________________
पर्यटनम्
अणहिल्लपुरपत्तन(पाटण)नगरस्य वैशिष्ट्यम्
सा. हंसलेखाश्रीः आर्यावर्त इति सञ्जया सञ्जिताऽस्माकं जन्मभूमिः । अत् = प्रकृतमाचरितुं = यः कर्तव्यमाचरितुमकर्तव्यमनाचरितुं च योग्यः स आर्यः । ततो योऽर्यति = गच्छति पापाद् दूरं स आर्यः । आर्या वर्तन्ते यत्र स आर्यावर्तः ।
एतस्मिन्नार्यावर्ते संस्कृतीनां सभ्यतानां संस्काराणां चाऽऽधान-संवर्धन-संरक्षण-कर्तृणि विद्यमानानि नैकानि नगराण्यसन् । तेषु चाऽन्यतमदस्ति अणहिल्लपुरपत्तनम् ।
अस्ति स्वस्तिकवद् भूमेर्धर्मागारं नयास्पदम् ।।
पुरं श्रिया सदाऽऽश्लिष्टं नाम्नाऽणहिल्लपाटकम् ॥
अद्याऽपि यस्मिन् पुरे स्वस्तिकरैः शताधिकैजिनालयध्वजैः पवित्रितस्य वायोः स्पर्शेन मनः शाम्यति, तस्य पत्तनपुरस्याऽपूर्व इतिहासोऽतीवाऽवधाना) रोचकश्चाऽस्ति ।
____अस्य नगरस्य स्थापनामुहूर्तस्य लग्नपत्रिकैवं सूचयति यद् भूमितले प्राकृतिक्याऽऽपदा नष्टेष्वप्यनेकेषु नगरेषु पत्तनपुरस्य स्थिरता दीर्घकालिनी भविष्यति ।
अस्य दीर्घकालभाविनः पत्तनपुरस्य स्थापना वैक्रमे ८०२मिते संवत्सरे वैशाख-शुक्ल-तृतीयायां सोमवासरे, 'अणहिल्ल' नाम्ना गोपालकेन दर्शितायां भूमौ (वर्तमाने लाखाराम-नाम्नि स्थले), साऽपि च नागेन्द्रगच्छीयजैनाचार्यवर्याणां श्रीशीलगुणसूरीश्वराणामाशीर्वचोभिर्जाता ।
जैनमन्त्रोच्चार-पूर्वकं स्थापितस्याऽस्य नगरस्याऽभिधानं, भूमिगवेषकस्याऽणहिल्ल-गोपालकस्य नाम्ना अणहिल्लपाटकमिति स्थापितम् ।
यदा नगरमावासयितुमणहिल्लेन सह राजा वनराज-चापोत्कटो भूमिगवेषणां करोति स्म, तदैकत्रैकः शशकः शृगालं पराभवन् दृष्टः । इदं दृश्यं दृष्ट्वा ताभ्यां निर्णीतं यदियं भूमिः शौर्यवती, अतोऽत्रैव नगरं वासयितव्यम् ।
८७