SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ योऽहिं विवर्धयति कोऽपि विमुग्धबुद्धिः स्वस्योदयाय स नरः प्रवरः कथं स्यात् ॥ सर्प विवर्धितवान् नरप्रवरो न । कर्म विवर्धितवानपि तथा । मतिमता निर्जरावृद्धौ यतनीयमिति तात्पर्यम् । तदनुवर्तयन्नाह - आतङ्कपावकशिखाः सरसावलेखाः स्वस्थे मनाङ्मनसि ते लघु विस्मरन्ति । तत्कालजातमतिविस्फुरितानि पश्चा ज्जीवाऽन्यथा यदि भवन्ति कुतोऽप्रियं ते ॥ ११. धर्मानुप्रेक्षा अनुप्रेक्षासु मुख्या धर्मानुप्रेक्षा । तत्र धर्मविषये आप्तवाक्यं प्रमाणम् । धर्म कं वदन्त्याप्ता इत्याह श्रद्धाभिसन्धिरवधूतबहिस्समीहस्तत्त्वावसायसलिलाहितमूलबन्धः । आत्मा यमात्मनि तनोति फलद्वयार्थी धर्मं तमाहुरमृतोपमसस्यमाप्ताः ॥ आप्ताः सर्वज्ञा जिनाः । तत्त्वानि जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षरूपाणि सप्त । अवसाय: सम्यग् ज्ञानम् । फलद्वयार्थी स्वर्ग-मोक्षाकाङ्क्षी । शिष्टं स्पष्टम् । मैत्रीदयादमशमागमनिर्वृतानां बाह्येन्द्रियप्रसरवजितमानसानाम् । विद्याप्रभाप्रहतमोहमहाग्रहाणां धर्मः परापरफलः सुलभो नराणाम् ॥ मैत्र्यादयो गुणाः, इन्द्रियनिग्रहः, विद्या चेति त्रयं येषु तेषां धर्मः सुलभ इति तात्पर्यम् । धर्मः किं करोतीत्याह - इच्छाः फलैः कलयति, प्ररुणद्धि बाधाः सृष्टेरसाम्यविभुरभ्युदयादिभिर्यः । ज्योतींषि दूतयति चाऽऽत्मसमीहितेषु धर्मः स शर्मनिधिरस्तु सतां हिताय ॥ ज्योतींषि श्रुतावधिमनःपर्यायादीनि । दूतयति दूतरूपेण प्रहिणोति प्रेषयतीति । अत्र धर्ममहिमा प्रोक्तः ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy