SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ संसीदतस्तव न जातु समस्ति शास्ता त्वत्तः परः परमवाप्तसमग्रबोधेः । तस्यां स्थिते त्वयि यतो दुरितोपताप सेनेयमेव सुविधे ! विधुराश्रया स्यात् ॥ त्वत्तः परः शरणीभवितुमर्हो नास्ति । समग्रबोधि प्राप्तवान् त्वमेव तव शरणम् । बोधौ यदा त्वं स्थास्यसि, तदा दुरितोपतापसेना स्वयं विधुराश्रया भविष्यतीति सच्चरितं जीवं प्रत्याह । इत्थम् अशरणानुप्रेक्षा करणीया । ३. संसारानुप्रेक्षा जननमरणचक्रे भ्रमणं संसारः । अत्र सर्वे दुःखाभिभूताः निविण्णा भवन्तीति चिन्तना संसारानुप्रेक्षा । तद्विवृणोति सोमदेवसूरिः - कॉर्पितं क्रमगतिः पुरुषः शरीरमेकं त्यजत्यपरमाभजते भवाब्धौ । शैलूषयोषिदिव संसृतिरेनमेषा नाना विडम्बयति चित्रकरैः प्रपञ्चैः ॥ शैलूषयोषिन्नटी । सेव संसृतिः चित्रकरैः प्रपञ्चैविडम्बयति । हास्यास्पदं करोति । कर्मार्पितमेकं शरीरं जीवस्त्यजति अपरं गृह्णाति । एषा संसाररीतिः । संसारे किमपि सुखं नास्तीत्याहाऽपरेण पद्येन - दैवाद्धनेष्वधिगतेषु पटुर्न कायः काये पटौ न पुनरायुरवाप्तवित्तम् । इत्थं परस्परहृतात्मभिरात्मधर्में लॊकं सुदुःखयति जन्मकरः प्रबन्धः ॥ धनिनो न देहारोग्यं, देहारोग्ये सत्यपि न दीर्घमायुः, यस्याऽऽयुस्तस्य न धनम् । एवं संसारो जीवं दुःखयति । पुनश्चाऽन्यः संसारदोष इत्याचष्टे - आस्तां भवान्तरविधौ सुविपर्ययोऽयम् अत्रैव जन्मनि नृणामधरोच्चभावः । अल्पः पृथुः पृथुरपि क्षणतोऽल्प एव स्वामी भवत्यनुचरः स च तत्पदाहः ॥ अन्यस्मिन् जन्मनि उच्चनीचभावो विपर्ययं गच्छतीति तावदास्ताम् । अस्मिन्नेव जन्मनि स दृश्यते । भिक्षुको लक्षाधिपतिर्भवति । लक्षाधिपतिः परेधुभिक्षुको दृश्यते । स्वामी सेवकस्य सेवको भवति । एष प्रकारः संसारस्य । ११
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy