SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कथा साधुता मुनिश्रुताङ्गचन्द्रविजयः एको युवा साधुर्गङ्गातीर उटजं निर्माय निवसति स्म । वस्तुतस्तु स्वभावेनाऽलसः स जीवनगतविपद्भिस्त्रस्त आसीत् । अन्यदा स स्वकीयोटजस्याऽङ्गण उपविष्ट आसीत् । तदा गङ्गानीरेणोह्यमानं किञ्चिद् महद् भास्वरं च वस्तु तस्य दृष्टिपथ आगतम् । शीघ्रमेव स गङ्गाप्रवाहे कूदितवान् । महता परिश्रमेण प्रतिश्रोतसि गमनं कुर्वता तेन तद् वस्तु प्राप्तम् । तद् भासुरं वस्तु रजतमयं पात्रमासीत् । तत् पात्रं गाढमालिङ्ग्य तेन प्रतितरणं प्रारब्धम् । तदा तेन गङ्गाप्रवाहोऽतीवप्रबलोऽनुभूयमान आसीत् । तरणे काठिन्यमनुभूतम् । स यद्यपि युवा आसीत् किन्त्वेकः पाणिः पात्रग्रहणे व्यस्ततां गतः । अतस्तरीतुमेक एव हस्तो रिक्त आसीत् । अहो ! निःशेषं निजबलमुपयुक्तं, किन्तु यावत् तीरमागन्तुं प्रयतते तावदेव तीरं सुदूरं ज्ञायते । अन्ततो यदा ज्ञातं यद् 'हस्तद्वयोपयोगं विना स्वीयजीवनत्राणमशक्यप्रायः' तदा स तत् पात्रं त्यक्त्वा तरन् तीरमापन्नः । तीरमासाद्य श्रमं चाऽपनीय स गङ्गानीरस्थितस्य तत्पात्रस्योपरि दृष्टिं स्थापितवान् । निःश्वस्य तेनोक्तं - "रे ! ममैतद् भास्वरं रजतमयं पात्रं प्रवहितं जातम् ।" तटस्थित एको वयोवृद्धः प्रौढो मुनिरिदं मानवीयस्वभावदर्शकं प्रसङ्गं पश्यन्नासीत् । स युवसाधोः सामीप्यं संप्राप्तः । तस्य स्कन्धोपरि हस्तं निधायोक्तं यद् - "भ्रातः ! तद्रजतमयं पात्रं तूह्यमानं सत् स्वीयमार्गे गच्छदासीत् । तेन साकं ते न कोऽपि सम्बन्धः । तत् त्वदीयं तु नैवाऽऽसीत् । निष्कारणं त्वं गङ्गाप्रवाहं गत्वा तद् गृहीतवान् पश्चाच्च स्वीयजीवनरक्षणार्थं त्यक्तवान् । किं न्वेतावत्येव काले तत् त्वत्स्वामित्वमुपगतम् ? सज्जन ! ईश्वरेण यत् तुभ्यं दत्तं तस्याऽऽनन्दमवश्यमनुभवः, तत्तु समीचीनमपि। किन्तु यत् तव सामीप्यं त्यजति तदपि तावतैवाऽऽनन्देन त्यज । अस्माभिरेतावदेव स्मर्तव्यं यद् "जगत्यस्मिन्नशेषं वस्तु तात्कालिकमेव लब्धमासीत् । न कदाऽपि किमपि वस्तु सार्वकालीनमस्माकम् । अतः कथं वृथा शोकः कार्यः ?" एवमुक्त्वा वयोवृद्धो मुनिः स्वीयपन्थानं प्रत्यचलत् । स युवसाधुः प्रायोऽद्य ऐदम्प्राथम्येनैव साधुताया अनुभवं कृतवान् । सोऽपि सानन्दो भूत्वा गङ्गाप्रवाहं पश्यन्नासीत् ।। (मूलम् - 'डॉ. आई.के. वीजलीवाला' इत्यनेन लिखितं 'हूंफाला अवसर' इति पुस्तकम् ।)
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy