________________
पुस्तक-समीक्षा
१. नागराजशतकत्रयी (निन्दास्तुतिशतक-अर्थान्तरन्यासशतक-दृष्टान्तशतकानि)
रचयिता विद्वान् डॉ. एच्. वि. नागराजराव्, मैसूरू प्रकाशकः सुधर्मा प्रकाशनम्, मैसूरु, २०१८
#561, 2nd Ramachandra Agrahara,
Mysore-570004. Phone: 0821-2442835 पृष्ठनि ६०+४ मूल्यम् रू. ५०/
विद्वन्मूर्धन्यस्य काव्य-साहित्यनिष्णातस्य डॉ. एच. वि. नागराजराव्महोदयस्य नामतो नन्दनवनकल्पतरोर्वाचकाः सर्वथा परिचिताः सन्ति । तस्य संस्कृतभाषा-साहित्यसेवा संस्कृतज्ञैर्नितरां श्लाघ्यते । नन्दनवनकल्पतरुरपि तदीयसाहित्यप्रकाशनेन समृद्धो जातोऽस्ति । गतेषु वर्षेषु तेन स्वीयकाव्यप्रतिभोल्लासेन बहूनि शतकानि विरचितानि येभ्यः कानिचित्तु नन्दनवनकल्पतरावपि प्रकाशितानि । तेषां शतकानां मध्यात् एतानि त्रीणि शतकानि सम्मेल्य लघुपुस्तकरूपेण प्रकाशितानि सन्ति इतीदं संस्कृतसाहित्यास्वादिनां कृते महत् सौभाग्यम् ।
प्रत्येकं शतकं कवेः काव्यनैपुण्यं तु प्रदर्शयत्येव, सहैव चिरस्थायिनं साहित्यरसास्वादं कारयति, बोधं चाऽपि वर्धयति । व्याकरणालङ्कार-काव्यतत्त्वादि-ज्ञातॄणां कृते इमानि शतकानि महोत्सवस्वरूपाणि, तदध्ययनकर्तृणां कृते तु रसप्रदपाठस्वरूपाणि ।
एतादृशां शतकानां रचयितारं विद्वद्वर्यं श्रीनागराजराव्-महोदयं सादरं सोल्लासं चाऽभिनन्दति नन्दनवनकल्पतरुपरिवारः ॥
८४