एव प्रायः सर्वे जीवा विपद्ग्रस्ता दृश्यन्तेऽस्मिन् जगति । एका समस्या निराक्रियतां, तावदपरसमस्या उद्गच्छेत् - प्रायः अयमेवाऽस्माकं जीवनपरिचयः । अस्यां वास्तविकतायां वयं किञ्चिदपि परिवर्तितुं नाऽशक्नुमः । तदाऽस्माभिः किं कर्तव्यम् ? यदा समस्याऽऽगच्छति, आपत्तिः प्रभवति तदा वयं समस्यामुक्तेर्मार्गाय प्रयतामहे । किन्तु कदाचिदतियत्नानन्तरमपि समस्याविरामो न भवति तदा वयं नैराश्यं प्राप्नुमः । परं तदा भग्नाशता न भजनीया। अपि तु चिन्तनीयं यत् सर्वसमस्याया निराकरणं तु केनाऽपि न प्राप्तं स्वजीवने । अतो न कर्तव्या ग्लानिः । सर्वदा सुखेनैव स्थातव्यम् । अस्मिन्ननुसन्धानेऽवतरति स्मरणपथे प्रसङ्ग एकः प्रेरणास्पदम् -
कस्यचित् प्रसिद्धगणितज्ञस्येयं कथा । एकदा तस्य गणितज्ञस्य सूनोर्जन्मदिनमासीत् । गणितज्ञः स्वस्य प्रियपुत्रस्य कृते जन्मदिनस्योपहारं क्रेतुं विपण्यां कञ्चिदापणं गतः । तत्र बहव उपहारा दृष्टास्तेन, पश्चादुपहाररूपेण तेनैकस्याः कष्टपूर्णप्रहेलिकायाश्चयनं कृतम् । अस्याः प्रहेलिकायाः किमपि निराकरणं विद्यमानं नाऽसीत् । केवलं क्रीड्यतां समयव्ययश्च क्रियतामित्येव तत्प्रहेलिकाया आशयो वर्तते स्म ।
आपणिकोऽतिविस्मयमनुभूतवान् । विस्मयपूर्णनेत्राभ्यां स निरीक्षितवान् गणितज्ञम्, उक्तवांश्च - "मान्याः ! भवन्तस्तु ख्यातिप्राप्तपण्डितवर्याः सन्ति । भवद्भिस्तु ज्ञातमेव यदस्याः प्रहेलिकायाः किमपि निराकरणं न विद्यते । तथाऽपि भवद्भिरस्याः प्रहेलिकायाश्चयनं क्रियते ?"
"ओम् ।" - गणितज्ञो ब्रूतवान् – “इदमेव तु कारणम् । यतोऽहं प्रहेलिकामिमां मम पुत्राय दातुमिच्छामि । अस्याः प्रहेलिकाया माध्यमतोऽहं ज्ञापयिष्यामि तं यदस्मज्जीवनेऽपि काश्चित् समस्या एतादृश्यः प्रवर्तन्ते, यासां समाधानं बहुप्रयत्नैरपि न प्राप्यतेऽस्माभिरस्याः प्रहेलिकाया इव । अतस्त्वज्जीवने यदि कदाचिदेतादृशः प्रसङ्गः समुपस्थितो भवेत्तदा निराशता उद्विग्नता वा न सेव्या त्वया, अपि तु
Page #102
--------------------------------------------------------------------------
________________
उत्कष्टमयवृत्तमपि स्वीकार्यं मुदा ।"
आपणिकोऽभिभूतो गणितज्ञस्येममुत्तमं विचारबिन्दुं श्रुत्वा । स्वजीवनेऽपि शिक्षामिमामाचरितुं तत्परोऽभूत् सः ।
(२) उत्तमा जीवरक्षा
। अस्मिन् जगति सर्वे जीवा जीवितुं प्रयतन्ते । परमत्यल्पजना अन्येषां सत्त्वानां जीवनपरित्राणाय प्रयतन्ते । यैः स्वजीवनं सम्यग् जीवितुं प्रयस्यते ते सामान्यजनाः सन्ति । परमन्येषां जीवनपरित्राणाय यैः प्रयस्यते ते नितरां श्रेष्ठजनाः सन्ति । अत्र प्रस्तुता कथा प्रसिद्धस्यैतादृशस्य श्रेष्ठजनस्यैव जीवनमुत्तमतया दर्शयति -
भारतजनपदानामासीत् स महान् स्वातन्त्र्यवीरः । तन्नाम महात्मगान्धिवर्यः । प्रत्यहं प्रातराशे महात्मगान्धिवर्यो जलेऽम्लजम्बीररसं क्षिप्त्वा पिबति स्म ।
एकदा दैनिकोपक्रमानुसारं गान्धिवर्यस्य सहचरो महादेवदेसाईवर्यः क्वथिते जलेऽम्लजम्बीररसमक्षिपत् । जलं चाऽनाच्छादितमेव न्यस्यत् । जलादत्युष्णो बाष्प उत्क्षिपति स्म । कानिचित् क्षणानि व्यतीतानि । पश्चाद् गान्धिवर्य आगतः । महादेवदेसाईवर्यः क्वथितजलाम्लजम्बीररसभृतं लघुपिठरं गान्धिवर्याय दत्तवान् । गान्धिवर्यो नीरपात्रं समीपं स्थापितवान् । तत् च निरीक्षितवान् । अद्यापि पात्रं तद् बाष्पसंयुक्तं दृश्यते स्म । अवलोक्येदं गान्धिवर्यो महादेवदेसाईवर्यमुक्तवान् – “भोः ! त्वं क्वथितं जलजम्बीरपात्रमिदमाच्छादयिष्यस्तर्हि बहु समीचीनमभविष्यत् ।"
तदा सरदारवल्लभभाईपटेलवर्योऽपि तत्रैवोपतिष्ठति स्म । गान्धिवर्यस्य वचनं श्रुत्वा तेन प्रतिध्वनितं - "रे ! पञ्चषाणि क्षणानि यावत् क्वथितं जलपात्रमिदं निराच्छादितं स्थितं तस्मिन् कः बाधः ? कतिभिः क्षणैरत्रैवोपविष्टोऽहम् । तत्रान्तरेऽस्मिन् पात्रे किञ्चिदपि न पतितम् ।"
अथ महात्मगान्धिवर्योऽद्भुतमुत्तरमददात् – “मित्र ! जलपात्रे कामं किञ्चिदपि न पतेत् । किन्तु जलादत्युष्णबाष्पो निर्गच्छति । अनेन कारणेन नैके सूक्ष्मजन्तवो मरणोन्मुखा भवितुमर्हन्ति, तत् किमुचितं प्रतिभाति ?" सरदारवल्लभभाईपटेल-महादेवदेसाईवर्यावहोभावान्वितावभवतां श्रुत्वेदमुत्तरमनुत्तमम् ।
कीदृशी प्रशस्यतमाऽहिंसावृत्तिः ???
वस्तुत ईदृशी महती सर्वजीवपरित्राणवृत्तिः सर्वसत्त्वेषु आवश्यक्यस्ति । अत्र स्मरणमिदमुचितं यद् यथास्मज्जीवनं प्रियतममनुभवामो वयं तथाऽन्ये जीवा अपि स्वजीवनमनुभवन्ति प्रियतममेव । अस्मभ्यं न रोचते मरणं, तहि तेभ्योऽपि न रोचते मृत्युः । इतो वयमन्येषां जीवानां जीवनं प्राणविमुक्तं कृत्वा तेभ्यो दुःखं दास्यामस्तर्हि वयमपि भविष्यति काले दुःखमेव प्राप्स्याम इति सत्यमपि नूनमवगन्तव्यम् ।
Page #103
--------------------------------------------------------------------------
________________
अत एव २६००वर्षेभ्यः प्राक् परमात्मना परमकृपापरेण श्रमणभगवन्महावीरेणाऽपि सूक्ष्मजीवदयापरिपालनं प्ररूपितम् । अद्यापि तदनुगामिनो नैके साधवो जनाश्चैतादृशीं जीवरक्षां कुर्वन्ति । आगम्यतां, वयमपि तं महान्तं तीर्थकरमनुगच्छेम, सूक्ष्मजीवरक्षया च जीवनमलङ्कर्याम । एवं च शुभमार्गस्य चयनं कुर्याम ।
(३) सारमयी प्रार्थना
एकदा नगरस्य राजा सचिवं समाहूतवान् सूचितवांश्च – "मन्त्रिवर्य ! वयमद्य कारागृहे बन्दिनः सम्पृणच्मः । बन्दिनाञ्चाऽवस्थाया निरीक्षणं कुर्मः ।"
राजाज्ञां शिरोधृतवानमात्यः । कतिचित्क्षणानन्तरं च नैकै राजसेवकैरमात्यैश्च सह राजा प्रस्थितवान् बन्दिगृहं प्रति । कारागृहं प्राप्य भूपाल आदिशद् रक्षिमुख्यं - "सर्वे कारागृहिण आहूयतामत्र । अहं तान् परिचेतुमिच्छामि ।"
स्तोकसमयेन तस्मिन् विशालकक्षे बन्दिन आगतवन्तः । नृपं च प्रणमन्तः सन्मुखमुपविष्टवन्तस्ते। पश्चात् प्रसन्नमना राजा तान् कथितवान् – “भो मित्राणि ! अद्य प्रमुदितोऽहम् । अतो युष्माकं कष्टेष्वेकतमं दूरीकरिष्यामि । आनुपूर्येण युष्माकं समस्या कथ्यताम् ।"
- क्रमशः सर्वबन्दिभिः स्वपीडा प्रस्तुता । एकः कारागृही कथितवान् - "महाराज ! रात्र्यां सूच्यास्या मशका मां पुष्कलं दशन्ति । अतो मशकहरी वाञ्छाम्यहम् ।"
"अस्मै मशकहरी यच्छ ।" राजा सैनिकमादिशत् । "राजन् ! अहमतिबाष्पमनुभवामि नित्यम् ।" अपरो बन्दी अवदत् । "अस्मै तालवृन्तं(Fan) देयम् ।" नृप आदिष्टवानधिकारिणम् । "अहं स्नानार्थं स्नानगृहं काङ्क्षामि ।" तृतीयोऽपराधी ब्रूतवान् । "अस्मै स्नानगृहस्य सुखं दातव्यम् ।" राज्ञाऽऽदिष्टं पुनः ।
अन्तत एकोऽपराधी समुत्थितवान् राज्ञः समीपं नतशीर्षः स स्थितवान् नम्रगिरा चोक्तवान् - "कृपालो ! अब मम न मशकानां कष्टं वर्तते, न तालवृन्तस्याऽऽवश्यकता वर्तते, न च स्नानगृहस्य समस्या विद्यते । परं मह्यं त्विदं कारागृहमेव न रोचते । इतो ममाऽपराधोऽप्यतिसाधारणोऽस्ति । किञ्च बन्दिगृहान्मुक्तिं प्राप्याऽहं भविष्यति काले शोभनं जीवनं रचयितुं दृढसङ्कल्पोऽस्मि । अतः कारागृहान्मह्यं मुक्तिमर्पयतु भवान् ।"
तस्य नम्रवचनानि नृपस्याऽन्तःकरणमस्पृशन् । राजाऽतः प्रेम्णा सहाऽऽदिष्टवान् - "भोः ! रक्षिमुख्य ! अस्य बन्दिनो बन्धनानि शीघ्रं विसृज, सद्यश्च तस्मै मुक्तिं प्रयच्छ । नूतनजीवनस्याऽवसरोऽस्मै देयः ।"
Page #104
--------------------------------------------------------------------------
________________
राजाज्ञां शिरोधृत्य रक्षिमुख्येनाऽचिरेण स कारागृही बन्दिगृहादमुच्यत ।
इयं लघ्वी कथा प्रबोधयत्यस्मान् यन्महापुरुषस्याऽग्रे नाऽभ्यर्थनीयं कदाऽपि क्षुद्रं द्रव्यम् । तत्पाबें तु सर्वोत्तम एव पदार्थः प्रार्थयितव्यश्चतुर्थबन्दिवत् । वयं परमात्मनः प्रासादं प्रभुदर्शनार्थं यामः, दर्शनं कुर्मः, परमेश्वरं पूजयामः पश्चाच्च प्रार्थनामपि कुर्मः । परम्, अस्माकं प्रार्थना कीदृशी निम्ना वर्तते तद् वयं स्वयमेव जानीमः । परमात्मानः समक्षं वयं केवलं भौतिकेच्छामेव प्रस्तुमः । इतः परमात्माऽस्मभ्यं यत्राऽनन्यं सुखं विद्यते तन्मोक्षपदमपि प्रदातुं शक्नोति । यथा खर्वपतेरर्बुदपतेर्वा पार्श्वे दशरूप्यकाणां याचनाऽनुचिता भवति तथा मोक्षपतेः प्रभोः समक्षमसारस्य संसारसुखस्य याचनाऽपि नूनमनीं भवति । विज्ञाय सत्यमिदमागम्यताम्, अद्यतनदिनाद् वयं कृतसङ्कल्पा भवेम । परमेश्वरस्य सम्मुखं कदाऽपि सांसारिकसुखस्य याचनां न कुर्याम । अपि तु आत्मिकसुखस्य मोक्षस्य सर्वपदार्थसारस्यैव प्रार्थनां कुर्याम ।
(४) अत्रैव स्वर्गः चीनजनपदीयो महाँस्तत्त्वचिन्तकः कन्फ्युसियसः । एकदा कन्फ्युसियसस्य समीपे कश्चित् सेनाधीश आगतः । 'वांगबी' इति तन्नाम । विचारकं शीर्षेण प्रणम्य सेनाधीशोऽयं पृष्टवान् - "महात्मन् ! स्वर्गः कः ? नरकश्च कः?"
अथ कन्फ्युसियसोऽकल्प्यप्रतिक्रियां प्रदत्तवान् । स सेनाधीशाय प्रश्नयोरुत्तरं न दत्तवान्, अपि तु क्रुद्धवान् – “त्वत्सदृशो मूर्खः कथं सैन्ये प्राविशत् ? त्वं तु खड्गधारणमपि न जानासि..."
कन्फ्युसियसस्य तिरस्कारवचनेन सेनाधीशोऽप्यत्यन्तं क्रुद्धोऽभवत् । “मत्सदृशो महान् सेनाधीशः साधुनाऽमुनाऽपमानितः' इति विचार्य स गजितवान् – “साधो ! मौनेन तिष्ठ । अन्यथाऽमुनाऽसिना तव शीर्ष छेत्स्यामि ।"
__ क्रोधेनाऽत्यन्तं कम्पमानः सेनापतिः कन्फ्युसियसेन कथितः - "भ्रातः ! अयं क्रोध एव नरकः कथ्यते ।" इदं श्रुत्वा तत्त्वचिन्तकेन वचनासिना प्रहत इव सेनापतिर्मूढो सञ्जातः । तत्त्वचिन्तकस्य विशिष्टबोधदानशैलीं सोऽवगतवान् । स निजनयनाश्रुभिः कन्फ्युसियसस्य चरणौ प्रक्षालितवान् क्षमां च याचितवान् । तदा कन्फ्युसियसो मार्मिकं बोधितवान् – “महानुभाव ! अयं शमभाव एव स्वर्गः कथ्यते । स्वर्गो नाऽस्त्यन्यत्र, परमत्रैवाऽस्ति । अतस्त्वया नित्यं क्रोधमुक्तं शमभावमयं च जीवनं जीवनीयम् ।"
चीनदेशीयेन तेन सेनापतिना तदा कराञ्जलिः कृता, कन्फ्युसियसस्य पार्वे क्रोधत्यागस्य नियमोऽङ्गीकृतः स्वजीवने च शश्वत् स्वर्गोऽवतारितः ।
किं नाऽनुभूयते यदीदृशं नियमं स्वीकृत्याऽस्माभिः सर्वैरपि स्वजीवनं स्वर्गमयं रचयितव्यं सुखमयं च कर्तव्यमिति ?
९३
Page #105
--------------------------------------------------------------------------
________________
कथा
शाखाच्छेदः
मुनिश्रुताङ्गचन्द्रविजयः कश्चनाऽऽरबस्तानीयो राजा एकस्मै भारतीयाय राज्ञे द्वौ श्येनावुपहाररूपेण दत्तवान् । द्वावपि जात्याऽऽखेटकावास्ताम् । राजा द्वावपि श्येनौ राजकीयाय पक्षिपालकाय शिक्षणार्थं दत्तवान् ।
मासानन्तरं पक्षिपालको राजानं ज्ञापितवान् यद् "अन्यतरः श्येन उड्डयनक्षमो मृगयाकुशलश्च संजातः किन्त्वपरः प्रथमदिनादारभ्याऽद्यपर्यन्तं शाखां त्यक्त्वोड्डयनाय लेशमपि न यतते । मम सर्वे प्रयत्ना निरर्थका जाताः ।"
राजाऽपि साश्चर्यो जातः । स ग्रामान्तरेभ्यो विविधान् पक्षिशास्त्रज्ञानाकारितवान् । नैके पक्षिशास्त्रनिष्णाताः समायाताः । सर्वेऽपि भृशं प्रायतन्त किन्तु शिलायां वृष्टिपात इव न कोऽप्युपायस्तं श्येनमुड्डाययितुमशक्नोत् । सर्वे पक्षिशास्त्रप्रवीणाः श्रान्त्वा निष्फलतां च प्राप्य निर्गताः ।
अन्यदा मलिनवस्त्रयुक्त एकः कृषिक आगतः । स राजानं विज्ञापितवान् यद् “महाराज ! सकृदहमपि यते । भवान् वातायनेन पश्यतु, अहं सम्प्रत्येव श्येनमुड्डयनरतं विदधामि ।"
यद्यपि राजा न व्यश्वसित् तॉपि प्रासादस्य वातायने समुपस्थितः । कृषिकः श्येनस्य निकषा गतः ।
कृषीवलस्य गमनानन्तरमल्पेनैव कालेन राजा विस्मयान्वितो जातः । तेन दृष्टं यद् द्वावपि श्येनौ गगने उच्चैविहरन्तावास्ताम् । 'अपरः श्येनोऽप्युड्डयनरतो जातः' इति ज्ञात्वा स सानन्दः संजातः । कृषीवलमत्राऽऽनेतुं भूपतिर्भूत्यं प्रेषितवान् । कृषीवल आगतो नृपतिना च पृष्टो यद् - "अयि ! कथं त्वयैतादृशश्चमत्कारो विहितः ? अधिमासद्वयं कश्चन शकुनिशास्त्रशिरोमणिरपि यमुड्डाययितुं न शक्तस्तं श्येनं त्वं स्तोककालेनैवोड्डयनक्षम कृतवान् !।'
कृषीवलोऽवदद् यद् - "न किमपि दुष्करं, स श्येनो यस्याः शाखाया उपर्युपविशन्नासीत् तां शाखामेवाऽहं छिन्नवान् !" ।
___ ईश्वरेणाऽस्मभ्यं सर्वेभ्योऽप्युड्डयनार्थममर्यादाः शक्तयो दत्ताः, किन्तु वयं केवलं सुरक्षारूपां सुखशीलतारूपां सरलतारूपां वा शाखामारुह्याऽखिलजीवनं यापयामः । आशंसेम यदस्मदीयजीवनेऽप्येतादृशः कश्चन शाखाया विमोचकः कृषिकः प्रविशेत् ।
(मूलम् - 'डॉ. आई.के. वीजलीवाला' इत्यनेन लिखितं 'हूंफाला अवसर' इति पुस्तकम् ।)
९४
Page #106
--------------------------------------------------------------------------
________________
कथा
साधुता
मुनिश्रुताङ्गचन्द्रविजयः एको युवा साधुर्गङ्गातीर उटजं निर्माय निवसति स्म । वस्तुतस्तु स्वभावेनाऽलसः स जीवनगतविपद्भिस्त्रस्त आसीत् ।
अन्यदा स स्वकीयोटजस्याऽङ्गण उपविष्ट आसीत् । तदा गङ्गानीरेणोह्यमानं किञ्चिद् महद् भास्वरं च वस्तु तस्य दृष्टिपथ आगतम् । शीघ्रमेव स गङ्गाप्रवाहे कूदितवान् । महता परिश्रमेण प्रतिश्रोतसि गमनं कुर्वता तेन तद् वस्तु प्राप्तम् । तद् भासुरं वस्तु रजतमयं पात्रमासीत् । तत् पात्रं गाढमालिङ्ग्य तेन प्रतितरणं प्रारब्धम् । तदा तेन गङ्गाप्रवाहोऽतीवप्रबलोऽनुभूयमान आसीत् । तरणे काठिन्यमनुभूतम् । स यद्यपि युवा आसीत् किन्त्वेकः पाणिः पात्रग्रहणे व्यस्ततां गतः । अतस्तरीतुमेक एव हस्तो रिक्त आसीत् ।
अहो ! निःशेषं निजबलमुपयुक्तं, किन्तु यावत् तीरमागन्तुं प्रयतते तावदेव तीरं सुदूरं ज्ञायते । अन्ततो यदा ज्ञातं यद् 'हस्तद्वयोपयोगं विना स्वीयजीवनत्राणमशक्यप्रायः' तदा स तत् पात्रं त्यक्त्वा तरन् तीरमापन्नः ।
तीरमासाद्य श्रमं चाऽपनीय स गङ्गानीरस्थितस्य तत्पात्रस्योपरि दृष्टिं स्थापितवान् । निःश्वस्य तेनोक्तं - "रे ! ममैतद् भास्वरं रजतमयं पात्रं प्रवहितं जातम् ।"
तटस्थित एको वयोवृद्धः प्रौढो मुनिरिदं मानवीयस्वभावदर्शकं प्रसङ्गं पश्यन्नासीत् । स युवसाधोः सामीप्यं संप्राप्तः । तस्य स्कन्धोपरि हस्तं निधायोक्तं यद् - "भ्रातः ! तद्रजतमयं पात्रं तूह्यमानं सत् स्वीयमार्गे गच्छदासीत् । तेन साकं ते न कोऽपि सम्बन्धः । तत् त्वदीयं तु नैवाऽऽसीत् । निष्कारणं त्वं गङ्गाप्रवाहं गत्वा तद् गृहीतवान् पश्चाच्च स्वीयजीवनरक्षणार्थं त्यक्तवान् । किं न्वेतावत्येव काले तत् त्वत्स्वामित्वमुपगतम् ? सज्जन ! ईश्वरेण यत् तुभ्यं दत्तं तस्याऽऽनन्दमवश्यमनुभवः, तत्तु समीचीनमपि। किन्तु यत् तव सामीप्यं त्यजति तदपि तावतैवाऽऽनन्देन त्यज । अस्माभिरेतावदेव स्मर्तव्यं यद् "जगत्यस्मिन्नशेषं वस्तु तात्कालिकमेव लब्धमासीत् । न कदाऽपि किमपि वस्तु सार्वकालीनमस्माकम् । अतः कथं वृथा शोकः कार्यः ?"
एवमुक्त्वा वयोवृद्धो मुनिः स्वीयपन्थानं प्रत्यचलत् । स युवसाधुः प्रायोऽद्य ऐदम्प्राथम्येनैव साधुताया अनुभवं कृतवान् । सोऽपि सानन्दो भूत्वा गङ्गाप्रवाहं पश्यन्नासीत् ।।
(मूलम् - 'डॉ. आई.के. वीजलीवाला' इत्यनेन लिखितं 'हूंफाला अवसर' इति पुस्तकम् ।)
Page #107
--------------------------------------------------------------------------
________________
कथा
महान् वैज्ञानिकः
मुनिमलयगिरिविजयः
"आल्बर्ट आइन्स्टाइन" खलु विश्वप्रसिद्धो वैज्ञानिकः । सकले विश्वे तस्य गभीरविद्वत्तायाः कारणेनाऽनेकैर्देशनेतृभिर्वैज्ञानिकैश्चाऽपि स्वस्य देशे तं नेतुं बहवः प्रयत्नाः कृताः । परं स अमेरिकादेशे एव न्यवसत् स्वस्य संशोधनकार्ये चाऽहर्निशं मग्नोऽभवत् ।
अनेकासां दुर्गमाणां जटिलानां च परिस्थितीनामुपाया विज्ञानाधारितास्तेन शोधिताः । यदा काचिदसाध्यसमस्योद्भवेत् तदा आल्बर्ट आइन्स्टाइनः पत्रोपरि G इति लिखति स्म । एतद् दृष्ट्वा तस्य मित्रेणैकदा पृष्टं - "भो महोदय ! भवता केषाञ्चित् पत्राणामुपरि G इति सज्ञाक्षरः किमर्थं लिखितः?' इति । आइन्स्टाइनोऽवदत् - 'G नाम GOD अर्थाद् विश्ववत्सलो भगवान् । यदा मया किञ्चिन्नाऽवबुध्येत तदा तं जटिलप्रश्नं भगवते समर्पयामि । ततस्तस्य प्रश्नस्योत्तरं प्रभुरवश्यं ददाति' । एवं च तादृशस्याऽपि वैज्ञानिकस्य तस्य भगवति श्रद्धा निश्चलाऽऽसीत् ।
एकदा, एको विद्वान् आइन्स्टाइनसमीपे आगच्छत् अपृच्छच्च - 'भवान्महान् वैज्ञानिकः संशोधकश्चाऽस्ति । किन्तु भवतः प्रयोगशाला कुत्राऽस्ति ? तामहं द्रष्टुं बहूत्कण्ठितोऽस्मि' । तदा स्मितं कुर्वाण आल्बर्ट आइन्स्टाइनः स्वीयां तर्जनीमङ्गलीमू/कृत्य मस्तिष्कमुपादर्शयत् । अर्थात् तेन सूचितं यन्मे मस्तिष्कमेव मम कृते प्रयोगशालाऽस्ति । यतस्तत्रैव सर्वाऽपि सामग्री तिष्ठति । नूनं महान्तो गुणानपेक्षन्ते न साधनानि ।
~~~~~~~
Page #108
--------------------------------------------------------------------------
________________
कथा
नापितस्य चातुर्यम्
मुनिभाग्यहंसविजयः
एकदा काशीदेशस्य राज्ञा विद्वत्सम्मेलनस्याऽऽयोजनं कृतम् । विविधविषयेषु शास्त्रेषु पारङ्गताः पण्डिताश्चाऽऽमन्त्रिताः । सम्मेलनस्य भव्यदिनमुपस्थितम् । काशीनगरं प्रति नैके पण्डिता आगच्छन्ति स्म। व्यवस्थापकैनिर्दिष्टे आवासे सर्वे तिष्ठन्ति स्म । स्वस्थतां च प्राप्नुवन्ति स्म । काशीनगरस्य समीपे पथ्थमपुराभिधानो ग्रामोऽभवत् । तत्र धमेल इति नाम्ना नापितो वसति स्म । तत्सम्मेलने गन्तुं सोऽप्युत्सुकोऽभवत् । निजपेटिकायां कलशमस्त्रं च निधाय स काशी प्रस्थितः । तत्र चाऽऽगतान् पण्डितान् मिलित्वा तेषां संलापांश्च श्रुत्वा स शुक इव किञ्चित् संस्कृतसंभाषणमशिक्षत ।
__ इतश्च सम्मेलनस्य प्रमुखपदे को नियोक्तव्यः ? इति निश्चेतुमधिकारिणः प्रत्येकं पण्डितस्याऽऽवासं गत्वा पृष्टवन्तः - 'भो महोदय ! भवान् कस्मिन् विषये पारगामी अस्ति' ?। एतत् श्रुत्वा पण्डिताः स्वस्य परिचयं दातुमारब्धाः । एकोऽवदत् - "अहं न्यायशास्त्रे निपुणोऽस्मि' । अन्येनोक्तं - 'मया व्याकरणशास्त्रमामूलचूलं पठितम् । तृतीय उक्तवान् - 'अहं तर्क-साहित्यक्षेत्रे निष्णातः' । एवं प्रत्येकस्य परिचयं कुर्वाणा अधिकारिणो यथाक्रमं तस्य धमेलाभिधनापितस्य समीपमागताः । तैः सोऽपि पृष्टः । स उवाच - 'अहं सकलशास्त्रसम्पन्नोऽस्मि' । तच्छ्रुत्वा सर्वे अधिकारिणः सन्तुष्टाः सन्तस्तस्य नाम पृष्टवन्तः । सोऽवदत् - 'पण्डितो धर्मचन्द्रोऽहम्' । एतैश्च मिथो विचार्य सम्मेलनस्य प्रमुखपदे नियुक्तः सः । स हर्षावेशेन पूर्णः 'मां सर्वे सत्करिष्यन्ति' इति विचारेण च प्रमुदितश्चाऽपि । शुभमुहूर्ते सम्मेलनं प्रारब्धम् । अनेके विषयाश्चर्चिताः । तेषां च पुष्ट्यर्थं विविधाः शास्त्रपाठाः परीक्षिताः । खडनमण्डनघोषैश्चाऽविद्वांसो भीता इव कम्पिता इव च जाताः । एवं सति धमेलो मूक इव किमपि न वदति स्म । तस्य चित्ते शून्यावकाशोऽभूत् । अथैकस्य प्रश्नस्य कं निर्णयं कुर्याम ? इति चिन्ता सर्वेषां मनस्युद्भूता । ततस्तैर्मिलित्वा प्रमुखस्थाने निषण्णो धमेलः पृष्टः । तदा स्तब्धगात्रः शिथिलाङ्गोपाङ्गश्च स तूष्णींभूय न किमप्युत्तरं ददाति स्म । ततश्च राज्ञः साशङ्के कोपरक्ते नयने दृष्ट्वा स भयविह्वलो जातः । राजा पृष्टः स - 'कस्यां पाठशालायां त्वयाऽध्ययनं कृतम् ?' धमेल उवाच - 'अहं कामपि पाठशालामध्ययनार्थं नैव गतो न वा मयैकाऽपि पाठशाला दृष्टा च' । राजाऽपृच्छत् - 'तर्हि किमर्थं सकलशास्त्रसंपन्नोस्मि' इत्युक्तं त्वया ?' ततः स उक्तवान् - 'मया स-कलश-अस्त्रसंपन्नोऽस्मि इत्याशयेनोक्तं तत्' । तस्य मुखादकल्पनीयमर्थं श्रुत्वा सर्वे गम्भीरपण्डिता अपि मुक्तमनसाऽट्टहासं चक्रुः । वादसभा समाप्ता । हास्यसभा प्रारब्धा । तत्क्षणमेव स नापितः सभाया निष्कासितः ।
Page #109
--------------------------------------------------------------------------
________________
कथा
विवेको बोधश्च
सा. कैरवयशाश्रीः
एकदा कश्चन युवा सुप्रसिद्धमेकं वक्तारमपृच्छत् - 'भवतः सभायां कतिसङ्ख्या जनाः समागच्छन्ति किल?' वक्ता तस्य प्रतिप्रश्नमकरोत् – 'कुतो भवानेवं पृच्छति ?' तेनोक्तं – 'बोधार्थं भोः !' । वक्त्रा सगर्वं भणितं – 'आधिक्येन तु मम प्रवचनं श्रोतुं चत्वारिंशत् सहस्राणि पञ्चाशद् वा सहस्राणि जनाः समागच्छन्त्येव । क्वचिदेव दश पञ्चदश विंशतिर्वा सहस्राणि श्रोतारो भवेयुः' ।
'अथ कदाचित् ततोऽपि लघुसङ्ख्या भवेत् तदा किं स्यात् ?' – युवाऽपृच्छत् । 'तदाऽहं तादृश्यां सभायां पदमपि न धरामि' इति सावज्ञं स वक्ताऽवदत् । 'बाढ'मित्युक्त्वा स युवा ततो निर्गतः ।
पथि गच्छन् स समुद्रतटं प्राप्य तत्राऽटितुमारब्धः । सहसा तस्य दृष्टिपथे समुद्रजले तरन् एको महाकायो मत्स्यः समागतः । स युवा तमपृच्छत् – 'भो मत्स्य ! भवान् एतादृशि विशाले जलनिधौ तरीतुं कथं शक्नोति ?' तेनोक्तं – 'मम तु जन्मैवाऽत्र जातम् । अत्रैव च वृद्धि प्राप्तः । तत् कथं महत्यत्र जलनिधौ तरीतुं न शक्नोमि ? सुतरां शक्नोमि' ।
'अथ कदाचित् कोऽपि भवन्तं लघौ जलाशये नीत्वा मुञ्चेत् तदा किं स्यात् ?' - इति युवा स तं मत्स्यमपृच्छत् । तेन विहस्योक्तं - 'भोः ! मम तु तरणाय जलमेव केवलमावश्यकं, नाऽन्यत् किञ्चित् । तच्च जलं समुद्रेऽपि भवतु, जलाशयेऽपि भवतु, अन्यत्र वा कुत्राऽपि लघौ पात्रेऽपि भवतु, मम तत्र तरणे न काऽपि बाधा । अहं तत्र स्वैरं तरीतुं शक्नोमि' ।
एतत् श्रुत्वा स युवाऽवदत् - 'नूनं भोः ! भवति कियत् सामर्थ्यमस्ति ? भवान् यच्चिन्तयति तत्सर्वं कर्तुं शक्नोति' । मत्स्येन कथितं – 'बन्धो ! अहं तु तिर्यङस्मि, तत्राऽपि जलचरः, भवांस्तु मनुष्यः । अहं तु केवलं जले तरीतुं शक्तः । भवान् पुनः जले स्थले आकाशे वा यत्किमपीच्छति तत् सर्वं कर्तुं समर्थः । तथाऽन्यैस्तत् कारयितुमपि शक्तः' ।
एतत् श्रुत्वा स युवाऽचिन्तयत् – 'कस्य विवेको बोधश्च गरीयान् ? वक्तुर्वा मत्स्यस्य वा ?'
२८
Page #110
--------------------------------------------------------------------------
________________
कथा
दुहितुः प्रेम
सा. तत्त्वनन्दिताश्रीः एका बालिका आसीत्, तस्या नाम जेनी आसीत्, सा च पञ्चवर्षवया आसीत् ।
एकदा सा अचिन्तयत् यत् - श्वो मम पितुर्जन्मदिनमस्ति । ततोऽहं पित्रे किमपि उपायनं दास्यामि। किन्तु मम समीपे किमपि नास्ति । ततः सा विषण्णा जाता । सहसैका युक्तिस्तस्या मनस्युदगच्छत् । सा क्रीडनकानां लघ्वी पेटिकामेकां रिक्तामकरोत् । तस्या उपरि शोभनं वर्णपत्रमवेष्टयत् । तद् वर्णपत्रं महाय॑मासीत् । तदैव तस्याः पिता सहसा गृहमागच्छत्, तां च बहुमूल्यवत् पत्रं व्यर्थं कुर्वन्ती दृष्ट्वा तस्यै – अकुप्यत्, अताडयच्च ताम् । तथापि जेनी सर्वमपि तदसहत ।
द्वितीयदिने प्रातःकाले जेनी उपायनं गृहीत्वा पितुः पार्श्वमागच्छत्, वदति स्म च – 'हे पितः ! अद्य भवते जन्मदिनस्य शुभेच्छां समर्पयामि, इदमुपायनमपि च भवत्कृतेऽस्ति । तद् भवान् स्वीकरोतु ।' जेन्या प्रदत्तं तदुपायनं दृष्ट्वा पिता पूर्वदिने कृतस्य क्रोधस्य कृते भृशं खेदमन्वभवत् । स ब्रवीति स्म - जेनि ! अहं ते धन्यवादान् समर्पयामि कोपस्य च कृते मां त्वं क्षमस्व ।
तदनन्तरं तस्याः पिता पेटिकामुद्घाट्याऽपश्यत् । सा पेटिका रिक्ताऽऽसीत् । तेन पुनः स तस्या उपर्यकुप्यत्, अकथयच्च - त्वं किमेतदपि न जानासि, यत् कस्मै अपि रिक्ता पेटिका उपायनरूपेण न दीयते? ।
जेन्या नेत्रयोरश्रूणि आगच्छन्, सा सविषादमवदत् - हे पितः ! पेटिका रिक्ता नाऽस्ति । अहं पेटिकायां भवत्कृते उपायनरूपेण शतं चुम्बनानि मुक्तवती । एतच्छ्रुत्वा सर्वथा विगलितहृदयः साश्रुनयनश्च पिता जेनी स्नेहेनाऽऽलिङ्ग्याऽकथयत् - जेनि ! मया पुनरपि तवाऽपराधः कृतः । कृपया मां क्षमस्व । मया तवाऽऽशयः सर्वथा नाऽवगतः ।
तदनन्तरं जेन्याः पिता सदा स्वस्य समीपे तां पेटिकां रक्षति स्म । यदा कदाऽपि जीवने स निराशामनुभवेत् तदा पेटिकामुद्घाट्य जेन्याः स्नेहं स्मरति स्म, आनन्दं च अनुभवति स्म ।
Page #111
--------------------------------------------------------------------------
________________
कथा
दिव्यप्रेम
सा. तत्त्वनन्दिताश्रीः
नारदर्षिणा स्वीये भक्तिसूत्रे - “परमप्रेममये परमात्मनि प्रेमरूपा या प्रादुर्भवेत् सा भक्तिः कथ्यते" - इति भक्तेर्व्याख्या कृता । किन्तु कदाचित् खलूपदेशकः स्वयमेव स्वोपदेशाचरणं न करोति । ततश्च नारदस्याऽपि मनसि भक्तेरहङ्कारो व्याप्तः । यथा “मत्सदृशो भगवद्भक्तो जगत्येव नास्तीति" । एतच्च श्रीकृष्णेन ज्ञातम् । ततः स तं बोधयितुमुपायमेकमचिन्तयत् ।
अन्यदा नारदर्षिः श्रीकृष्णं वन्दितुं समागतः । वन्दनं कुर्वता तेन दृष्टं यद् भगवतो मुखे वेदनाया रेखा दृश्यन्त इति । स भृशमाकुलो जातः, ससम्भ्रमं च भगवन्तं पृष्टवान् – 'भगवन् ! किं जातं भवतः?' । भगवतोक्तं – 'भो ! मामुदरवेदना बाधते' । तत उदरवेदनामसहमानः श्रीकृष्णः इतस्ततो भ्राम्यति स्म । एतद् दृष्ट्वा नारदश्चिन्ताक्रान्तमना भगवन्तमपृच्छत् – 'प्रभो ! अप्यस्ति कश्चनोपायो येन वेदना शाम्येत?' श्रीकृष्णेन कथितम् – 'यदि कश्चिन्मे भक्तो निजं चरणरजो दद्यात्, तदा तद्रजसो लेपनेन मे वेदनाऽपगच्छेत्' ।
श्रुत्वैतन्नारदेन चिन्तितं - 'भगवतः स्वचरणरजसः स्पर्शनेनाऽपि भक्तस्य नरकगमनं निश्चितं, तदा लेपनेन किं स्यात् ? ततो यद्यहं मे चरणरजो भगवते दद्यां तदा नूनमहं नरकगामी । नाऽहं नरके गन्तुमिच्छामि ।' ततः स भगवन्तमकथयत् - 'प्रभो ! एषोऽहं गच्छामि, जगत्येवाऽटित्वा कञ्चन भक्तमन्विष्य तच्चरणरज आनयामि भवतो वेदनां च निवारयामि' । भगवता मन्दं विहस्य तद्गमनमनुमतम् ।
नारदर्षिः किलाऽखिलपृथ्व्यामटितवान् किन्तु नरकभयेन कोऽपि तस्मै चरणरजो दातुं नैवोत्सहने स्म । अत आटमाटं क्लान्तो नारदः प्रान्ते वृन्दावनं प्राप्य गोकुलं गतः । तत्र ग्रामोपान्त एव तेन राधा गोप्यश्चाऽन्या जलमानयन्त्यो दृष्टाः । स सत्वरं राधापाश्र्वं गतः तस्यै च प्रभोर्वेदनाविषयकं वृत्तं कथितवान् चरणरजश्च याचितवान् ।
१००
Page #112
--------------------------------------------------------------------------
________________
राधयोक्तं - 'अहो ! मे प्राणवल्लभस्योदरवेदनाशमनार्थमहं निजप्राणानपि दद्याम् । चरणरजसस्तु का गणना ? इदमिदानीमेव मे चरणरजो गृहीत्वा भवान् गच्छतु मम प्राणनाथस्य च वेदनां शमयतु' । नारदः कथितवान् – 'अये ! मुग्धे ! किं भवती न जानाति यद् भगवतः स्वचरणरजःस्पर्शनेनाऽपि नरकगमनं भवेदिति ?' तदा राधया सानन्दं कथितं - 'भो भक्तशिरोमणे ! नाऽहं शास्त्राणि जानामि, तथाऽपि एतावत्तु जानाम्येव यद् यदि मम चरणरजसा मे प्राणवल्लभस्य वेदना यदि शाम्यति तदा मे प्रतिभवं नरकगमनमपि स्वीकार्यम् । नाऽहं नरकगमनाद् बिभेमि' ।
___ एतन्निशम्य विस्मितान्तःकरणो नारदः सत्वरं रजो गृहीत्वा श्रीकृष्णसमीपं गतः, रजश्च भगवतेऽदात् । भगवताऽपि सस्नेहं तत् स्वीकृत्य स्वाङ्गेषु विलिप्तम् । ततश्चोदरवेदना शमं प्राप्ता, भगवांश्च स्वस्थोऽभवत् ।
ततो नारदं दृष्ट्वा स्मयन् श्रीकृष्णोऽवदत् - 'मया तु चिन्तितमासीत् यद् भवानेव मम भक्तेषु मूर्धन्यः, अतो भवान् निजचरणरजो दत्त्वा मे पीडां सत्वरं दूरीकुर्यादिति, किन्तु भवता जगत् सर्वमपि भ्रान्त्वा राधायाश्चरणरज आनीय प्रदत्तम् । अतोऽहं विचारयामि यत् - को वा मम भक्तेषु मूर्धन्यः ? - इति' ।
श्रुत्वैतत् सर्वथा लज्जितो नारदः किमपि कथयितुं नाऽशकत्, तस्य भक्तिविषयकोऽहङ्कारश्च चूर्णीभूतः ।
१०१
Page #113
--------------------------------------------------------------------------
________________
कथा
अनुशासनम्
सा. जयनन्दिताश्री:
द्वितीयविश्वयुद्धस्येयं कथा ।
जर्मनीदेशो विश्वयुद्धस्य प्रबलतमो देश आसीत् । जर्मनीदेशीयैर्बहवो देशा युद्धे पराजित्य सर्वत्र निजशासनं प्रसारितमासीत् ।
चिरकालं युद्धकरणाय सैनिकानां प्राचुर्यमावश्यकम् । अतः समग्रे देशेऽपि घोषणां कृत्वा जनाः सैन्ये नियोज्यन्ते स्म । एकदैकस्तर्कशास्त्राध्यापकः कश्चन महाविद्यालयस्य प्राध्यापको सैन्याधिकारिणां दृष्टिपथे समागतः । तैर्बलादपि स सेनायां नियुक्तः । तस्य शस्त्रास्त्रप्रयोगप्रशिक्षणं युद्धभूमौ च निर्भयतया प्रवतर्नार्थं शारीरिकं मानसिकं च प्रशिक्षणं दातुं प्रारभन्त प्रशिक्षकाः ।
प्रथममेव, चलन-स्थगन-धावन-वल्गनादिशिक्षादानं प्रारब्धम् । प्रशिक्षको वदति स्म – 'स्थिरो भव', 'चलो भव', 'दक्षिणदिशि परावर्तस्व', 'वामदिशि परावर्तस्व', 'विपरीतं परावर्तस्व' । सर्वेऽपि सैनिकाः सर्वाः सूचना अनुसरन्ति स्म, किन्तु प्राध्यापकस्तथा न करोति स्म ।
प्रशिक्षकः पुनः पुनः सूचनाः प्रदत्ते स्म – 'दक्षिणां प्रति चल, ततः पश्चिमां प्रति चल' - इत्यादि। परं प्राध्यापको नाऽनुसरति स्म ताः । स पृच्छति स्म – 'भो महोदय ! दक्षिणां प्रति चलित्वा पुनः पश्चिमां प्रति किमर्थं गन्तव्यम् ? किं वयं दक्षिणदिश्येव प्रस्थातुं नाऽर्हामः खलु ? पुनः पुनः किमर्थं स्थानं परावर्तनीयम् ?'
प्रशिक्षकेणोक्तं – 'भोः ! अत्र तर्कस्य प्रश्नस्य वा नाऽवकाशः । यथा कथितं तथा कुरु' ।
प्राध्यापकः पृच्छति स्म – 'किन्तु महाभाग ! को लाभः खल्वनेन ? मम मतौ त्वेतत् सर्वं निरर्थकं प्रतिभाति' ।
१०२
Page #114
--------------------------------------------------------------------------
________________
प्रशिक्षकस्तं बोधितवान् – “एवं पुनः पुनरस्माकं निर्देशानुसारं वर्तनेन सैनिकस्य मनः शरीरं चाऽनुशासनानुकूलं भवति, सैनिकः सेनापतेरादेशं नाऽवगणयति, युद्धकाले च स निर्भीकतया निर्विकल्पतया च शत्रुपक्षविनाशार्थं प्रवर्तते । अतोऽनुशासनं शिक्षस्व भोः । एवं पुनः पुनः प्रश्नान् तर्काश्च मा कुरु' ।
एवं स वारंवारं प्रबोधितोऽपि पुनः पुनः प्रश्नान् तर्काश्च करोति स्माऽनुशासनं च नैव पालयति स्म । ततश्च प्रशिक्षकः सेनानायकमवदत् - 'मान्य ! अयं जनो यथावदनुशासनं न पालयति सर्वेष्वप्यादेशेषु प्रश्नांस्तांश्च करोति । अहं त्वेवं मन्ये यद् - यदा युद्धेऽस्य गुलिकास्त्रप्रयोगार्थं बमप्रक्षेपणार्थं चाऽऽदेशः करिष्यते तदाऽप्ययं विविधान् प्रश्नान् तर्काश्च करिष्यति यथा - "किमर्थं गुलिकास्त्रं प्रयोक्तव्यम् ? शत्रुसैनिकस्य कोऽवाऽपराधो येन स हन्यते ?" - इत्यादि अतो नाऽयं सैनिको भवितुमर्हति' ।
एतच्छ्रुत्वा सेनानायकोऽवदत् - 'एवं वा ? तर्हि तं पाकशालायां सूपकारस्य सहायकत्वेन नियोजयामः । तत्र स यथानिर्दिष्टं कार्यं करिष्यति ।
एवं कृते सति, प्रथममेव सूपकारस्तस्याऽऽज्ञामकरोद् यद् - 'भोः ! अस्मात् कलायराशेः लघुकलायानां बृहत्कलायानां च विभाजनं करोतु' । प्राध्यापकः ‘भवत्विति' कथयित्वोपविष्टस्तदर्थम् । द्वे घटिके व्यतीते । सूपकारः समागतः कलायांश्चाऽयाचत । किन्तु प्राध्यापकेनाऽनेन विभागः नैव कृत आसीत् । अतः सूपकारस्तस्मै कुपितः । तदा सोऽवदत् – 'भोः ! मया चिन्तितं यत् – ये मध्यमाः कलायास्ते कुत्र निक्षेप्तव्याः ? लघुषूत बृहत्सु ? इति । परं सम्यङ् निर्णयो न जातः । अतः कार्यं मया नैव कृतम्' ।
एतदाकोभ्रान्तः सूपकारः सेनानायकसमीपं गत्वा सर्वं कथितवान् । ततः श्रान्तः सेनानायकः प्राध्यापकमाहूय साञ्जलि प्रार्थितवान् – 'भोः महाशय ! भवान् महाविद्यालयमेवाऽलङ्करोतु, देशसेवार्थं तु बहवो जनाः सन्त्येव । सेनायां तु प्रशिक्षणमेवंरीत्यैव प्रदीयते । तेन च मनःस्थितिः परावर्तिता भवति, निर्विकल्पतया च योद्धं समर्थो भवति सैनिकः । तर्ककर्ता तु सेनायामनर्ह एव' । [इयं ह्यस्माकं सर्वेषां कथा । वयं खलु कियदनुशासनं पालयामः ? मनश्चाऽस्माकं कियत्स्थिरं भवति निर्विकल्पं चेति विचारणीयं ननु !]
१०३
Page #115
--------------------------------------------------------------------------
________________
कथा
द्रष्टारोऽब्धाः
सा. संवेगरसाश्रीः
अथैकदा अकब्बरः संसदि प्रश्नमकरोत् - 'जगति के जना अधिकाः - द्रष्टार उत अन्धाः ?' तदुत्तररूपेण विविधैः सांसदैविविधानि समाधानानि कल्पितानि । किन्तु तैरसन्तुष्टोऽकब्बरः प्रतिवेलमिव तदानीमपि वीरबलमुखमपश्यत् स्वजिज्ञासां च प्रादर्शयत् । अपृष्टः सन् कदापि न वदन् वीरबलो राजानं प्रणम्योक्तवान् – 'जगदाधार ! (जहांपनाह) इदमिदानीमेव भवतः प्रश्नस्योत्तरं दातुं न शक्यं, किन्तु मम सर्वथा प्रतीतं यज्जगति खल्वन्धानां सङ्ख्यैवाऽधिकाऽस्ति' ।
अकब्बरेणोक्तं - ‘एवं वा ? तर्हि स्ववचनं सप्रमाणं सिद्धं करोतु' । 'अस्तु स्वामिन् ! श्व एव भवते दर्शयिष्यामि सप्रमाणम्' – इत्युक्त्वा वीरबलो गृहं गतः ।
द्वितीयदिने प्रातरेव वीरबलो दिल्लीनगरस्य प्रधानविपणावेकस्मिन् आपणे एकस्मिन् जीर्णे भग्ने चाऽऽसन्दे उपविश्य तस्यैव समारचनं कर्तुमारब्धः । तस्योभयोरपि पार्श्वयोरेकैको जनः पत्रं लेखनी च गृहीत्वोपविष्टावास्ताम् । तयोश्चैकोऽन्धानां नामावलि लेखितुं, द्वितीयस्तु पश्यतां जनानामावलिं कर्तुमुद्यत आसीत् । तांश्च तथोपविष्टान् दृष्ट्वाऽल्पेनैव कालेन तत्र जनानां सम्मर्द एवोपस्थितः । सर्वेऽपि जनास्तत्राऽऽगत्य वीरबलाय पृच्छन्ति स्म यद् - "भो वीरबल ! भवानत्र किं करोति ?' तदा तत्क्षणमेव वीरबलसमीपे उपविष्टो जनः स्वपत्रे तन्नाम लिखति स्म । एवमेवाऽऽदिनं प्राचलत् । समग्रादपि नगरात् प्रायशः सर्वे जनास्तमापणं समागताः ।
अथैष वृत्तान्तो नृपस्याऽकब्बरस्य कर्णातिथिरभवत् । अतः सोऽपि स्वीयपरिवारेण सह वीरबलं द्रष्टुं समागतः । तेनाऽपि वीरबलाय स एव प्रश्नः पृष्टो यत् – 'वीरबल ! किमिदं भवान् कर्तुं प्रवृत्तः ?' । तदा स तस्योत्तरमदत्वैव लेखकमेकं सम्राजो नाम लेखितुं समादिशत् । तेनाऽपि तत्र पत्रे अकब्बरस्य नाम लिखितम् । शीघ्रमेवाऽकब्बरेण तद्धस्तात् पत्रं कृष्ट्वा पठितम् । पत्रोपरितनभागे शीर्षकमासीत् -
१०४
Page #116
--------------------------------------------------------------------------
________________
'अन्धजनानां नामानि' । पत्रे च बहूनि नामानि लिखितान्यासन्, प्रान्ते च अकब्बरस्य नामाऽपि लिखितं समासीत् । ततोऽकब्बरेण द्वितीयजनहस्तादपि पत्रमाकृष्य पठितम् । तत्रोपरिष्टात् "पश्यतां जनानां सूचिः' इति लिखितमासीत् । किन्तु समग्रमपि पत्रं रिक्तमेवाऽऽसीत् ।
एतेन विस्मितो राजाऽपृच्छत् - 'वीरबल ! किमेतत् ? मम नाम किलाऽन्धजनानां सूच्यां कथमुल्लिखितम् ? तथा पश्यतां जनानां सूचिः किमर्थं रिक्ताऽस्ति ?' ।
वीरबलेनोक्तं – 'जगदाधार ! भवता सह सर्वैरपि दृष्टमेव ननु यदहं जीर्णे भग्ने चाऽऽसन्दे उपविश्य तस्यैवाऽऽसन्दस्य समारचनं करोमीति, तथाऽपि सर्वैरपि पृष्टं यत् - "भवान् किं करोतीति"। एतेनैव च निश्चितमपि यत् – पश्यतां जनानां संख्या सर्वथाऽल्पीयसी जगत्यस्मिन्' । _ अकब्बरेण समीचीनो बोधः प्राप्त आसीत् । स मन्दमन्दं स्मित्वा वीरबलं प्राशंसत् पुरस्कारं च तस्मै प्रादात् ॥
१०५
Page #117
--------------------------------------------------------------------------
________________
| मर्म नर्म
(न्यायालये) वृद्धा अहं मम पत्युः सकाशाद् दाम्पत्यविच्छेदं (Divorce) प्राप्तुमिच्छामि । न्यायाधीशः अरे ! एतावति वयसि ? किमर्थं वा ? वृद्धा स यदाऽपि कुपितो भवति तदा यत् किमपि यथा तथा वा वदति तत् सर्वमपि शृणोम्यहं
विना प्रतिवचनम् । न्यायाधीशः तत्तु सर्वथोचितं खलु ! परमत्र दाम्पत्यविच्छेदस्य वार्ता कथमायाता ? वृद्धा किन्तु यदाऽहं किमपि वक्तुमारभे तदा स स्वीयकर्णात् श्रवणयन्त्रं निष्कासयति !!
