________________
देहोपहारकुतपैः स्वपरोपतापैः कृत्वाध्वरेश्वरमिषं विदलन्मनीषाः । धमैषिणो य इह केचन मान्द्यभाज
स्ते जातजीवितधियो विषमापिबन्ति ॥ अत्र यागानाम् अधर्मकारणत्वं कथितम् । यागमिषेण जीवहिंसां कुर्वाणा विषमास्वादयन्ति । स्वाहितं स्वयम् आचरन्तीति भावः ।
येऽन्यत्र मन्त्रमहिमेक्षणमुग्धबोधाः शर्वैषिणः पुनरतः शिवतां गृणन्ति । ते नावि तारणदृशो दृषदोऽवलम्ब्य
दुष्पारमम्बुधिजलं परिलङ्घयन्ति ॥ __शर्वैषिणो रुद्रमतानुयायिनः । शिवतां शिवस्वरूपप्राप्तिः अस्माकं भविष्यतीति वदन्ति । दृषदः शिलाः अवलम्ब्य समुद्रं ते तितीर्षन्ति । तथैव मुक्तिप्राप्तौ विफला भविष्यन्ति इति भावः ।
धर्मश्रुतेरिह परत्र च येऽविचाराः सन्दिह्य तामसदृशः सततं यतन्ते । दुग्धाभिधानसमताविलबुद्धयस्ते
नूनं गवार्करसपानपरा भवन्तु ॥ इह जैनमते परत्राऽन्यमतेषु च सन्दिह्य सन्देहं कृत्वा ये यतन्ते यत्नं कुर्वन्ति, ते गवार्करसपानपरा भवन्तु । अर्कवृक्षस्य पत्राणां रसो धावल्येन मन्दत्वेन च क्षीरसदृशो भवति । तदेव दुग्धमिति कैश्चित् कथ्यते। तत्पाने कृते रोग उत्पद्यते । तामसदृशो जैनेतरमतं यदाश्रयन्ति, तत् गवार्करसपानसमानमिति भावः।
अज्ञस्य शक्तिरसमर्थविधेर्निबोधस्तौ चाऽरुचेरियममू तुदती न किञ्चित् । अन्धाङ्ग्रिहीनहतवाञ्छितमानसानां
दृष्टा न जातु हितवृत्तिरनन्तराया ॥ अज्ञो ज्ञानहीनः, असमर्थविधिः चारित्रहीनः, अरुचिः श्रद्धाहीनः इत्येते त्रयोऽपि नश्यन्ति । तत्र दृष्टान्तोऽस्ति - वनाग्नौ जृम्भमाणे अन्धः, पङ्गः, हतवाञ्छित इति त्रयोऽपि दह्यन्ते । अतो ज्ञानं चारित्रं श्रद्धा चेति त्रयं यस्मिन् तस्यैव मोक्षसिद्धिः । तदेवाऽऽह -
चालुं रुचौ तदुचिताचरणे च नृणां दृष्टार्थसिद्धिरगदादिनिषेवणेषु ।