________________
कथा
महान् वैज्ञानिकः
मुनिमलयगिरिविजयः
"आल्बर्ट आइन्स्टाइन" खलु विश्वप्रसिद्धो वैज्ञानिकः । सकले विश्वे तस्य गभीरविद्वत्तायाः कारणेनाऽनेकैर्देशनेतृभिर्वैज्ञानिकैश्चाऽपि स्वस्य देशे तं नेतुं बहवः प्रयत्नाः कृताः । परं स अमेरिकादेशे एव न्यवसत् स्वस्य संशोधनकार्ये चाऽहर्निशं मग्नोऽभवत् ।
अनेकासां दुर्गमाणां जटिलानां च परिस्थितीनामुपाया विज्ञानाधारितास्तेन शोधिताः । यदा काचिदसाध्यसमस्योद्भवेत् तदा आल्बर्ट आइन्स्टाइनः पत्रोपरि G इति लिखति स्म । एतद् दृष्ट्वा तस्य मित्रेणैकदा पृष्टं - "भो महोदय ! भवता केषाञ्चित् पत्राणामुपरि G इति सज्ञाक्षरः किमर्थं लिखितः?' इति । आइन्स्टाइनोऽवदत् - 'G नाम GOD अर्थाद् विश्ववत्सलो भगवान् । यदा मया किञ्चिन्नाऽवबुध्येत तदा तं जटिलप्रश्नं भगवते समर्पयामि । ततस्तस्य प्रश्नस्योत्तरं प्रभुरवश्यं ददाति' । एवं च तादृशस्याऽपि वैज्ञानिकस्य तस्य भगवति श्रद्धा निश्चलाऽऽसीत् ।
एकदा, एको विद्वान् आइन्स्टाइनसमीपे आगच्छत् अपृच्छच्च - 'भवान्महान् वैज्ञानिकः संशोधकश्चाऽस्ति । किन्तु भवतः प्रयोगशाला कुत्राऽस्ति ? तामहं द्रष्टुं बहूत्कण्ठितोऽस्मि' । तदा स्मितं कुर्वाण आल्बर्ट आइन्स्टाइनः स्वीयां तर्जनीमङ्गलीमू/कृत्य मस्तिष्कमुपादर्शयत् । अर्थात् तेन सूचितं यन्मे मस्तिष्कमेव मम कृते प्रयोगशालाऽस्ति । यतस्तत्रैव सर्वाऽपि सामग्री तिष्ठति । नूनं महान्तो गुणानपेक्षन्ते न साधनानि ।
~~~~~~~