मित्रम् (१) अहमिदं प्रक्षालनफेनकचूर्णं (Washing Powder) विक्रेतुं किं कुर्याम् ? मित्रम् (२) कस्मिन्नपि गृहे गत्वा घण्टिकां वादय । या काचन महिला द्वारमुद्घाटयिष्यति । मित्रम् (१) तत्त्वहं जानाम्येव । ततः किं कर्तव्यम् ? मित्रम् (२) एतावदेव वक्तव्यं त्वया - 'बालिके ! तव मातरमाह्वय, अहं फेनकचूर्णं
विक्रेतुमागतोऽस्मी'ति । सा महिला विना प्रतिवचनं ते फेनकचूर्णं क्रेष्यति ।
माधवी
माधवः माधवी माधवः
यदि मया मे मातुर्वचनमवामस्यत तदा त्वया सह विवाह एव नाऽभविष्यत् । तन्नाम ते माता मया सह तव विवाहं निषिद्धवती किल ? आम्, सा तु प्रथमत एवाऽस्माद् विवाहादप्रसन्नैवाऽऽसीत् । हे प्रभो ! मयाऽकारणमेवैतादृशी शोभनस्वभावा स्त्री मनसैवाऽधिक्षिप्ताऽपशब्दैः !
१०६
Page #118
--------------------------------------------------------------------------
________________
पीनकः तन्वी
अयि भोः ! ममोरसि बहुपीडा भवति ! चिकित्सकमाह्वयतु सद्यः । भवतो जङ्गमदूरवाण्याः सङ्केतशब्दं (Password) वदतु । अन्यथा नेयं प्रवर्तिष्यते । तिष्ठतु । एवमेव मे पीडाऽपगमिष्यति !?
पीनकः
.
एकस्मिन् आपणे सूचनाफलके लिखितमासीत् -
'ऋणेन विक्रयणं न क्रियते' । एकेन जनेनाऽऽगत्य पृष्टम् -
'एतत् कदा प्रारप्स्यते ?'
'अत्र यदि वाहनं स्थाप्येत तदा २०० रूप्यकाणां दण्डनं करिष्यते' इति सूचनायां लिखितायामपि जना अत्रैव वाहनं स्थापयन्ति, किं कर्तव्यम् ? सम्प्रति सूचनां परावर्तयतु - 'अत्र वाहनस्थापनस्य शुल्कं २०० रूप्यकाणि ग्रहीष्यते' इति । ततो न कोऽपि वाहनं स्थापयष्यिति ।
(परीक्षावर्गे उपविष्टश्छात्रः कश्चनोत्तरपत्रे पुष्पाणि चित्रयन्नासीत् ।) निरीक्षकः किं भोः ! किमिदं क्रियते भवता ? छात्रः अहं मरणं प्राप्तायै मम स्मृतये पुष्पाञ्जलिं यच्छामि !!
सुहृत्-१ सुहृत्-२ सुहृत्-१
भोः ! अद्य तु मम धर्मसङ्कटं समुपस्थितम् । कथमिव भोः ! ? किं वा सञ्जातम् ? अरे ! किं वा कथयेयम् ? अद्य भोजने ते प्रजावत्या शाकं परिवेषितम् । ततः सा पृच्छति स्म - "कथयतु भोः ! कीदृशमद्य शाकम् ?" इति । यदि "बाढ"मिति कथयेयं तदा भूयोऽपि सा शाकं दद्यात्, यदि च "न समीचीन"मिति कथयेयं तर्हि प्रलयकाल एवोपस्थितो भवेत् !!
१०७
Page #119
--------------------------------------------------------------------------
________________
प्राकृतविभागः
कलिकालसर्वज्ञश्रीहेमचन्दाचार्यविरचितं प्राकृतद्व्याश्रयमहाकाव्यम्
वज्जर थक्को सि कहिं पज्जर कत्तो अ एण्हिमाओ सि । जम्पसु विम्हरिआ हं सीससु अणुसासणिज्जो सि ॥१॥ साहसु कीए रत्तो बोल्लसु अन्ना वि किं पिआ तुज्झ । संघसु किमहं मुक्का चवसु मए किं कयं विलिअं ॥२॥ पिसुणसु किं जुत्तमिणं उप्पालसु किं चिराउ दिट्ठो सि । इअ भमर-गुंजिएहिं ससिणं पुच्छीअ कइरविणी ॥३॥ णिव्वरही चक्क-वहू दूरत्थ-पिए जुगुच्छिअत्ताणा । झुणिअ-रवेहिं अदुगुच्छिअं पि भिसिणिं दुगुंछंती ॥४॥ न बुहुक्खिओ वि चक्को निय-छाहिं निअवि णीरवीअ बिसं । निअ-पक्ख-वीजणेहिं वोज्जतो घरणि-संकाए ॥५॥ गायंता सज्झायं झायंता धम्म-झाणमकलंका । जाणंता मुणिअव्वं मुणिणो आवस्सए लग्गा ॥६॥ दिण-ताव-उद्धमाओ सद्दहिउं दाह-पसमिणिं जुण्हं । को अमय-पिज्जणिज्जं अच्छीहि न घोट्टिउं लग्गो ॥७॥ पट्टीअ चंदिम-रसं चंदिम-रस-डल्लिरं चओर-कुलं । पिअइ म्ह अलि-कुलमणोरुम्मिअ-सेहालिअ-परायं ॥८॥ पवणेणोव्वाय-विलेवणाउ वसुअंत-सम-जला कुलडा । उंघते असुर-जणे ओहीरंते पिए य गया ॥९॥ निदायंतं कमलं भमरो नाइग्घिउं पि ओच्छरिओ । अग्घायंतो कुमुअं अब्भुत्तंतो व्व मयरंदे ॥१०॥
१०८
Page #120
--------------------------------------------------------------------------
________________
प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतपद्यानुवादः
पं.नरेन्द्रचन्द्र-झा
षष्ठः सर्गः प्रिय ! कस्मिन्नुषितस्त्वं कस्मादधुना समागतो देशात् । अहमस्मि विस्मृता किं ?, येनाऽसि त्वं च शिक्षार्हः ॥१॥ कस्यामस्यनुरक्तस्तव कथयाऽन्याऽपि किं प्रिया काचित् ?। कथयाऽहं किं मुक्ता ?, किञ्च मयाऽऽगः कृतं तादृक् ॥२॥ वद किं युक्तमिदं ते ?, प्रतिपादय किं चिराय दृष्टोऽसि ?। इति मधुकरगुञ्जनतः, कैरविणी चन्द्रमप्राक्षीत् ॥३॥ कथयाम्बभूव कोकी, दूरस्थप्रिये ! विनिन्दितात्माऽपि । निन्दितशब्दैर्बिसिनी, निन्दन्ती दूषणै रहिताम् ॥४॥ न बुभुक्षितोऽपि चक्रो, कवलीचक्रे बिसं निजच्छायाम् । प्रियाभ्रमान्निजपक्ष-व्यजनैः संवीजयन् प्रीत्या ॥५॥ गायन्तः स्वाध्यायं, ध्यायन्तो धर्मभावमकलङ्कम् । जानन्तो ज्ञातव्यं, मुनयश्चाऽऽवश्यके लग्नाः ॥६॥ दिनतापादुद्धमातः, श्रद्धाय च दाहशामिकां ज्योत्स्नाम् । कोऽमृतवत् पातव्यां, पातुं लग्नो न नेत्राभ्याम् ? ||७|| चान्द्रमसं रसमपिबत्, तद्रससम्पायी चकोर समुदायः । पिबति स्म भ्रमराली, सरसां शेफालिकाधूलीम् ॥८॥ पवनोद्वानविलेपाः, शुष्यद्गमनश्रमाम्बवः कुलटाः । श्वशुरजने निद्राति, स्वपति च नाथे गताः स्वैरम् ॥९।। कमलं निद्रामुकुलं, नाऽऽघ्रातुं मधुकरोऽपि चाऽतिष्ठत् । आजिघ्रन्ननु कुमुदं, मकरन्दनात इव मधुपः ॥१०॥
१०९
Page #121
--------------------------------------------------------------------------
________________
न्हाउं उदय-त्थिअ-ससि-संखायाथक्क-जुण्ह-जल-वरिसे । निअ-ठाणे चिटुंतो वि को न सुहिओ निरप्पीअ ॥११॥ उदयुट्ठिअस्स ससिणो समुहोकुक्कुरिअ-किंनरीहि कओ । अमिलाण-पारिजायापव्वाइअ-कप्प-कुसुमग्घो ॥१२॥ वाय-मुह-विहिअ-कमलो निम्मविआझिज्जमाण-कुमुअ-सिरी । निम्माणिअ-हरिसमणिज्झरंत-रुह-णुमिअ-सव्व-दिसो ॥१३॥ नूमिअ-गयणो सन्नुमिअ-महि-अलो ढक्किओडु-पह-पसरो । ओबालिअ-दीव-रुई पव्वालिअ-माणिणी-माणो ॥१४॥ छाइअ-जणच्छि-पसरं तम-पुंजं सव्वओ णिहोडंतो । अणिवारिअ-पह-पसरो पाडिअ-दूमिअ-पउत्थ-कुलो ॥१५॥ किरणेहिँ खं दुमंतो धवलण-कुच्चय-सिरिं तुलंतेहि ।
ओहामंतो अमओलुंडिर-नव-रुप्पमय-कुंभं ॥१६॥ जलमुल्लुडावंतो ससि-कन्ताउ अमयं विरेअंतो । पल्हत्थाविअ-गुज्झो रइ-वावड-मिहुण-हिअआओ ॥१७॥ आहोडिअ-धणुह-गुणे सर-ताडिअ-तिहुअणम्मि रइ-नाहे । दूर-विहोडिअ-सज्झस-असईणं दइअ-मेलवणो ॥१८॥ नीहार-मीसिआहि व छुह-रस-वीसालिआहि व पहाहि । तिमिरोद्धूलिअ-भुवणं गुंठतो भामिआहि नहे ॥१९।। कामि-मण-तालिअंटिर-वम्मह-आणं जगे तमाडंतो । नासविअ-भओ अहिसारिआण हारविअ-लज्जाण ॥२०॥ विउडिअ-चओर-तण्हो जुण्हाए विप्पगालिअ-दिणोम्हो । नासिअ-चक्को विरहिणि-पलावणो खं ससी चडिओ ॥२१॥ अह दोवारिअ-दाविअ-नरवइ-दंसिअ-अणेग-पाहुडओ । आभरण-कंति-दक्खविअ-सुरधणू दरिसिएभ-गई ॥२२॥ उदउग्गिअ-रवि-तेओ उग्घाडिअ-ससिह-जण-मणाणंदो । संभाविओ उविंदो इंदो आसंधिओ अह वा ॥२३॥ उल्लालिअ-णेवत्थणमुत्थंघिअ-कर-पुडं नमंत-निवे । गुलुगुंछिअच्छि उप्पेलिअच्छिणो सणिअभिक्खंतो ॥२४॥
११०
Page #122
--------------------------------------------------------------------------
________________
स्नात्वोदितशशिसान्द्रज्योत्स्नातापापनोदजलवर्षे । स्थितिमानपि निजसदने स्थित्वा तस्थौ न कः सुखितः ॥११॥ उदयस्थितस्य शशिनो, विहितः सम्मुखतुरङ्गवदनाभिः । अम्लानपारिजातः कल्पद्रुमकुसुमरचितार्धः ॥१२॥ विहितमलिनमुखकमलो, निर्मितविच्छायकल्पकुमुदश्रीः । निर्मितहर्षं हासातीतरुचाऽऽच्छन्नदिक्प्रान्तः ॥१३॥ छादितगगनश्छादितमहीतलश्छन्नभगणरुचिप्रसरः । सञ्छादितदीपरुचिः, प्रक्षालितमानिनीमानः ॥१४॥ छादितजनाक्षिप्रसर-ध्वान्तस्तोमां विनाशयन्नभितः । अनिवारितरुक्प्रसरः, पातिततापितप्रवासिकुलः ॥१५॥ किरणैर्नभो धवलयन्, धवलनकूर्चश्रियं च तुलयद्भिः । अमृतविरेचितनूतन-रौप्यघटं तोलयन् शान्तः ॥१६॥ नीरं विरेचयन् शशिकान्तादमृतं विरेचयन् कान्तः । अथ च विरेचितगुह्यो, हृदयाद् रतिसक्तमिथुनानाम् ॥१७॥ आस्फालितचापज्ये, बाणाहतजगत्त्रयेऽपि रतिनाथे । दूरोत्सारितसाध्वस-कुलटाप्रियमिश्रणः कामम् ॥१८॥ नीहारमिश्रिताभिरमृतद्रवमिश्रिताभिरिव रुग्भिः । खे भ्रान्ताभिस्तिमिरोद्धूलितभुवनं नयन् व्याप्तिम् ॥१९॥ कामिहृदयभ्रामकः कामादेशं प्रचालयन् जगति । नाशितभयोऽत्रपाणा-मभिसारपरायणस्त्रीणाम् ॥२०॥ नाशितचकोरतृष्णो, ज्योत्स्नायां विप्रणाशितदिनोष्मा । नाशितचक्रो विरहिद्रविता चन्द्रः खमुत्पतितः ॥२१॥ अथ दौवारिकदर्शित-नरपतिदर्शितनिकामप्राभृतकः । आभरणकान्तिदर्शितसुरचापो दर्शितेभगतिः ॥२२॥ उल्लासितरवितेजा, अतिविस्तारितजनहृदानन्दः । सम्भावितो रमेश, इन्द्रः सम्भावितोऽप्यथवा ॥२३॥ कृतोत्तरीयस्फोरणमुन्नमितकरपुटं नमन्नृपतीन् । उन्नामिताक्षानुन्नामिताक्षं पश्यन् शनैरनिशम् ॥२४॥
१११
Page #123
--------------------------------------------------------------------------
________________
उन्नामिअ-भुमयाए भण्डारे पाहुडाइ पेंडविरो । नरवइ-पट्ठविआई देवय-पट्ठाविआई च ॥२५॥ वोक्कंत-महामच्चो निवो अवुक्कंत-पणइ-मंडलिओ । विण्णत्ति-दिन्न-कण्णो अहिट्ठिओ कणय-मंडविअं ॥२६॥ पणमिर-पणइ-पणामिअ-दिट्ठी सो तत्थ अल्लिविअ-हरिसो । अणचच्चुप्पिअ-हिअओ अप्पिअ-निव-खोहमासीणो ॥२७॥ जाविअ मुहत्तमेगं पुरोहिओ जविअ-दुट्ठ-कलि-ललिओ। दंत-रुई-ओम्वालिअ-गयणो उच्चारही मंतं ॥२८॥ हार-प्पह-पव्वालिअ-हिओ निवो पाविओ व्व अमएण । पक्खोडिअ-चमराहिं विकोसिअच्छीहि उवसरिओ ॥२९॥ ओग्गालिर-वसहाणं वग्गोलिर-करहयाण वारम्मि । रोमंथ-भंग-जणणो अहासि गंभीर-तूर-रवो ॥३०॥ णव्वंतो सिरि-णिहवय-सिरिमम-कायम-सिरि पयासंतो । विच्छोलिअ-भुमयाहिं राया विलयाहि परिअरिओ ॥३१॥ अणकंपिर-कर-वलिअ-त्थाले आरोविउं अदोलि-सिहं । रंखोलिर-ताडंका वर-विलयारत्तिअं काही ॥३२॥ जण-रज्जणेहि राविउमुव्वीसं तत्थ पणमिर-निवेहि । परिवाडिअंजलीहिं खे घडिआ कमल-कोस व्व ॥३३॥ कणय-परिआलिएहिं रयणाहरणेहि वेढिअंगुलिआ । विकिणण-किणण-छइल्ला पुरो निविट्ठा महाजणिआ ॥३४॥ विक्केंतोद्धरिआ इव भायंता अवि अबीहिरा निच्चं । भीएहि सहचरेहिं निव-दुआ दूरमल्लीणा ॥३५॥ भत्ति-णिरिग्घिअ-हिअआ मउलि-णिलीअंत-पाणि-संपुडया । निव-पय-कमल-णिलुक्कंत-लोअणा सा सहा आसि ॥३६॥
आसि मणि-वेइआसु लुक्कंतो मणि-महीएँ लिक्कंतो । ल्हिक्कन्तो मणि-थम्मेसु सय-गुणो पडिकिदीइ जणो ॥३७॥ निवइ-निलीइर-नयणा अविराय-सिरी विलीइर-जुआणा । अलि-रुजिअ-जइ-रुटिअ-किंकिणि-नीवीउ आसीणा ॥३८॥
११२
Page #124
--------------------------------------------------------------------------
________________
कृत्वा भ्रूविक्षेपं, भाण्डागारेषु विन्यसनशीलः । नरपतिदैवतमुत्कलितानि सत्प्राभृतानि सस्नेहम् ॥२५॥ विनिवेदयत्प्रधानो, राजा विनिवेदयत्प्रणयिवर्गः । विज्ञप्तिदत्तकर्णोऽध्यासीनः सुवर्णमण्डपिकाम् ॥२६॥ प्रणयिप्रणतिप्रणामितदृष्टिस्तत्र स समर्पितानन्दः । राजानर्पितहृदयो, दत्तनृपक्षोभमासीनः ॥२७॥ अतिवाहय क्षणमेकं, पुरोहितो गमितदुष्टकलिललितः । दर्शनरुचा सम्प्लावित-गगनो मन्त्रं बभाण समोदम् ॥२८॥ द्वारप्रभाप्रवाहितहृदयः किं प्लावितोऽमृतेन भूपालः । चामरकलितकराभिविकसितनेत्राभिरुपयातः ॥२९॥ रोमन्थयवृषाणां, वारे रोमन्थयितृकरभाणाम् । रोमन्थभङ्गजनकोऽप्यासीद् गम्भीरतूररवः ॥३०॥ प्रकाशयन् श्रीकामश्रीमथ गौरीपतिश्रियं चाऽपि । नम्रध्रुनयनाभी राजा वनिताभिरुपचरितः ॥३१॥ निश्चलकरसंस्थापितपात्रेऽकम्पितशिखं समारोप्य । लीलाचलताटङ्का, वरवनिताऽऽरात्रिकं चक्रे ॥३२॥ जनरञ्जननतशीर्षैस्तत्रोर्वीशं सुखेन रञ्जयितुम् । घटिताञ्जलिभिर्घटिताः, कोशा व्योम्नीव कमलानाम् ॥३३॥ काञ्चनपरिवेष्टितकै, रत्नाभरणैः सुवेष्टिताङ्गलयः । क्रय-विक्रयणच्छेकाः, पुरो निविष्टा महाजनिकाः ॥३४॥ विक्रीणत्सूद्धरिता, इव चकिता अपि सदाऽभीताः । भीतैः सहचरवगैर्नृपदूता दूरमालीनाः ॥३५॥ सेवानिलीनहृदया, शीर्षसमाश्लिषत्पाणिसम्पुटका । नृपपदकमलनिलीयमाननयना सभा साऽऽसीत् ॥३६॥ रत्नविनिर्मितवेद्यां, मणिमयभूमौ तथा मणिस्तम्भे । सङ्क्रामन् प्रतिकृत्या, जनः प्रभूतोऽभवत् तत्र ॥३७॥ नृपति निरीक्षणनयना, ह्वविलीनश्रीविलीनयुवलोकाः । अलिरुतजयिरुतनूपुर-नीवीकलिताः समासीनाः ॥३८॥
११३
Page #125
--------------------------------------------------------------------------
________________
सग्गे वि हणिअ-विहवा असुणिअ-दोसा तिलोअ-सिरि-धुवणी । कुमर-नरिंद-सहा सा धुणिआरि-मणोरहा हूआ ॥३९॥ हुंताणंदो अहुवंत-संसओ निवइमुब्भुअंत-मई । पहवंतो अपरिहवो विण्णविही संधिविग्गहिओ ॥४०॥ देव विवक्खीहंतो णिव्वडिअ-बलेण सो पहुप्पन्तो । हूओ कुंकुण-नाहो जहा जहा कुणसु अवहाणं ॥४१॥ दूर-ट्ठिआहि करिउं णिआरिअं सुर-वहूहि दीसंता । संदाणंता अइनिट्ठहावणा वेरि-सुहडाण ॥४२॥ वावंफिरा कलासु अमोघ-णिव्वोलणं पयासंता । अपयल्लिर-असि-फलया णीलंछंता रिउ-दलम्मि ॥४३॥ कम्मंतमेत्त-मन्निअ-रिउणो गुललंत सामिणो विजये । दाउं वसुमझरंता पहु-आदेसं च झूरंता ॥४४॥ जुद्धेण भरावंता राम-कहं भारहं भलावंता । निअ-कुल-कम लढंता सुमरंता खत्तिआचारं ॥४५॥ वीर-वरणं सरंता पयरंता सामिणो पसायं च । बावण्णवीर-कह-विम्हरावणा वइर-पम्हुहणा ॥४६।। पम्हसिअ-अन्न-कज्जा विम्हारिअ-वाणरिंद-बल-ललिआ । वीसारिअ-रिउ-मंता तुह जोहा कुंकुणं पत्ता ॥४७॥ सीह-रव-पोक्कणा ते कोक्कंता किं पि सच्च-वाहरणा । उव्वेल्लिर-तुरय-पयल्लिरेभ-चडिआ पसरिआ अ ॥४८॥ अह महमहंत-णीहरिअ-मद-जले सिंधुरम्मि चडिऊण । ठाणाओ नीलिओ कुंकुणाहिवो नीसरंत-बलो ॥४९॥ वरहाडिआ गढाओ रण-धाडिअ-रक्खणा भडा तस्स । जग्गिअ-खग्गा रण-जागरा य आअड्डिआ तत्तो ॥५०॥ समरम्मि वावरंता साहट्टिअ-पर-बला असंवरिआ । अणसाहरिअ-प्पेम्मामरीहि सन्नामिआ वरिउं ॥५१॥ आदरिअ-वीर-वरणा सारते पहरिउं पयट्टा व । अणओहिअ-भड-माणा ओरसिआ इव सिवस्स गणा ॥५२॥
११४
Page #126
--------------------------------------------------------------------------
________________
स्वर्गेऽपि श्रुतविभवाऽश्रुतदोषा भुवनत्रयेऽपि विख्याता । कुमारपालपरिषत्, सा धूतारिमनोरथाहूता ॥३९॥ भवदानन्दः संशयरहितः, प्रतिभासमुल्लसद्वृद्धिः । प्रभवन् परिभवविरहो, न्यवीविदत् सन्धिविग्रहिकः ॥४०॥ पृथग्बलेन प्रभवन्, देव ! विपक्षीभवन् स सम्पन्नः । भूतः कुङ्कणनाथो, यथा तथा त्वं समाकर्णय ॥४१॥ कर्तुं दूरगताभिः, काणेक्षितमप्सरोभिरालोकाः । कुर्वन्तोऽवष्टम्भमतिविष्टम्भा विरोधिसुभटानाम् ॥४२॥ सकलकलासु श्रान्ताः, सफलौष्ठनिदर्शनं च तन्वन्तः । निश्चलकृपाणफलका, निपतन्तः शत्रुसैन्येषु ॥४३॥ नापितमात्रविमानितरिपवश्चटयत्स्वनाथविजयाशाः । वसु दत्त्वाऽजानन्तो, राजादेशं स्मरन्तोऽपि ॥४४॥ रामकथां युद्धेन, स्मरयन्तो भारतं मदोद्रेकात् । निजकुलकर्मक्षत्रियसमुदाचारं च गायन्तः ॥४५॥ जानन्तो भटवरणं, प्रभुप्रसादं मुदा स्मरन्तोऽपि । वीरकथां कुर्वाणाः, स्मरणा वैरस्य भान्ति स्म ॥४६॥ सन्त्यक्तापरकार्या; विस्मारितवानरेन्द्रबलललिताः । विस्मारितरिपुमन्त्रास्तव योद्धाः कुङ्कणं प्राप्ताः ॥४७।। सिंहरवव्याहरणा, निगदन्तः किमपि सत्यबल्गनकाः । सत्वरतुरगप्रसृमर-कुञ्जररूढाः प्रचलिताश्च ॥४८॥ प्रसरद्गन्धं निर्गतमदसलिले हस्तिनि समारुह्य । कुङ्कणभूपः स्थानात्, निर्गतसैन्यः स निर्गतस्तस्मात् ॥४९॥ तस्माद् दुर्गाद् विनिर्गता रणनिर्गतरक्षका भटास्तस्य । निष्काशितखड्गा रणसन्नद्धा व्यापृताः सोत्काः ॥५०॥ समरे व्याप्रियमाणा पिण्डीकृतपरबलाः परिभ्रमिताः । असंवृतस्नेहाभिरमरीभिः सदादृता वरितुम् ॥५१॥ योद्धं कृतप्रतिज्ञाः प्रहरन्ति च प्रहर्तुमपि प्रवृत्ताश्च । अभ्रष्टसुभ्रष्टमाना, अवतीर्णा इव शिवस्य गणाः ॥५२॥
११५
Page #127
--------------------------------------------------------------------------
