________________
अत एव २६००वर्षेभ्यः प्राक् परमात्मना परमकृपापरेण श्रमणभगवन्महावीरेणाऽपि सूक्ष्मजीवदयापरिपालनं प्ररूपितम् । अद्यापि तदनुगामिनो नैके साधवो जनाश्चैतादृशीं जीवरक्षां कुर्वन्ति । आगम्यतां, वयमपि तं महान्तं तीर्थकरमनुगच्छेम, सूक्ष्मजीवरक्षया च जीवनमलङ्कर्याम । एवं च शुभमार्गस्य चयनं कुर्याम ।
(३) सारमयी प्रार्थना
एकदा नगरस्य राजा सचिवं समाहूतवान् सूचितवांश्च – "मन्त्रिवर्य ! वयमद्य कारागृहे बन्दिनः सम्पृणच्मः । बन्दिनाञ्चाऽवस्थाया निरीक्षणं कुर्मः ।"
राजाज्ञां शिरोधृतवानमात्यः । कतिचित्क्षणानन्तरं च नैकै राजसेवकैरमात्यैश्च सह राजा प्रस्थितवान् बन्दिगृहं प्रति । कारागृहं प्राप्य भूपाल आदिशद् रक्षिमुख्यं - "सर्वे कारागृहिण आहूयतामत्र । अहं तान् परिचेतुमिच्छामि ।"
स्तोकसमयेन तस्मिन् विशालकक्षे बन्दिन आगतवन्तः । नृपं च प्रणमन्तः सन्मुखमुपविष्टवन्तस्ते। पश्चात् प्रसन्नमना राजा तान् कथितवान् – “भो मित्राणि ! अद्य प्रमुदितोऽहम् । अतो युष्माकं कष्टेष्वेकतमं दूरीकरिष्यामि । आनुपूर्येण युष्माकं समस्या कथ्यताम् ।"
- क्रमशः सर्वबन्दिभिः स्वपीडा प्रस्तुता । एकः कारागृही कथितवान् - "महाराज ! रात्र्यां सूच्यास्या मशका मां पुष्कलं दशन्ति । अतो मशकहरी वाञ्छाम्यहम् ।"
"अस्मै मशकहरी यच्छ ।" राजा सैनिकमादिशत् । "राजन् ! अहमतिबाष्पमनुभवामि नित्यम् ।" अपरो बन्दी अवदत् । "अस्मै तालवृन्तं(Fan) देयम् ।" नृप आदिष्टवानधिकारिणम् । "अहं स्नानार्थं स्नानगृहं काङ्क्षामि ।" तृतीयोऽपराधी ब्रूतवान् । "अस्मै स्नानगृहस्य सुखं दातव्यम् ।" राज्ञाऽऽदिष्टं पुनः ।
अन्तत एकोऽपराधी समुत्थितवान् राज्ञः समीपं नतशीर्षः स स्थितवान् नम्रगिरा चोक्तवान् - "कृपालो ! अब मम न मशकानां कष्टं वर्तते, न तालवृन्तस्याऽऽवश्यकता वर्तते, न च स्नानगृहस्य समस्या विद्यते । परं मह्यं त्विदं कारागृहमेव न रोचते । इतो ममाऽपराधोऽप्यतिसाधारणोऽस्ति । किञ्च बन्दिगृहान्मुक्तिं प्राप्याऽहं भविष्यति काले शोभनं जीवनं रचयितुं दृढसङ्कल्पोऽस्मि । अतः कारागृहान्मह्यं मुक्तिमर्पयतु भवान् ।"
तस्य नम्रवचनानि नृपस्याऽन्तःकरणमस्पृशन् । राजाऽतः प्रेम्णा सहाऽऽदिष्टवान् - "भोः ! रक्षिमुख्य ! अस्य बन्दिनो बन्धनानि शीघ्रं विसृज, सद्यश्च तस्मै मुक्तिं प्रयच्छ । नूतनजीवनस्याऽवसरोऽस्मै देयः ।"