________________
पुनराह सोमदेवसूरिः -
लावण्ययौवनमनोहरणीयताद्याः कायेष्वमी यदि गुणाश्चिरमावसन्ति । सन्तो न जातु रमणीरमणीयसारं
संसारमेनमवधीरयितुं यतन्ते । किन्तु सन्तो जिनाः संसारमवधीरयन्ति । तेन ज्ञायते गुणा लावण्यादयश्चिरं कायेषु न वसन्तीति । पश्यामः खलु लोके स्त्रीणां परमरमणीयानामपि कालान्तरे शोचनीयं रूपं वार्धक्यरोगादिभिः । अतो यौवनादीनाम् अनित्यत्वं प्रत्यक्षसिद्धम् । पुनराह सोमदेवसूरिः -
उच्चैः पदं नयति जन्तुमधः पुनस्तं वात्येव रेणुनिचयं चपला विभूतिः । श्राम्यत्यतीव जनता वनितासुखाय
ताः सूतवत् करगता अपि विप्लवन्ते ॥ अत्राऽप्युपमया विवक्षितार्थं दृढीकरोति कविः । सूतवदित्यस्य पारदरसवदित्यर्थः । करेण यथा पारदं ग्रहीतुं न शक्नुमः, तथा वनिता अपि वशीकर्तुं न शक्नुमो महताऽपि श्रमेणेति भावः । अत्र स्त्रीप्रेम्णोऽनित्यत्वं कथितम् । पुनराह -
शूरं विनीतमिव सज्जनवत्कुलीनं विद्यामहान्तमिव धार्मिकमुत्सृजन्ती । चिन्ताज्वरप्रसवभूमिरियं हि लोकं
लक्ष्मीः खलक्षणसखी स्ववशीकरोति ॥ लक्ष्म्याः के न वशंवदाः ? शूरा विनीताः सज्जनाः कुलीना विद्यावन्तश्च लक्ष्मीमिच्छन्तोऽपि तयोत्सृज्यन्ते । तान् विहाय कातरान् अविनीतान् दुर्जनान् अकुलीनान् विद्याहीनान् अधार्मिकान् एव लक्ष्मीः समाश्रयति । तत्राऽपि नित्यं न तिष्ठति । तदेवोक्तं खलक्षणसखीति । खलवदुर्जनवत् क्षणसखी अल्पकालस्नेहिनी इति व्याख्याकारः । एवं च लक्ष्मीः कस्याऽपि न नित्येति फलितम् । पुनः स्त्रीसङ्गस्याऽविश्वास्यताम् आह सोमदेव:
वाचि भ्रुवोर्दृशि गतावलकावलीषु यासां मनःकुटिलतातटिनीतरङ्गाः । अन्तर्न मान्त इव दृष्टिपथे प्रयाताः कस्ताः करोतु सरलास्तरलायताक्षीः ॥