________________
ओअरिअ दीहिआओ अचयंतीकय-तरंत-सुहडेहिं । तीरंताण वि पारंतएहिँ तेहिं कयं जुज्झं ॥५३॥ सक्कंतो अणथक्किअ-सलहिअ-सर-वरिसणो निवो ताण । मणि-खचिअ-कणय-वेअडिअ-माढिओ पहरिउं लग्गो ॥५४॥ दिन्नमसोल्लिअ-मंसासणाण अणपउलिअं तओ मंसं । अरि-पयण-पयावेणं तेणं सर-मिल्लिरेण रणे ॥५५॥ उस्सिक्किअ-संकेणं पच्छा अवहेडिउं निअं पि दलं । अणछड्डिअ-कुल-धम्मं सीह-झुणी तेण रेअविओ ॥५६॥ णिल्लुंछिअ-भय-पसरो धंसाडिअ-भयमिभं समारूढो । मुंचन्तो बाणे णिच्चलीअ सो कोह-दुहिअप्पा ॥५७॥ जूरवणेहि उमच्छंतेसुं जय-सिरि-अवंचिओ समरे । नाह अवेहविरेहिं पाइक्केहिं न वेलविओ ॥५८॥ उग्गहिअ-जय-पइन्नो अवहिअ-वूहम्मि गुज्जर-दलम्मि । विडविड्डीअ पएसं तक्कालं रइअ-रोमंचो ॥५९॥ सारविए रण-छेत्ते उवहत्थिअ-आउहेहिँ जुझंतो । केलाइआउहो सो निअं समारीअ जस-लच्छि ॥६०॥ पहु-कज्ज-समारचणेण सिंचिओ तुह बलेण बाणेहिं । सीभर-सिपिअ-वसुहो मय-सेअणओ इमो तस्स ॥६१॥ पडिसुहडे पुच्छंता गज्जंता ढिक्कमाण-वसह व्व । अह बुक्किआ तुह भडा कुंकण-देसाहिवं दटुं ॥६२॥ अग्घिअ-वम्मा छज्जिअ-सिरक्कया मण्डलग्ग-सहिअ-करा । रोहिअ-सेन्ना रीरिअ-रणंगणा राइआ ते अ ॥६३॥ आउड्डिअ-रह-चक्कं खुप्पंत-हयं णिउड्डमाणेभं । वुटुंत-भडं करि-रुहिर-मज्जणे ताण आसि रणं ॥६४॥ आरोलिअ-सर-माला-वमालणो मल्लिअज्जुणो राया । पुंजिअ-पहु-लज्जिर-गुज्जरेहि जीहाविओ तेहि ॥६५॥ ओसुक्कंतो तेअण-गिराहि सो खत्त-धम्म-लुहण-भडे । उग्घुसिअ-सेल्ल रोसाणिआसिणो के वि सिक्खविही ॥६६॥
११६
Page #128
--------------------------------------------------------------------------
________________
अवतीर्य दीर्घिकातो, ह्यसमर्थोऽकृत समर्थसुभटैस्तैः । शक्नुवतामपि शक्नुवद्धियुद्धं कृतं वीरैः ॥५३॥ सर्वोत्कृष्टश्लाघित-शरवर्षनृपो हि शक्नुवंस्तेषाम् । मणिखचितकनकवेष्टितमार्गणैर्लग्नः प्रहर्तुं तान् ॥५४॥ दत्तं गृध्रादीनां, मासमपक्वं ततः पुनस्तेन । रिपुदाहकतेजसाऽपि, तेन शरवर्षिणा नवोल्लासैः ॥५५॥ अगणितशत्रुभयेन, पश्चान्मुक्त्वा स्वकीयमपि सैन्यम् । अत्यक्तकुलाचारं, मुक्तः सिंहध्वनिस्तेन ॥५६॥ सन्त्यक्तभयप्रसरो, निर्भीकमिभाधिपं समारूढः । बाणान् मुञ्चन् दुःखं, क्रोधाद् दुःखी नृपोऽमुञ्चत् ॥५७॥ प्रतारकैर्वञ्चयत्सु, जयलक्ष्म्याऽवञ्चितो महासमरे । नाथावञ्चनशीलैर्न विप्रलब्धः पदातिभिर्नूनम् ॥५८॥ विरचितजयप्रतिज्ञो, रचितव्यूहेऽपि गौजरे सैन्ये । कृत्वा प्रवेशमन्तस्तत्कालं रचितरोमाञ्चः ॥५९॥ रचिते युद्धक्षेत्रे, रचितैरायुधशतैश्च संप्रहरन् । रचितायुधः स नित्यं, यशःश्रियं स्वां समारचयत् ॥६०॥ प्रभुकार्यविरचनेन, संसिक्तस्तव बलेन खलु बाणैः । शीकरसुसिक्तवसुधो, मदसेचनतो गजस्तस्य ॥६१॥ गर्जवृषभा इव ते, गर्जन्तः प्रतिसुभटं च पृच्छन्तः । सुभटा अथ तेऽगर्जन्, कुङ्कणदेशाधिपं द्रष्टुम् ॥६२॥ राजितवर्मशिरस्का, राजितहस्ताः पुनश्च खड्गाग्रैः । राजितसैन्या राजितरणाङ्गणा राजितास्ते च ॥६३॥ भूमज्जितरथचक्रं, मज्जत्तुरगं निमज्जदिभराजम् । मज्जद्योधमिवाऽसृग्मज्जन आसीद् रणस्तेषाम् ॥६४॥ पुञ्जीकृतशरमाला-विस्तारपरो मल्लिकार्जुनो राजा । पुञ्जितनृपलज्जितकैस्तैस्त्रपितो गूर्जरैर्भूयः ॥६५॥ उत्तेजयन् गिराभिः, स क्षत्रियधर्मतत्परान् वीरान् । तेजितकुन्तकृपाणान्, कानपि बाणैः स ताडयामास ॥६६॥
Page #129
--------------------------------------------------------------------------
________________
लुंछंता घम्म-जलं कज्जल-पुंछिअ-मुह व्व तेण भडा । पर-तेअ पुंसणेणं फुसिअ-जसा हक्किआ के वि ॥६७॥ पहु-नामापुसणो धम्माहुलणो वेरि-नाम-मज्जणओ । तं मूरीअ गइंदं गुज्जर-लोओ अवेमइओ ॥६८॥ सूडिअ-सूहडो सूरिअ-तुरंगमो विरिअ-बाण-पसरो य । मुसुमूरिअ-सिरताणो करंजिओ कुंकुणाहिवई ॥६९॥ पविरंजिआतवत्तो नीरंजिअ-विजय-वेजयंतीओ। सो लूण-सीस-कमलो कओ तुहाभंजिअ-भडेहि ॥७०॥ नय-पडिअग्गिर अणुवच्चिओ सि दाहिण-दिसाइ तुममिहि । विढविअ-कुंकुण-सत्तंग-संपओ अज्जिअ-जसोह ॥७१॥ पहु सिरि-नयर-सिरीए जुज्जसि जुप्पसि तिलंग-लच्छीए । जुज्जसि कंचि-सिरीए भुंजतो दाहिणि इण्हि ॥७२॥ सिंधु-वई तुह चमढण-वेलिल्लो तुमइ दिन्न-चड्डणओ । न जिमइ दिवसे जेमइ, निसाइ पच्छिम-दिसाइ तह ॥७३॥ तंबोलं न समाणइ कम्मण-काले वि नण्हए जवणो । विसए अ नोवभुंजइ भएण तुह वसुह-कम्मवण ॥७४॥ मणि-गढिअ-कणय-घडिआहरणे उव्वेसरो वर-तुरंगे । संगलिअ लक्ख-संखे पेसइ तुह रिउ-असंघडिओ ॥७५॥ हरिसमुरिआणणो सो महि-मंडण कासि-रीडणो राया । टिविडिक्कइ तुह वारं हय-चिंचिअ-हत्थि-चिंचइअं ॥७६॥ चिंचिल्लिओ अखट्रिअ-भत्तीइ तमम्मि मगह-देस-निवो । अक्खुडिअ-पुव्व-गव्वो अतुट्टिअं पाहुडं देइ ॥७७॥ अखुडिअ-गमणमतोडिअ-मदमतुडिअ-लक्खणं महेभ-कुलं । अणिलुक्कंत सिणेहो गउडो पेसीअ तुज्झ कए ॥७८॥ लुक्किअ-जसमुल्लूरिअ-पयावमुल्लुकिअ-मेइणि काही । घोलंती तुह सेणा भय-धुलिअं कन्नउज्जेसं ॥७९॥ तुज्झ पहल्लिर-सिविरे घुम्माविअ-ढंसमाण-कुम्मम्मि । दिढे वि दसण्ण-वई विवट्टमाणो भए मरही ॥८०॥
११८
Page #130
--------------------------------------------------------------------------
________________
प्रोञ्छन्तः श्रमसलिलं, कज्जललिप्तानना भटास्तेन । केऽपि निरासितयशसः, परतेजोमार्जनेन विद्रविताः ॥६७॥ प्रभुनाम्नः ख्यापयिता, धर्यो रिपुनाममार्जको हननात् । गूर्जरलोकोऽभग्नः, शरैरभाङ्क्षीद् गजं तस्य ॥६८॥ खण्डितशरप्रपञ्चः, सूदितसुभटो निषूदिताश्वश्च । संभग्नशिरस्त्राणो, भग्नः कुङ्कुणपतिर्बाणैः ॥६९॥ भग्नच्छत्रविभग्नविजयपताकः स कुङ्कणस्वामी । संछिन्नशिरःकमलो, विहितस्तव विक्षतैः सुभटैः ॥७०॥ नीत्यनुसारिन्नधुना, त्वमनुसृतो ह्यसि दिशाऽपि दक्षिणया । प्राप्तयशा अस्यधिगत-कुङ्कुणसप्ताङ्गसम्पत् त्वम् ॥७१॥ युक्तस्तिलङ्गलक्ष्म्या, श्रीनगरश्रियाऽपि चाऽस्ति संयुक्तः । काञ्चीश्रियाऽपि युक्तो, भुञ्जानो दक्षिणां हरितम् ॥७२॥ सिन्धुपतिस्तव भोजनवेलावानसि प्रदत्तभोजनकः । नाऽत्ति हि दिवसे भुङ्क्ते, रात्रौ पश्चिमदिशः स्वामी ॥७३॥ ताम्बूलं न श्रयते, भोजनकालेऽपि नास्ति यवनेशः । विषयांश्च नोपभुङ्क्ते, पृथ्वीपालक ! तवैव शङ्कातः ॥७४॥ मणिघटितकनकघटिताभरणान्युव्वेश्वरः सुभगवादान् । संघट्य लक्षसङ्ख्यान्, प्रहिणोत्यरिवृन्दविश्लिष्टः ॥७५॥ हर्षप्रसन्नमुखः स, भूमण्डनहद्यकाशिनगरीनृपः । तव मण्डयति द्वारं, ह्यमण्डितहस्तिसल्लसितम् ॥७६॥ लसितोऽखण्डितभक्त्या, त्वयि वीरवरे नृपो हि मगधेशः । सन्त्रुटितपूर्वगर्वोऽनुपमं तुभ्यं ददाति प्राभृतकम् ॥७७॥ अतुडितगमनमखण्डितलक्षणमस्खलितमदं महेभकुलम् । गौडोऽनपगतप्रीतिः, प्रेषितवान् तव कृते राजन् ! ॥७॥ विगलितकीर्ति विरहिततेजसमकरोच्च भग्नपृथिवीका । प्रचलन्ती तव सेना, भयद्रुतं कन्यकुब्जेशम् ॥७९॥ विचरणशीले शिविरे, घूर्णितचलकच्छपे महाराजः । दृष्टेऽपि दशार्णपतिः, प्राणानमुञ्चत् भयक्लान्तः ॥८०॥
११९
Page #131
--------------------------------------------------------------------------
________________
अणकढिअ-दुद्ध-सुइ-जस पयाव-घम्मट्टिआरि-जस-कुसुम । तुह गंठिअ-वूहेणं विरोलिओ तस्स पुर-जलही ॥८१॥ मंथिअ-दहिणो तुप्पं व घुसलिआ तस्स नयरओ कणयं । गिण्हंतेहिं तुह सेणिएहिँ अवअच्छिआ अम्हे ॥८२॥ तस्स चमूवा समरे णुमज्जिआ तुह भडेहि णिव्वरिआ । णिज्झोडणेहि णिल्लूरणा वि अणलूरिअ-पयावा ॥८३॥ छिंदिअ-छत्त-दुहाविअ-सिरक्क-णिच्छल्लिउत्तमंगाण । उद्दालिआ दसण्णाण सिरी चोलुक्क-सुहडेहिं ॥८४॥ तिहुअण-जस-ओअंदण-रिउ-अच्छेदण-चमूइ पहु तुज्झ । मलिऊण बलं तिउरीसरस्स परिहट्टिओ माणो ॥८५॥ चड्डिअ-नक्का मड्डिअ-महा-तडा खड्डिआखिलारामा । पन्नाडिअ-द्रह-पंका तुज्झ चमूए कया रेवा ॥८६॥ पय-मढिअ-पंसु-मसिणे चूलुचुलमाणाणिलेण कय-फन्दे । रेवा-तड-लय-गहणे निव्वलिओ तुह बल-निवेसो ॥८७॥ नीपाइअ-जय-कज्ज अविअट्टिअ-विक्कमं बलं तुज्झ । अविलोट्टिअ-जय-महुराहिवस्स फंसावही विजयं ॥८८॥ अविसंवाइ-परिक्खा तणु-पक्खोडण-झडंत-पंसु-कणा । णीहरिअ-नक्क-चक्कं तुह तुरया जउणमुत्तिन्ना ॥८९॥ रिउ-अक्कंदावणयं अखिज्जमाण-हयमजूरिएभकुलं । अविसूरत-चमूवं पत्तं महुराइ तुह सेन्नं ॥१०॥ उत्थंघिअ-वारेहिं रुधिअ-मग्गेहि हक्कमाणेहिं । कुज्झंतेहिं तुह सेणिएहिँ जूराविआ रिउणो ॥११॥ तुह जायंत-पवेसे सिन्ने जम्मंत-परिहवो तत्तो । तडिअ-भओ महुरेसो न तडवीआजि-संरंभं ॥९२॥ तड्डिअ-कणय-वएणं विरल्लिअं थिप्पिऊण तुह सेन्नं । महुरेसो तणिअ-दिही रक्खीअ निअं पुरिं महुरं ॥१३॥ सग्गल्लिअंत-जस-भर जंगल-वइणोवसप्पिउं दिण्णा । तुह रिउ-झंखावण-घण-पयाव-संतप्पिएण गया ॥९४॥
