________________
आस्वादः
यशस्तिलकचम्वां वर्णिता द्वादशानुप्रेक्षा:
डो. एच् वि. नागराजराव्
सोमदेवसूरिविरचिता यशस्तिलकचम्पू: संस्कृतसाहित्यस्य सुवर्णकलशायमाना पृथिव्यां प्रथते । अस्यां शब्दसौन्दर्यम् अर्थगाम्भीर्यं धर्मरहस्यं च गोचरीभवति । जैनमतस्य तत्त्वानि काव्यरीत्या सोमदेवसूरिणाऽत्र न्यरूपिषत । द्वितीयाश्वासे यशोधर्ममहाराजस्य वैराग्यं समजनीति वक्तव्ये सन्दर्भ कविादशानुप्रेक्षाः समीचीनया शैल्या विवृणोति । तत्र पीठिकारूपेणेदं वाक्यं तेनोपन्यस्यते -
"तदनु संजातनिर्वेदसंवेदनहृदयः सविधतरनिःश्रेयसाभ्युदयः सच्चरितलोकलोचनचन्द्रमाः पुनरिमाः किल शीलसाराः सस्मार संसारसागरोत्तरणपोतपात्रदशा द्वादशाऽप्यनुप्रेक्षाः" इति ।
___ अनुप्रेक्षाः - भावनाः । शरीरादीनां स्वभावः कः?, नित्यं किम् अनित्यं किम् ? इत्याद्यालोचना अनुप्रेक्षेति जैनैरभिधीयते । प्रपञ्चस्थितेरनुचिन्तनाऽनुप्रेक्षेति ज्ञानिनो वदन्ति । द्वादशानुप्रेक्षा आचार्यैरुपदिष्टा यथा - १. अध्रुवानुप्रेक्षा, २. अशरणानुप्रेक्षा, ३. एकत्वानुप्रेक्षा, ४. अन्यत्वानुप्रेक्षा, ५. संसारानुप्रेक्षा, ६. लोकानुप्रेक्षा, ७. अशुचित्वानुप्रेक्षा, ८. आस्रवानुप्रेक्षा, ९. संवरानुप्रेक्षा, १०. निर्जरानुप्रेक्षा, ११. बोधिदुर्लभानुप्रेक्षा, १२. धर्मानुप्रेक्षा च । एतासामनुप्रेक्षाणां हृद्यमनवद्यं निरूपणं कृतं सोमदेवसूरिणा। ताः प्रसन्नेन मनसा परिशीलयामस्तावत् - १. अधुवानुप्रेक्षा
उत्सृज्य जीवितजलं बहिरन्तरेते रिक्ता विशन्ति मरुतो जलयन्त्रकल्पाः । एकोद्यमं जरति यूनि महत्यणौ च
सर्वङ्कषः पुनरयं यतते कृतान्तः । अत्रोपमालङ्कारेण कविर्जीवितस्याऽध्रुवत्वं न्यरूपयत् । जलयन्त्रकल्पा इत्यस्य अरघट्टघटीमाला सदृशा इत्यर्थः । “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः"२ इति पाणिनिः । ईषदसमाप्तिः सादृश्ये पर्यवस्यति । व्याख्यात्रनुसारेण सर्वङ्कषः पुनः - इत्यस्य दावानलसदृश इत्यर्थः । पुनःशब्द इवार्थे वर्तते इति वदति व्याख्याकारः ।