________________
३. अन्वीक्षा (विद्वद्वर्यस्य उमाकान्तभट्टमहोदयस्याऽभिनन्दनग्रन्थः)
सम्पादकः डा. अडिगोपाह्वो मधुसूदन शर्मा प्रकाशिका विद्वदभिनन्दनसमितिः
Dikshit Compound, 1st Floor, Nr. Adimadhavaraya Temple,
Bellur, Nagamangala (Mandya Dis.)-571418 पृष्ठानि ३०४+८ मूल्यम् रू. ३००/
विद्वद्वर्यः श्रीउमाकान्तभट्टमहोदयो दाक्षिणात्ये प्रदेशे मूर्धन्यो वरिष्ठश्च विद्वान् । प्राचीन-नव्यन्यायशास्त्रपारङ्गतोऽप्ययं विद्वान् काव्यसाहित्ययोरप्यधिकारी तथा कन्नडभाषासाहित्ये कलारङ्गे यक्षगानेऽपि च प्रसिद्धोऽस्ति । प्राचीनन्याये कृतभूरिपरिश्रमोऽयं विद्वान् तच्छास्त्राध्यापने प्रवृत्तस्तादृशानां विदुषामन्तिम इव प्रतिभाति । संस्कृतमहाविद्यालये त्रयस्त्रिंशद्वर्षाणि यावत् शास्त्रीयाध्यापनं कृत्वा निवृत्तोऽयं विद्वान् कुशाग्रमतिः प्रतिभावान् प्रगल्भश्च प्रवचनकारोऽप्यस्ति । तस्य तलस्पर्शिज्ञानेन हृदयस्पर्शिनिरूपणेन च विद्वज्जना रसिकाश्च भावका सर्वथा प्रमुदिताः प्रसन्नाश्च भवन्ति । एतादृशः सन्नपि स छन्दस्वतीनाम्न्या अद्वितीयाया षाण्मासिक्याः पद्यमय्याः संस्कृतपत्रिकायाः सम्पादकोऽप्यस्ति ।।
एतादृशस्य विद्वन्मूर्धन्यस्य भट्टमहोदयस्याऽभिनन्दनार्थं तच्छिष्यैः सुहृद्भिश्चाऽयमभिनन्दनग्रन्थः प्रकाशितोऽस्ति । अत्र ग्रन्थे भट्टवर्यस्य व्यक्तित्वं प्रकाशयन्तः केचन लेखाः सन्ति, केचन तु न्यायवैशेषिकदर्शनयोः सूक्ष्मतत्त्वानि निरूपयन्तो लेखाः सन्ति, केचन च साहित्यरसास्वादकराः सन्ति । सर्वेऽपि लेखाः वरिष्ठैर्विश्रुतैश्च विद्वद्भिरधिकारिजनैश्चाऽऽलिखिताः सन्ति । अतो ग्रन्थोऽयं सर्वथाऽऽदेयः सङ्ग्राह्यश्च जातोऽस्ति जिज्ञासूनामभ्यासिनां च कृते ।