SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ तदा तव प्रसूतिः विफला कौतस्कुती भवेत् । तव जन्म सफलं भवेदिति तात्पर्यम् । इत्यास्रवानुप्रेक्षा । ८. संवरानुप्रेक्षा संवर आस्रवस्य विरोधी । चारित्ररक्षणया संवर उत्पद्यते । सोमदेवसूरिर्वदति - आगच्छतोऽभिनवकार्मणरेणुराशेः जीवः करोति यदवस्खलनं वितन्द्रः । सत्तत्त्वचामरधरैः प्रणिधानहस्तैः सन्तो विदुस्तमिह संवरमात्मनीनम् ॥ अत्र सावयवरूपकालङ्कारः । कार्मणरेणुराशिः । सत्तत्त्वचामराणि । प्रणिधानहस्ताः इत्यत्र स ज्ञेयः । आत्मनीनमित्यस्य आत्मने हितमित्यर्थः । इदं संवरस्य सुन्दरं विवरणम् । यस्त्वां विचिन्तयति संचरते विचारैश्चार्वी चिनोति परिमुञ्चति चण्डभावम् । चेतो निकुञ्चति समञ्चति वृत्तमुच्चैः ।। स क्षेत्रनाथ ! निरुणद्धि कृती रजांसि ॥ हे क्षेत्रनाथ ! आत्मन् ! । क्षेत्रं शरीरं तस्य नाथः पतिः । त्वं कृती सन् रजांसि निरुणद्धि इति उपदेशः। नीरन्ध्रसन्धिरवधीरितनीरपूरः पोतः सरित्पतिमपैति यथाऽनपायः । जीवस्तथा क्षपितपूर्वतपःप्रतानः क्षीणास्रवश्च परमं पदमाश्रयेत ॥ पोतोऽत्रोपमानत्वेन निर्दिष्टः । स नीरन्ध्रसन्धिश्चेत् समुद्रं तरति । तथा क्षीणास्रव आत्मा संसारं तीर्खा परमं पदम् आश्रयिष्यतीति संवरानुप्रेक्षा कर्तव्या । ९. लोकानुप्रेक्षा वेत्रासनझल्लरीमृदङ्गाकारेण लोकत्रयं स्थितं जैनदर्शनानुसारेण । मनुष्यलोके अल्पं सुखम् अधिकं दुःखम् । नरके केवलं दुःखम् । ऊर्ध्वलोके सुखाधिक्यम् । सोमदेवः पद्येनैकेन वर्णयति लोकम् - मध्याधरोर्ध्वरचनः पवनत्रयान्तस्तुल्यः स्थितेन जघनस्थकरेण पुंसा । एकस्थितिस्तव निकेतनमेष लोक स्त्रस्यन्निकीर्णजठरोऽग्रनिषण्णलोकः ॥ अस्य लोकस्य न कश्चित् कर्ताऽस्तीति पद्यान्तरेणाऽह -
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy