________________
वैचित्र्यमित्यमनुभूय भवाम्बुराशेरातङ्कवाडवविडम्बितजन्तुवारेः । को नाम जन्मविषपादपपुष्पकल्पैः
स्वं मोहयेन्मृगदृशां कृतधीः कटाक्षैः ॥ सद्यः प्राणहरो व्याधिरातङ्क उच्यते इति व्याख्या । स्त्री-कटाक्षाय स्पृहयन्ति मनुष्याः । ते विषवृक्षकुसुमसदृशाः । मोहनं तेषां स्वभावः । कृतधीर्बुद्धिमान् । स तैरात्मानं न मोहयतीति संसारवैयर्थ्यचिन्तना मोक्षापेक्षिणा कार्या । ४. एकत्वानुप्रेक्षा
एक एव जीवोऽत्राऽऽयाति, एक एवेतो निर्याति । सर्वेऽन्ये तात्कालिका इति भावना एकत्वानुप्रेक्षा। तामाह -
एकस्त्वमाविशसि जन्मनि संक्षये च भोक्तुं स्वयं स्वकृतकर्मफलानुबन्धम् । अन्यो न जातु सुखदुःखविधौ सहायः
स्वाजीवनाय मिलितं विटपेटकं ते ॥ अन्ये किमर्थं तव सविधे उपस्थिता इति चेत् स्वस्य जीविकायै । पत्नीपुत्रादयः तव साहायकं कर्तुं नैव त्वाम् उपसर्पन्ति । अपि तु स्वार्थेनेति विजानीहि इति जीवं सम्बोध्य कथ्यते । पुनराह -
बाह्यः परिग्रहनिधिस्तव दूरमास्तां देहोऽयमेति न समं सहसम्भवोऽपि । किं ताम्यसि त्वमनिशं क्षणदृष्टनष्टै
र्दारात्मजद्रविणमन्दिरमोहपाशैः ॥ सहसम्भवो देहोऽपि त्वया समं नैति, क्षणदृष्टनष्टैः दारादिभिः मोहपाशैः किं ताम्यसीति स्पष्टोऽर्थः ।
संशोच्य शोकविवशो दिवसं तमेकमन्येधुरादरपरः स्वजनस्तवाऽर्थे । कायोऽपि भस्म भवति प्रचयाच्चिताग्नेः
संसारयन्त्रघटिकाघटने त्वमेकः ॥ एकमेव दिवसं शोचित्वा बन्धुमित्रादयो मृतस्य वित्त लब्धं चेष्टां कुर्वन्ति । कायो भस्मीभवति । जीव एक एव शिष्यते ।