१२०
Page #132
--------------------------------------------------------------------------
________________
शुद्धपयःसितकीर्ते !, तेजोधर्मप्रणष्टरिपुकुमुदः । तव दृष्ट्वा व्यूहेन विलोडितस्तस्य पुरो जलधिः ॥८१॥ नवनीतमिवोन्मथितात् तस्य नगरतो मनोरमं कनकम् । गृह्णद्भिस्तव सैन्यैर्वयमेते ह्लादिताः सर्वे ॥८२॥ तस्य चमूपाः समरे प्रविदारकास्तव भटैः खलूच्छिन्नाः । आच्छिन्नप्रतापा अपि, मृता निषण्णा रणे पतिताः ॥८३॥ छिन्नच्छत्र-विदारितशीर्षत्र-विदारितोत्तमाङ्गानाम् । छिन्ना दशार्णलक्ष्मीवीरैश्चौलुक्यराजस्य ॥८४॥ त्रिभुवनकीर्तिग्राहक-रिपुविध्वंसिकया प्रभोश्चम्वा । उपमृद्य बलं त्रिपुरीश्वरस्य परिमर्दितो मानः ॥८५॥ चूर्णितनक्रा मर्दितमहातटा भग्नबहुतरोद्याना । मृदितसरोवरपङ्का, भवतश्चम्वा कृता रेखा ॥८६॥ पदमृदितपांसुमृदिते, प्रवहद्वातेन कृतमनाक्कम्पे । रेवायास्तटविपिने, स्कन्धावारोऽभवद्भवताम् ॥८७॥ निष्पादितजयकार्य, नियूंढपराक्रमं बलं भवतः । सुविनिश्चितजयमधुराधीशस्य जिगाय बहुसैन्यम् ॥८८॥ अविसंवादिपरीक्षास्तनुधूनननिष्पद्रजोलेशाः । शब्दितमधुरकदम्बां, मथुरामतरन् भवद्वाहाः ॥८९॥ प्रतिपक्षाक्रन्दनकं, हृषिततुरङ्गं प्रसन्नगजवृन्दम् । अत्यन्तसुखिचमूपं, प्राप्तं मथुरां भवत्सैन्यम् ॥१०॥ वेष्टितनगरद्वारैर्वारितमार्गर्जनान् निषेधद्भिः । कुप्यद्भिस्तव सैन्यैर्नीताः कोपं भवद्रिपवः ॥९१॥ सैन्ये कृतप्रवेशे, तव तस्माज्जायमानपरिभावः । व्याप्तायो मथुरेशस्तत्याज नियुद्धसंरम्भम् ॥१२॥ व्याप्तसुवर्णचयेन, तृप्त्या व्याप्तं ततं भवत्सैन्यम् । पूर्णधृतिर्मथुरेशोऽरक्षत् स्वीयां पुरी मथुराम् ॥९३॥ स्वर्गोत्पद्यशोभर जङ्गलपतिनोपसर्पितुं दत्ताः । तव रिपुसन्तापकघनतेजस्तप्तेन सिन्धुरा राजन् ! ॥९४॥
१२१
Page #133
--------------------------------------------------------------------------
________________
जस-ओअग्गिअ-तिहुअण तेण कया भत्ति-वाविअ-मणेण । असमाणिअ-गुण वरं समाविउं तुज्झ विन्नत्ती ॥९५।। तइ पेल्लिओ तुरुक्को, ढिल्ली-नाहो गलत्थिओ तह य । अड्डक्खिओ अ कासी रिउ-घत्तण छुह महाएसं ॥९६॥ सोल्लिज्जइ जह लुद्धो, तह मं णोल्लेसु रिउ-हुलण-कज्जे । कं कं परीसि न तुम किण वि खिविआ न तुज्झाणा ॥९७॥ गुलगुंछिऊण हत्थं उत्थंघिअ तज्जणि भणामि इमं ।। हक्खुविअं तुमए च्चिअ मह दुग्गं वेरि-उक्खिवण ॥९८॥ अल्लत्थिअ-विजय-धजा उब्भुत्तिअ-गुरुकरा तुहं करिणो । उस्सिक्कंति गिरि पि हु रिउ-णीरव कं न अक्खिवसि ॥१९॥ कमवसइ जुण्ण-कोलो लुट्टइ सेसो सुअंति दिक्करिणो । कुम्मो वि लिसइ अणवेविरम्मि तइ पहु मही-धरणे ॥१००॥ . आयंबमाण-हिअया आयझंतीउ विलविरा रणे । झंखंत-सिसू तुह रिउ-वहूउ दइए वडवडंति ॥१०१॥ मय-लिपिअ-वसुहा तुह न णडंति गया विरंति न य तुरया अणगुप्पंत-परक्कम अवहावसु को तुह दुइज्जो ॥१०२॥ संदुमइ घरं संधुक्कइ पुरमब्भुत्तए तहोज्जाणं । तुज्झ पयावग्गि-पलीविआण सव्वं पि तेअविअं ॥१०३॥ जइ संभावसि सग्गे लुब्भसि अह अहिंद-लोगम्मि । खउरइ इंदो पड्डहइ वासुगी ता खु अक्खोह ॥१०४॥ आरभिअ मए भत्तिं आढविअं पहु तुमम्मि दासत्तं । आरंभिअं खु निव्वाहिस्सं कत्तो उवालंभो ॥१०५॥ पच्चारंति न गरुआ झंखण-जोग्गे वि मारिसम्मि जणे । जइ कह वि अभत्तो हं वेलवणिज्जो तुह अहं ता ॥१०६।। इअ विन्नत्तिं सोउं राया जम्भायंत-जणम्मि निसीहे । लच्छि-विअंभिअ-णिसुढिर-सयणे णिव्वाओ लोअण-वीसामे ॥१०७॥
१२२
Page #134
--------------------------------------------------------------------------
________________
कीर्तिव्याप्तत्रिभुवन !, तेन सद्भक्तिव्याप्तहृदयेन । विहिता वैरं हित्वा, तव विज्ञप्तिनराधीश ! ॥१५॥ म्लेच्छाधिपतिः क्षिप्तो, दिल्लीनाथस्त्वया तथा क्षिप्तः । काशीशश्च नरेन्द्र !, क्षिप रिपुनाशन ! ममाऽऽदेशम् ॥१६॥ सर्वस्मिन्नपि कार्ये, सेवकमिव मां नियुक्ष्व भूपाल ! । कं कं त्वं न क्षिपसि ?, न क्षिप्ता क्वाऽपि भवदाज्ञा ॥९७॥ वैर्युत्क्षेपणहस्तमुत्क्षिप्य च तर्जनीं वदामीत्थम् । भवतैव समुत्क्षिप्तं, मम दुर्गं नाऽन्यसंवेक्ष्यम् ॥९८॥ उत्क्षिप्तजयपताका, उल्लासितगुरुकरा भवत्करिणः । पर्वतपाटनयोग्यास्तत् त्वं सर्वान् समाक्षिपसि ॥९९॥ आद्यवराहः स्वपिति, शेषः स्वपिति स्वपन्ति दिक्करिणः । कमठश्चाऽपि स्वपिति, त्वयि भूमीधारकेऽकम्प्रे ॥१००॥ साध्वसकम्पितहृदयाः, कम्पितदेहा वनेऽपि विलपित्र्यः । विलपितशिशवो दयिते, तव रिपुदयिता रुदन्तीव ॥१०१॥ मदसिक्तभूमयस्ते, तुरगाः करिणश्च सन्ति नो व्यग्राः । अप्रतिहतशौण्डीर !, नाऽस्त्यन्यः कोऽपि तव शत्रुः ॥१०२॥ नगरं गृहमुद्यानं, तव तेजोऽनलप्रदीप्तमनुजानाम् । अधिकेनाऽलमिदानीं, चन्दनमपि दाहकं तेषाम् ॥१०३॥ अक्षोभ ! त्वं लुभ्यसि, स्वर्गेऽप्यथवा च नागलोकेऽपि । इन्द्रः क्षुभ्यति शेषः क्षुभ्यति मनसा च वपुषाऽपि ॥१०४॥ आरभ्य मया भक्तिं, त्वयि दासत्वं प्रभो ! समारब्धम् । आरब्धं च समाप्ति, नेता कस्मादुपालम्भः ? ॥१०५॥ भर्त्सनयोग्ये गुरुका, नैव विरूपं वदन्ति मादृक्षे । अहं भवेयमभक्तो, यदि नूनं शिक्षणीयस्तत् ॥१०६।। इति विज्ञप्तिं श्रोतुं, राजा जृम्भज्जनेऽर्धरात्रेऽपि । लक्ष्मिविजृम्भितशयने, विश्रान्ते नैत्रविश्रामैः ॥१०७॥
१२३
Page #135
--------------------------------------------------------------------------
________________
स्मरणाञ्जलिः
पण्डितवर्यो वेदान्ताचार्यः श्रीवजलाल-उपाध्यायमहोदयः (दिवङ्गतः ६-१०-२०१८)
डो. मधुसूदन म. व्यासः जामनगरं नगरं गूर्जरराज्यस्य सौराष्ट्रप्रदेशस्य लघुकाशीति विश्रुतम् । अत्र नगरे बहवो वैयाकरणाः नैयायिकाः, वेदान्तिनः, कवयः, साहित्याचार्याः, षड्दर्शनविदश्च पण्डिता अभवन् गते शतके। जामनगरस्य विद्याप्रियाणां राज्ञां प्रयत्नैः प्रेरणया सहयोगाच्च बहवो विद्यार्थिनः काशीं गत्वा विविधशास्त्राणि च सम्यक् पठित्वा पुनः स्वनगरे समायान्ति स्म, नगरस्थेषु च विद्यालयेषु जिज्ञासून् विद्यार्थिनश्चाऽध्यापयन्ति स्म । एवं च, जामनगरस्य समग्रे सौराष्ट्रप्रदेशे गूर्जरराज्ये च विद्याधाम इति प्रसिद्धिर्जाता ।
एतादृशानां शास्त्रविदां पण्डितानामन्तिमश्रेण्यास्तेजस्वी नक्षत्र इव विद्योतमानः पण्डितवर्यः श्रीव्रजलाल-उपाध्यायो नवत्यधिकवयाः ६-१०-२०१८ तमे दिनाङ्के दिवङ्गतः ।
तारुण्य एवाऽधीतवेदान्तविद्यो व्याकरण-साहित्यादिषु च पारगामी पण्डितवर्योऽयं स्वीयैः संस्कारशील-सौजन्य-निःस्पृहतादिगुणैः समग्रेऽपि प्रदेशे प्रथितयशाः समासीत् । विविधशाखीयशास्त्राणां पारगामित्वात् तस्य सकाशाद् यद्यपि बहवो विद्यार्थिनोऽधीतवन्तस्तथाऽपि मुख्यतया तु जैनसाधु-साध्व्यो मुमुक्षवश्चाऽध्ययनं कृतवन्तः पाण्डित्येन सह च गुणवैभवं सुसंस्कारांश्चाऽप्यलभन्त । पण्डितवर्येणाऽनेन स्वीयं समग्रमपि जीवनं ज्ञानदानेनाऽर्थान्निर्वाहार्थमध्यापनवृत्तिं कुर्वतैव यापितम् । स्वकुटुम्बस्याऽऽर्थिक्यावदशायामपि तेन कदाऽपि स्वजातौ सहजवृत्तितया परिगण्यमानं पौरोहित्यं याचकवृत्तित्वं वा नैवाऽऽश्रितम् । सर्वथा निःस्पृहतया गौरवं रक्षता तेन विरक्तभावोऽपि तथाऽऽत्मसात् कृत आसीद् यथा साधुतानिर्लोभतादिगुणैः समग्रेऽपि समाजे तस्य कीर्तिः प्रसृताऽऽसीत् साधवः श्रेष्ठिनश्चाऽपि तस्याऽऽदरसत्कारादि कुर्वाणा अदृश्यन्त । एतादृशस्य श्रीव्रजलाल-उपाध्यायमहोदयस्य प्रणामाञ्जलिं कृत्वा विरमामि । अपि च,
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः । इत्थं मानद ! नाऽतिदूरमुभयोरप्यावयोरन्तरं । यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥
१२४
Page #136
--------------------------------------------------------------------------
________________ विशेषः जीवनवने द्वौ मार्गों पृथग् जातौ / मया खलु अल्पोपयुक्तो मार्गः चितः .... तेनैव च सर्वोऽपि विशेषः साधितः .... - रोबर्ट फ्रोस्ट