SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ वागादिषु सर्वेषु स्त्रीणां कुटिलत्वं वक्रत्वमेव वर्तते । ता न कश्चित् सरलाः कर्तुं शक्त इत्यभिप्रायः । पुनश्च - संसारबद्धकवलस्य यमस्य लोके कः पश्यतोहरविधेरवधि प्रयातः । यस्माज्जगत्त्रयपुरीपरमेश्वरोऽपि तत्राऽऽहितोद्यमगुणे विधुरावधानः ॥ यमः आयुषां पश्यतोहरः । पश्यतो यो हरत्यर्थान् स चोरः पश्यतोहरः इत्यमरसिंहः । पश्यन्तम् अनादृत्य अर्थहरणे स समर्थ इति भावः । अतो विधेः पुरस्तात् परमेश्वरोऽपि विधुरावधानः । पुनश्च - इत्थं क्षणक्षयहुताशमुखे पतन्ति वस्तूनि वीक्ष्य परितः सुकृती यतात्मा । तत्कर्म किञ्चिदनुसर्तुमयं यतेत यस्मिन्नसौ नयनगोचरतां न याति ॥ असौ यमो यथा नेत्रपालत्वं न याति, तादृशं कर्म कर्तुं विवेकी यत्नं कुर्यादिति तात्पर्यम् । एवं लोके यद्यत् सामान्यपुरुषैरभिलष्यते, धनं वाऽधिकारः स्त्रीप्रेम वा तत्सर्वम् अध्रुवम्, अनित्यम् इति भावना कर्तव्या। तदैव वैराग्याङ्कर उत्पद्यते । २. अशरणानुप्रेक्षा नाशे समुपस्थिते न कश्चित् कञ्चिद्रक्षति । यस्याऽऽयुः समाप्तं तं न कोऽपि वैद्यो रक्षितुं समर्थः । अतो मम शरणं न किञ्चिद् इति चिन्तना अशरणानुप्रेक्षा । तद्विवृणोति सोमदेवः - दत्तोदयेऽर्थनिचये हृदये स्वकार्ये सर्वः समाहितमतिः पुरतः समास्ते । जाते त्वपायसमयेऽम्बुपतौ पतत्रेः पोतादिव द्रुतवतः शरणं न तेऽस्ति ॥ नौकाया द्रुतवतः पक्षिणः समुद्रे यथा न कश्चिच्छरणं, तथा अपायसमये जीवस्य न शरणमस्ति । बन्धुव्रजैः सुभटकोटिभिराप्तवगैः मन्त्रास्त्रतन्त्रविधिभिः परिरक्ष्यमाणः । जन्तुर्बलादधिनलोऽपि कृतान्तदूतै रानीयते यमवशाय वराक एषः ॥ राज्ञो बन्धवः सन्ति, अङ्गरक्षकास्सुभटास्सन्ति, आप्ताः सचिवास्सन्ति । तैः परिरक्ष्यमाणोऽपि यमदूतैर्नीयते । अतो मृत्युकाले शरणं नास्ति ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy