________________
तस्मात्तयोः परमभेदविदो विदग्धाः
श्रेयस्तदादधतु यत्र न जन्मयोगः ॥ तयोः शरीरात्मनोः परमभेदं ज्ञात्वा जन्मयोगाभावाय मोक्षाय विदग्धा विवेकिनः प्रयतेरन्निति पृथक्त्वानुप्रेक्षा कर्तव्या। ६. अथाऽशुचित्वानुप्रेक्षा । शरीरं सर्वाशुचीनां निधानमिति को न जानाति ? तच्चिन्तना वैराग्यं दृढीकरोति । अत आह -
आधीयते यदिह वस्तु गुणाय कान्तं काये तदेव मुहुरेत्यपवित्रभावम् । छायाप्रतारितमतिर्मलरन्ध्रबन्धं
किं जीव ! लालयसि भङ्गुरमेतदङ्गम् ॥ शरीरं सुगन्धि कर्तुं यत्स्रक्चन्दनादि आधीयते, तदपि शीघ्रं दुर्गन्धि अपवित्रं च भवति । तादृशं शरीरं किं लालयसि इति जीवं प्रत्यनुयोगः । पुनराह शरीरस्य हेयत्वम् -
योषिद्भिरादृतकरं कृतमण्डनश्रीर्यः कामचामररुचिस्तव केशपाशः । सोऽयं त्वयि श्रवणगोचरतां प्रयाते
प्रेतावनीषु वनवायसवासगोऽभूत् ॥ मनुष्ये मृते तस्य केशान् हत्वा वायसाः स्वनीडेषु स्थापयन्ति । अतोऽत्र मोहो न धार्य इति भावः ।
अन्तर्बहिर्यदि भवेद्वपुषः शरीरं दैवात्तदानुभवनं ननु दूरमास्ताम् । कौतूहलादपि यदीक्षितुमुत्सहेत
कुर्यात्तदाऽभिरतिमत्र भवान् शरीरे ॥ शरीरस्याऽन्तर्यद्रक्तमांसमज्जादिकमस्ति, तद्यदि बहिर्भवेत्, तदा कस्य तत्र जुगुप्सा न जायते ? बीभत्समेतदिति भावः ।
तस्मान्निसर्गमलिनादपि लब्धतत्त्वाः कीनाशकेलिमनवाप्तधियोऽचिराय । कायादतः किमपि तत्फलमार्जयन्तु यस्मादनन्तसुखसस्यविभूतिरेषा ॥