________________
असौ साङ्केतिको निर्णयः कियान् समीचीन आसीदित्येतद् ज्ञापयति, पुष्टीकरोति च वर्तमानकालीनं (अद्यतन) B.B.C. - News - इत्यस्य संशोधनम् । यथा -
"विश्वस्य कामपि दिशं पश्येम, पत्तनपुरसदृशं नगरं कुत्राऽपि नाऽस्ति । अत्रत्यैर्भू-वायु-जलैर्यः संवधितो जनः, स शताधिकमायुः सुखेन लभते । अस्यां भूमौ यानि खनिजानि सन्ति, तानि मानवस्य जीवने नवीनमुत्साहं जनयन्ति, देहस्य वार्धक्यं जीर्णत्वं च रुन्धन्ति, दीर्घकालं यावद् यौवनं स्थिरीकुर्वन्ति च । अत्रत्यं वातावरणं ह्यस्थिजालं श्वसनतन्त्रं च दृढीकरोति, रक्तं तनूकरोति श्वास-क्षयादिरोगेभ्यो रक्षति च । अत्रत्यस्य राज्या वापिका (राणकी वाव) नाम्ना ऐतिहासिकस्य स्थलस्य परिसरे द्वित्रमासपर्यन्तं वासेनाऽपगच्छन्ति बहवो रोगाः । वापिकाया जलं हि श्वासकासौषधतुल्यमेव' ।
ईदृशस्य सौभाग्यवतो गुर्जरराष्ट्रस्य प्रधाननगरस्य पत्तनपुरस्य राजसिंहासने वैक्रमीये ८२१मिते संवत्सरे वैशाखशुक्लतृतीयादिने सोमवासरे, श्रीदेवीनाम्न्या जैनश्राविकया कृततिलक ऐदम्प्राथम्येन श्रीवनराजचापोत्कट:(चावडा) राजपदमलङ्कृतवान् ।
___पत्तनपुरमीदृशं भव्यमूर्जस्वि चाऽस्ति । तस्य भूमिः शताधिकैजिनालयैः, अनेकैरप्यन्यैर्देवमन्दिरैमण्डिताऽस्ति, अनेकैः कविवरैर्ग्रन्थसर्जक-विद्यापुरुषैनिजज्ञानरसेन सिक्ताऽस्ति । राज्यधूश्चाऽस्य श्रद्धापूतैः प्रजावत्सलैर्यशस्विभिश्च राजभिरूढाऽस्ति ।
अस्य राज्यस्य सर्वेऽपि राजानः शैवधर्मिणः सन्तोऽपि सर्वधर्मसहिष्णुतयाऽमितेन द्रव्यव्ययेन सर्वधर्मदेवालयान् निर्मापितवन्तः सर्वमतीयान् गुरून् पूजितवन्तश्च । केवलं जैनदेवालयानेवाऽधिकृत्य विचारयामस्तदाऽपि तेषां राज्ञामुदारदृष्टिरस्माकं हृदयमाह्लादयति ।
यथा किल राज्ञा वनराजेन ८०२ प्रमिते वैक्रमे वर्षे वनराजविहारः इति नाम्ना पार्श्वनाथजिनालयो निर्मापितो योऽद्यत्वे पञ्चासरापार्श्वनाथजिनालय इति नाम्ना प्रसिद्धोऽस्ति । ततो वैक्रमे ९४२तमे वत्सरे मूलराजेन मूलराजवसतिरित्यभिधं जिनमन्दिरं कारितम् । तदनन्तरं ९९८तमे वर्षे राज्यारूढेन चामुण्डराजेन नैकानि जिनभवनानि निर्मापितानि । ततस्तु १०८८तमे संवति विमलमन्त्रिणाऽर्बुदगिरौ देवकुलपाटके जगद्विश्रुतकलाकलापकलितं विमलवसतिरिति जिनसद्म कारितम् । तत्पश्चात् ११४६तमे वर्षे मुञ्जालमन्त्रिणा मुञ्जालवसतिः ११५०तमे च वर्षे शान्तनुमन्त्रिणा शान्तनुवसतिरित्याख्ये जिनमन्दिरे निर्मापिते । ततश्च त्रयोदशशतस्याऽऽरम्भे राजराजेश्वरेण परमार्हतबिरुदधारिणा महाराजकुमारपालेन कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्य सदुपदेशं शिरस्यवधार्य तारणगिरि(तारंगा)प्रमुखेषु विविधस्थलेषु शतशो जिनालया निर्मापिताः ।
अपि च, कुमारपालमहाराजस्य त्वहिंसापालने तथाऽभिरुचिरासीद् यद् अष्टादशसु देशेषु विस्तृते तत्साभ्राज्ये मृ-हन्-वध्-हिंस्-घात्-प्रभृतीनां धातूनां तत्साधितशब्दानां चाऽपि प्रयोगो निषिद्ध आसीत् । यूका-पिपीलिका-कीट-मूषकादीनामपि क्षुद्रजन्तूनां घातका दण्डारे अभवन् । एतस्या जीवदयायाः
८८