SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ कथा संस्कारप्रपा मुनिः अक्षयरत्नविजय (१) जीवनं नाम प्रहेलिका अस्माकं जीवनं वर्तते विस्मयप्रदम् । कदाचित् तत् प्रतिभासते सुखमयं, किञ्च कदाचित् प्रतिभासते तत् समस्यामयम् । यद्यपि बहुधा तु जीवनस्वरूपं दृश्यते समस्यामयमेव, अत एव प्रायः सर्वे जीवा विपद्ग्रस्ता दृश्यन्तेऽस्मिन् जगति । एका समस्या निराक्रियतां, तावदपरसमस्या उद्गच्छेत् - प्रायः अयमेवाऽस्माकं जीवनपरिचयः । अस्यां वास्तविकतायां वयं किञ्चिदपि परिवर्तितुं नाऽशक्नुमः । तदाऽस्माभिः किं कर्तव्यम् ? यदा समस्याऽऽगच्छति, आपत्तिः प्रभवति तदा वयं समस्यामुक्तेर्मार्गाय प्रयतामहे । किन्तु कदाचिदतियत्नानन्तरमपि समस्याविरामो न भवति तदा वयं नैराश्यं प्राप्नुमः । परं तदा भग्नाशता न भजनीया। अपि तु चिन्तनीयं यत् सर्वसमस्याया निराकरणं तु केनाऽपि न प्राप्तं स्वजीवने । अतो न कर्तव्या ग्लानिः । सर्वदा सुखेनैव स्थातव्यम् । अस्मिन्ननुसन्धानेऽवतरति स्मरणपथे प्रसङ्ग एकः प्रेरणास्पदम् - कस्यचित् प्रसिद्धगणितज्ञस्येयं कथा । एकदा तस्य गणितज्ञस्य सूनोर्जन्मदिनमासीत् । गणितज्ञः स्वस्य प्रियपुत्रस्य कृते जन्मदिनस्योपहारं क्रेतुं विपण्यां कञ्चिदापणं गतः । तत्र बहव उपहारा दृष्टास्तेन, पश्चादुपहाररूपेण तेनैकस्याः कष्टपूर्णप्रहेलिकायाश्चयनं कृतम् । अस्याः प्रहेलिकायाः किमपि निराकरणं विद्यमानं नाऽसीत् । केवलं क्रीड्यतां समयव्ययश्च क्रियतामित्येव तत्प्रहेलिकाया आशयो वर्तते स्म । आपणिकोऽतिविस्मयमनुभूतवान् । विस्मयपूर्णनेत्राभ्यां स निरीक्षितवान् गणितज्ञम्, उक्तवांश्च - "मान्याः ! भवन्तस्तु ख्यातिप्राप्तपण्डितवर्याः सन्ति । भवद्भिस्तु ज्ञातमेव यदस्याः प्रहेलिकायाः किमपि निराकरणं न विद्यते । तथाऽपि भवद्भिरस्याः प्रहेलिकायाश्चयनं क्रियते ?" "ओम् ।" - गणितज्ञो ब्रूतवान् – “इदमेव तु कारणम् । यतोऽहं प्रहेलिकामिमां मम पुत्राय दातुमिच्छामि । अस्याः प्रहेलिकाया माध्यमतोऽहं ज्ञापयिष्यामि तं यदस्मज्जीवनेऽपि काश्चित् समस्या एतादृश्यः प्रवर्तन्ते, यासां समाधानं बहुप्रयत्नैरपि न प्राप्यतेऽस्माभिरस्याः प्रहेलिकाया इव । अतस्त्वज्जीवने यदि कदाचिदेतादृशः प्रसङ्गः समुपस्थितो भवेत्तदा निराशता उद्विग्नता वा न सेव्या त्वया, अपि तु
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy