________________
कर्ता न तावदिह कोऽपि धियेच्छया वा दृष्टोऽन्यथा कटकृतावपि स प्रसङ्गः । कार्यं किमत्र सदनादिषु तक्षकाद्यै -
राहृत्य चेत् त्रिभुवनं पुरुषः करोति ॥ यदि कश्चिदीश्वरस्त्रिभुवनं करोति, स एव कटं घटं पटं च करोति । कटकारेण कस्मात्परिश्रमः कर्तव्यः ? इति प्रसङ्गः । गृहादिनिर्माणे तक्षकादिभिः कस्मात् कार्यं कर्तव्यम् ? इति च प्रश्नः । लोके जीवस्य वृत्तिं पद्येनैकेन वर्णयति सोमदेवः । यथा -
त्वं कल्मषावृतमतिनिरये तिरश्चि पुण्योर्जितो दिवि नृषु द्वयकर्मयोगात् । इत्थं निषीदसि जगत्त्रयमन्दिरेऽस्मिन्
स्वैरं प्रचारविधये तव लोक एषः । पापैर्नरके निवासः पुण्यैः स्वर्गे, पापपुण्यरूपकर्मद्वययोगैर्भूलोके इति लोकत्रये जीवः संचरतीति भावः । पुनराह -
अत्राऽस्ति जीव ! न च किञ्चिदभुक्तमुक्तं स्थानं त्वया निखिलतः परिशीलनेन । तत्केवलं विगलिताखिलकर्मजालं
स्पृष्टं कुतूहलधियाऽपि न जातु धाम ॥ अत्र लोकत्रये जीवेनाऽभुक्तमुक्तं किञ्चिदपि स्थानं नास्ति । विगलिताखिलकर्मजालं धाम तु न स्पृष्टम् । इति लोकानुप्रेक्षा । १०. निर्जरानुप्रेक्षा तपश्चरणेन कर्माणि विलीयन्ते । अनेनैव मोक्षसाधनम् आप्यते । सोमदेव आह -
आपातरम्यरचनैर्विरसावसानैजन्मोद्भवैः सुखलवैः स्खलितान्तरङ्गः । दुःखानुषङ्गकरमार्जितवान् यदेन
स्तत् त्वं सहस्व हतजीव ! नवप्रयातम् ॥ हतजीवेति सम्बुद्धिः । सुखलवाशया त्वं स्खलितान्तरङ्गः । अतः एनः (पापम्) आर्जितवान् । तत् कर्मविपाकं सहस्वेति अत्र कथ्यते । पुनश्च -
कालुष्यमेति यदिह स्वयमात्मकामो जागर्ति तत्र ननु कर्म पुरातनं ते ।
१७