________________
कथा
शाखाच्छेदः
मुनिश्रुताङ्गचन्द्रविजयः कश्चनाऽऽरबस्तानीयो राजा एकस्मै भारतीयाय राज्ञे द्वौ श्येनावुपहाररूपेण दत्तवान् । द्वावपि जात्याऽऽखेटकावास्ताम् । राजा द्वावपि श्येनौ राजकीयाय पक्षिपालकाय शिक्षणार्थं दत्तवान् ।
मासानन्तरं पक्षिपालको राजानं ज्ञापितवान् यद् "अन्यतरः श्येन उड्डयनक्षमो मृगयाकुशलश्च संजातः किन्त्वपरः प्रथमदिनादारभ्याऽद्यपर्यन्तं शाखां त्यक्त्वोड्डयनाय लेशमपि न यतते । मम सर्वे प्रयत्ना निरर्थका जाताः ।"
राजाऽपि साश्चर्यो जातः । स ग्रामान्तरेभ्यो विविधान् पक्षिशास्त्रज्ञानाकारितवान् । नैके पक्षिशास्त्रनिष्णाताः समायाताः । सर्वेऽपि भृशं प्रायतन्त किन्तु शिलायां वृष्टिपात इव न कोऽप्युपायस्तं श्येनमुड्डाययितुमशक्नोत् । सर्वे पक्षिशास्त्रप्रवीणाः श्रान्त्वा निष्फलतां च प्राप्य निर्गताः ।
अन्यदा मलिनवस्त्रयुक्त एकः कृषिक आगतः । स राजानं विज्ञापितवान् यद् “महाराज ! सकृदहमपि यते । भवान् वातायनेन पश्यतु, अहं सम्प्रत्येव श्येनमुड्डयनरतं विदधामि ।"
यद्यपि राजा न व्यश्वसित् तॉपि प्रासादस्य वातायने समुपस्थितः । कृषिकः श्येनस्य निकषा गतः ।
कृषीवलस्य गमनानन्तरमल्पेनैव कालेन राजा विस्मयान्वितो जातः । तेन दृष्टं यद् द्वावपि श्येनौ गगने उच्चैविहरन्तावास्ताम् । 'अपरः श्येनोऽप्युड्डयनरतो जातः' इति ज्ञात्वा स सानन्दः संजातः । कृषीवलमत्राऽऽनेतुं भूपतिर्भूत्यं प्रेषितवान् । कृषीवल आगतो नृपतिना च पृष्टो यद् - "अयि ! कथं त्वयैतादृशश्चमत्कारो विहितः ? अधिमासद्वयं कश्चन शकुनिशास्त्रशिरोमणिरपि यमुड्डाययितुं न शक्तस्तं श्येनं त्वं स्तोककालेनैवोड्डयनक्षम कृतवान् !।'
कृषीवलोऽवदद् यद् - "न किमपि दुष्करं, स श्येनो यस्याः शाखाया उपर्युपविशन्नासीत् तां शाखामेवाऽहं छिन्नवान् !" ।
___ ईश्वरेणाऽस्मभ्यं सर्वेभ्योऽप्युड्डयनार्थममर्यादाः शक्तयो दत्ताः, किन्तु वयं केवलं सुरक्षारूपां सुखशीलतारूपां सरलतारूपां वा शाखामारुह्याऽखिलजीवनं यापयामः । आशंसेम यदस्मदीयजीवनेऽप्येतादृशः कश्चन शाखाया विमोचकः कृषिकः प्रविशेत् ।
(मूलम् - 'डॉ. आई.के. वीजलीवाला' इत्यनेन लिखितं 'हूंफाला अवसर' इति पुस्तकम् ।)
९४