________________
२. गोगीतम् (वैद्युतिकं पुस्तकम् [e-book]) (कन्नडभाषया रचिताया "गोविन हाडु" इति रचनाया समच्छान्दसिको मुक्तः संस्कृतानुवादः)
रचयिता विद्वान् डॉ. एस्. जगन्नाथः, मैसूरू uchyrch: Shankarasanskritebooks
गोगीतमिदं कन्नडभाषया केनचिदज्ञातकविना रचितस्य "गोविन हाडु" (गोर्गीतम्) - इति कृतेः कथावस्त्ववलम्ब्य तत्र तत्र च कानिचिदावश्यकानि परिवर्तनानि विधाय विदुषा श्रीएस्.जगन्नाथमहोदयेन विहितः संस्कृतानुवादः । मूलकृतौ यच्छन्द उपयुक्तं तदेव च्छन्दोऽनुवादकळ संस्कृतानुवादेऽपि प्रयुक्तमिति तु विशेषः ।
अस्यां कृतौ, पुण्यकोटिनाम्नी गौः अर्बुदनामकस्य व्याघ्रस्य क्षुधां निवारयितुं स्वप्राणान् हातुमुद्यता, तदा "ईदृशीं परोपकारकर्ती गां मारयितुमिष्टवानहम्" इति पश्चात्तापतप्तो व्याघ्रः स आत्मघातं करोति - इति कथावस्तु ।
मूलतोऽपि संशोधकात्मना श्रीजगन्नाथमहोदयेनाऽस्याः कृतेर्मूलरचनां तादृशीरन्याश्च रचना आश्रित्य सुविस्तृतं तुलनात्मकमध्ययनं कृतमस्ति प्रस्तावनायाम् । अतः कवित्वस्याऽनुवादकत्वस्य, तथा संशोधकत्वस्येति त्रयाणां तत्त्वानां संमीलनमत्र पुस्तके सहैव प्राप्यते - इत्ययं प्रमोदप्रदो विषयो जिज्ञासूनामभ्यासरतानां च कृते ।
__कृतिश्चेयं साक्षात्पुस्तकरूपेणाऽप्रकाश्य वैद्युतिकपुस्तक(e-book)रूपेण प्रकाशितेत्यपि च सर्वथोचितमेव पर्यावरणदृष्ट्या । यतः पुस्तके उपयुज्यमानः कागदोऽपि वृक्षाणां विनाशादेव प्राप्यते । अतो यथाशक्ति तद्रक्षणार्थं प्रयतितव्यमेवाऽस्माभिरिति भावनां मनसिकृत्यैव प्रवृत्तस्य श्रीएस्.जगन्नाथमहोदयस्य प्रयासोऽयं सर्वथा स्तुत्योऽनुकरणार्हश्च ।