________________
एष स्वयं तमचलैर्ननु कर्मजालैलूंतेन वेष्टयति नष्टमतिः स्वमेकः । पुण्यात्पुनः प्रशमतन्तुकृतावलम्ब
स्तद्धाम धावति विधूतसमस्तबाधम् ॥ नष्टमतिरात्मानं कर्मजालैर्वेष्टयति । लूतेवेत्युपमानम् । पुण्यमतिः पुनः निर्बाधं धाम गच्छति । उभयत्रैक एव याति इति एकत्वभावना ध्येया । इत्येकत्वानुप्रेक्षा । ५. पृथक्त्वानुप्रेक्षा
जगति समस्तस्य दुःखस्य मूलं शरीरात्मनोः पृथक्त्वज्ञानाभावः । आत्मा शरीरात् पृथगिति भावनाऽपेक्षिता वैराग्यस्य दाढाय । तद्वदति सोमदेवसूरिः -
देहात्मकोऽहमिति चेतसि मा कृथास्त्वं त्वत्तो यतोऽस्य वपुषः परमो विवेकः । त्वं धर्मशर्मवसतिः परितोऽवसायः
कायः पुनर्जडतया गतधीनिकायः ॥ धर्मस्य शर्मणः (सुखस्य) चाऽऽश्रय आत्मा । शरीरं तु पाञ्चभौतिकं न तथेति विरागिना ज्ञेयम् । पुनश्च -
आसीदति त्वयि सति प्रतनोति कायः क्रान्ते तिरोभवति भूपवनादिरूपैः । भूतात्मकस्य मृतवन्न सुखादिभाव
स्तस्मात्कृती करणतः पृथगेव जीवः ॥ __ आत्मनि सति काय उत्पद्यते वर्धते च । आत्मनि निष्क्रान्ते पञ्चभूतरूपम् आसाद्य नश्यति । कर्ताऽऽत्मा, करणं वपुः । करणं कर्तुभिन्नम् ।
सानन्दमव्ययमनादिमनन्तशक्तिमुद्द्योतिनं निरुपलेपगुणं प्रकृत्या । कृत्वा जडाश्रयमिमं पुरुषं समृद्धाः
सन्तापयन्ति रसवदुरिताग्नयोऽमी ॥ सानन्दत्वादिधर्मयुतमात्मानं दुरिताग्नयो जडाश्रयं कृत्वा पारदरसवत्सन्तापयन्ति । अपि च -
कर्मासवानुभवनात् पुरुषः परोऽपि प्राप्नोति पातमशुभासु भवावनीषु ।
१३