________________
अशुचेः कायात् सम्यग्ज्ञानं यदि प्राप्नुयाम, तर्हि तत्सफलम् । अन्यथा सर्वदाऽशुचौ काये प्रीतिर्न कार्येत्यभिप्रायः । इति अशुचित्वानुप्रेक्षा । ७. आस्त्रवानुप्रेक्षा
हिंसा, अनृतं, स्तेयम्, अब्रह्मचर्य, परिग्रह इत्येतानि आस्रवस्य द्वाराणि । तैः पापम् आत्मनि प्रविशति । एतद् ध्यात्वा अहिंसादिकम् एवाऽऽचरणीयम् । वदति सोमदेवः -
अन्तः कषायकलुषोऽशुभयोगसङ्गात् कर्माण्युपार्जयति बन्धनिबन्धनानि । रज्जूः करेणुवशगः करटी यथैता
स्त्वं जीव ! मुञ्च तदिमानि दुरीहितानि ॥ क्रोधमानमायालोभादयः कषायाः । तैर्मलिनान्तःकरणः पुरुषो बन्धकारणानि कर्माण्यर्जयति । तत्रोपमा करटी (गजः) । अतो मतिमान् दुरीहितानि परित्यजेत् ।
सङ्कल्पकल्पतरुसंश्रयणात् त्वदीयं चेतो निमज्जति मनोरथसागरेऽस्मिन् । तत्राऽर्थतस्तव चकास्ति न किञ्चनाऽपि
पक्षे परं भवसि कल्मषसंश्रयस्य ॥ सुखं प्राप्तव्यमिति सङ्कल्पाच्चेतो मनोरथसागरे मज्जति । एतत्कल्मषाश्रयणस्य कारणं भवति । पुनराह कविः -
सेयं विभूतिषु मनीषितसंश्रयाणां चक्षुर्भवत्तव निजातिषु मोघवाञ्छम् । पापागमाय परमेष भवेद्विमूढ !
कामात् कुतः सुकृतदूरवतां हितानि ॥ ईर्ष्यासहितमपि विभूतिषु मनीषितानि भवन्ति । तत्र चक्षुः मनो वा मोघवाञ्छं विफलाशं भवति । अतो जीवस्य विमूढेति सम्बोधनम् । इदं सर्वं पापागमाय कल्पते । कामात् हितानि न भवन्तीति अर्थान्तरन्यासः ।
दौर्विध्यदग्धमनसोऽन्तरुपात्तभुक्तेश्चित्तं यथोल्लसति ते स्फुरितोत्तरङ्गम् । धाम्नि स्फुरेद्यदि तथा परमात्मसंज्ञे
कौतस्कुती तव भवेद्विफला प्रसूतिः ॥ दौर्विध्यं दारिद्यम् । तेन दग्धमनसस्तव चित्तं परम् आत्मसंज्ञे धाम्नि निलये तेजसि वा यदि भवेत्,