SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ उत्कष्टमयवृत्तमपि स्वीकार्यं मुदा ।" आपणिकोऽभिभूतो गणितज्ञस्येममुत्तमं विचारबिन्दुं श्रुत्वा । स्वजीवनेऽपि शिक्षामिमामाचरितुं तत्परोऽभूत् सः । (२) उत्तमा जीवरक्षा । अस्मिन् जगति सर्वे जीवा जीवितुं प्रयतन्ते । परमत्यल्पजना अन्येषां सत्त्वानां जीवनपरित्राणाय प्रयतन्ते । यैः स्वजीवनं सम्यग् जीवितुं प्रयस्यते ते सामान्यजनाः सन्ति । परमन्येषां जीवनपरित्राणाय यैः प्रयस्यते ते नितरां श्रेष्ठजनाः सन्ति । अत्र प्रस्तुता कथा प्रसिद्धस्यैतादृशस्य श्रेष्ठजनस्यैव जीवनमुत्तमतया दर्शयति - भारतजनपदानामासीत् स महान् स्वातन्त्र्यवीरः । तन्नाम महात्मगान्धिवर्यः । प्रत्यहं प्रातराशे महात्मगान्धिवर्यो जलेऽम्लजम्बीररसं क्षिप्त्वा पिबति स्म । एकदा दैनिकोपक्रमानुसारं गान्धिवर्यस्य सहचरो महादेवदेसाईवर्यः क्वथिते जलेऽम्लजम्बीररसमक्षिपत् । जलं चाऽनाच्छादितमेव न्यस्यत् । जलादत्युष्णो बाष्प उत्क्षिपति स्म । कानिचित् क्षणानि व्यतीतानि । पश्चाद् गान्धिवर्य आगतः । महादेवदेसाईवर्यः क्वथितजलाम्लजम्बीररसभृतं लघुपिठरं गान्धिवर्याय दत्तवान् । गान्धिवर्यो नीरपात्रं समीपं स्थापितवान् । तत् च निरीक्षितवान् । अद्यापि पात्रं तद् बाष्पसंयुक्तं दृश्यते स्म । अवलोक्येदं गान्धिवर्यो महादेवदेसाईवर्यमुक्तवान् – “भोः ! त्वं क्वथितं जलजम्बीरपात्रमिदमाच्छादयिष्यस्तर्हि बहु समीचीनमभविष्यत् ।" तदा सरदारवल्लभभाईपटेलवर्योऽपि तत्रैवोपतिष्ठति स्म । गान्धिवर्यस्य वचनं श्रुत्वा तेन प्रतिध्वनितं - "रे ! पञ्चषाणि क्षणानि यावत् क्वथितं जलपात्रमिदं निराच्छादितं स्थितं तस्मिन् कः बाधः ? कतिभिः क्षणैरत्रैवोपविष्टोऽहम् । तत्रान्तरेऽस्मिन् पात्रे किञ्चिदपि न पतितम् ।" अथ महात्मगान्धिवर्योऽद्भुतमुत्तरमददात् – “मित्र ! जलपात्रे कामं किञ्चिदपि न पतेत् । किन्तु जलादत्युष्णबाष्पो निर्गच्छति । अनेन कारणेन नैके सूक्ष्मजन्तवो मरणोन्मुखा भवितुमर्हन्ति, तत् किमुचितं प्रतिभाति ?" सरदारवल्लभभाईपटेल-महादेवदेसाईवर्यावहोभावान्वितावभवतां श्रुत्वेदमुत्तरमनुत्तमम् । कीदृशी प्रशस्यतमाऽहिंसावृत्तिः ??? वस्तुत ईदृशी महती सर्वजीवपरित्राणवृत्तिः सर्वसत्त्वेषु आवश्यक्यस्ति । अत्र स्मरणमिदमुचितं यद् यथास्मज्जीवनं प्रियतममनुभवामो वयं तथाऽन्ये जीवा अपि स्वजीवनमनुभवन्ति प्रियतममेव । अस्मभ्यं न रोचते मरणं, तहि तेभ्योऽपि न रोचते मृत्युः । इतो वयमन्येषां जीवानां जीवनं प्राणविमुक्तं कृत्वा तेभ्यो दुःखं दास्यामस्तर्हि वयमपि भविष्यति काले दुःखमेव प्राप्स्याम इति सत्यमपि नूनमवगन्तव्यम् ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy