________________
राजाज्ञां शिरोधृत्य रक्षिमुख्येनाऽचिरेण स कारागृही बन्दिगृहादमुच्यत ।
इयं लघ्वी कथा प्रबोधयत्यस्मान् यन्महापुरुषस्याऽग्रे नाऽभ्यर्थनीयं कदाऽपि क्षुद्रं द्रव्यम् । तत्पाबें तु सर्वोत्तम एव पदार्थः प्रार्थयितव्यश्चतुर्थबन्दिवत् । वयं परमात्मनः प्रासादं प्रभुदर्शनार्थं यामः, दर्शनं कुर्मः, परमेश्वरं पूजयामः पश्चाच्च प्रार्थनामपि कुर्मः । परम्, अस्माकं प्रार्थना कीदृशी निम्ना वर्तते तद् वयं स्वयमेव जानीमः । परमात्मानः समक्षं वयं केवलं भौतिकेच्छामेव प्रस्तुमः । इतः परमात्माऽस्मभ्यं यत्राऽनन्यं सुखं विद्यते तन्मोक्षपदमपि प्रदातुं शक्नोति । यथा खर्वपतेरर्बुदपतेर्वा पार्श्वे दशरूप्यकाणां याचनाऽनुचिता भवति तथा मोक्षपतेः प्रभोः समक्षमसारस्य संसारसुखस्य याचनाऽपि नूनमनीं भवति । विज्ञाय सत्यमिदमागम्यताम्, अद्यतनदिनाद् वयं कृतसङ्कल्पा भवेम । परमेश्वरस्य सम्मुखं कदाऽपि सांसारिकसुखस्य याचनां न कुर्याम । अपि तु आत्मिकसुखस्य मोक्षस्य सर्वपदार्थसारस्यैव प्रार्थनां कुर्याम ।
(४) अत्रैव स्वर्गः चीनजनपदीयो महाँस्तत्त्वचिन्तकः कन्फ्युसियसः । एकदा कन्फ्युसियसस्य समीपे कश्चित् सेनाधीश आगतः । 'वांगबी' इति तन्नाम । विचारकं शीर्षेण प्रणम्य सेनाधीशोऽयं पृष्टवान् - "महात्मन् ! स्वर्गः कः ? नरकश्च कः?"
अथ कन्फ्युसियसोऽकल्प्यप्रतिक्रियां प्रदत्तवान् । स सेनाधीशाय प्रश्नयोरुत्तरं न दत्तवान्, अपि तु क्रुद्धवान् – “त्वत्सदृशो मूर्खः कथं सैन्ये प्राविशत् ? त्वं तु खड्गधारणमपि न जानासि..."
कन्फ्युसियसस्य तिरस्कारवचनेन सेनाधीशोऽप्यत्यन्तं क्रुद्धोऽभवत् । “मत्सदृशो महान् सेनाधीशः साधुनाऽमुनाऽपमानितः' इति विचार्य स गजितवान् – “साधो ! मौनेन तिष्ठ । अन्यथाऽमुनाऽसिना तव शीर्ष छेत्स्यामि ।"
__ क्रोधेनाऽत्यन्तं कम्पमानः सेनापतिः कन्फ्युसियसेन कथितः - "भ्रातः ! अयं क्रोध एव नरकः कथ्यते ।" इदं श्रुत्वा तत्त्वचिन्तकेन वचनासिना प्रहत इव सेनापतिर्मूढो सञ्जातः । तत्त्वचिन्तकस्य विशिष्टबोधदानशैलीं सोऽवगतवान् । स निजनयनाश्रुभिः कन्फ्युसियसस्य चरणौ प्रक्षालितवान् क्षमां च याचितवान् । तदा कन्फ्युसियसो मार्मिकं बोधितवान् – “महानुभाव ! अयं शमभाव एव स्वर्गः कथ्यते । स्वर्गो नाऽस्त्यन्यत्र, परमत्रैवाऽस्ति । अतस्त्वया नित्यं क्रोधमुक्तं शमभावमयं च जीवनं जीवनीयम् ।"
चीनदेशीयेन तेन सेनापतिना तदा कराञ्जलिः कृता, कन्फ्युसियसस्य पार्वे क्रोधत्यागस्य नियमोऽङ्गीकृतः स्वजीवने च शश्वत् स्वर्गोऽवतारितः ।
किं नाऽनुभूयते यदीदृशं नियमं स्वीकृत्याऽस्माभिः सर्वैरपि स्वजीवनं स्वर्गमयं रचयितव्यं सुखमयं च कर्तव्यमिति ?
९३