SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अहिंसायाश्च संस्कारा अद्यत्वेऽपि पत्तननगरजनेषु दरीदृश्यन्ते । विद्या-कला-संस्कार-समृद्धि-धर्मपालन-शौर्य-पराक्रम-परोपकार-जीवदयादिगुणैः समृद्धा अस्य नगरस्य नागरिका उदाराः सुकृतनिरताश्चाऽऽसन् । नगरमिदं स्थापनादिनादारभ्य षट्शतानि वर्षाणि यावत् तु गूर्जरदेशस्य राजधानी समासीत् । महम्मदगझनी-अल्लाउद्दीनखीलजीप्रभृतिभिश्च म्लेच्छैर्वारं वारमाक्रान्तं भज्यमानं चाऽप्येतन्नगरं पुनः पुनः समुत्थानं प्राप्नोत्, समृद्धिं च पुनः पुनरप्यवाप्नोत्, विद्या-कला-संस्कार-धर्मादीनि तत्त्वानि च नैव कदाऽपि व्यलीयन्ताऽस्मान्नगरात् । ततश्चाऽद्यपर्यन्तमपि नगरमेतत् शतशो देवालयैर्मण्डितं, विविधशाखीयैर्विद्यावद्भिः पण्डितैरुपशोभितं प्राचीनस्थापत्यैश्चेतिहासं स्मारयत् राराजतेतराम् । अस्य नगरस्याऽन्यदपि वैशिष्टयमुल्लिख्य विरमामि । पाटण- पटोळु - इति नाम्ना जगद्विख्याता कौशेयमयी पट्टशाटिकाऽद्यत्वेऽप्यत्रस्थैः परम्परागततन्तुवायपरिवारैः प्राचीनपद्धत्यैव निर्मीयन्ते । एकां शाटिकां निर्मातुं प्रायः षण्मासमितः काल आवश्यकः, मूल्यं चाऽस्याः पञ्चषलक्षरूप्यकमितं भवति । तदेतादृशं विशिष्टं पत्तननगरमवश्यं दर्शनीयं पर्यटनीयं च वर्तते । तत्रत्यं वातावरणमासेवनीयं वर्तते, तस्य इतिहासश्च पठनीयो वर्तते । यदि भवन्त उत्सुकास्तदाऽवश्यं समागच्छन्तु, स्वागतं भवताम् ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy