________________
तस्मात्परापरफलप्रदधर्मकामाः
सन्तस्त्रयावगमनीतिपरा भवन्तु ॥ इति धर्मानुप्रेक्षा । १२. बोधिदुर्लभतानुप्रेक्षा
लोके धनं दाराः सुहृदोऽन्ये पदार्थाश्च सुलभाः । किन्तु बोधिः सुदुर्लभा । मानवत्वमेव सुदैवाल्लभ्यते, मानवजीवन एव बोधिर्लभ्यते, नाऽन्यजातिजन्मसु । तदाह सोमदेवसूरिः -
संसारसागरमिमं भ्रमता नितान्तं जीवेन मानवभवः समवापि दैवात् । तत्रापि यद्भुवनमान्यकुले प्रसूतिः
तत्सङ्गतिश्च तदिहाऽन्धकवर्तकीयम् ।। मनुष्यत्वं, सत्कुले जन्म, महापुरुषसंश्रयश्चेति त्रयं यदि केनचिल्लभ्यते, तदन्धकवर्तकीयम् । कश्चिदन्धको यदृच्छया करतलेन करतलं ताडयन्नस्ति । वर्तकः पक्षिविशेषः करतलमध्यागतो गृह्यते अन्धकेन । तद्यथा अन्धकस्य सुदैवात् कदाचिदेव भवति इति दृष्टान्तः ।
कृच्छ्राद्वनस्पतिगतेश्च्युत एष जीवः श्वभ्रेषु कल्मषवशेन पुनः प्रयाति । तेभ्यः परस्परविरोधिमृगप्रसूतौ
अस्याः पशुप्रतिनिभेषु कुमानवेषु ॥ वनस्पतिजन्म, ततः श्वभ्रेषु नरकेषु गतिः, ततः अन्योन्यविरोधिगजसिंहादिजातिषु जन्म, ततः पशुसदृशेषु मानवरूपेषु जन्म ।
संसारयन्त्रमुदयास्तघटीपरीतं सातानतामसगुणं भृतमाधितोयैः । इत्थं चतुर्गतिसरित्परिवर्तमध्यम्
आवाहयेत् स्वकृतकर्मफलानि भोक्तुम् ॥ सातानतामसगुणम् इति सविस्तारतमोगुणप्रभावितम् । गुणशब्दः श्लिष्टः । रज्जुरित्यप्यर्थो विवक्षितः । उदयास्तावेव घट्यः । आधय एत तोयानि । एवं सावयवरूपकमिदम् ।
आतङ्कशोकभयभोगकलत्रपुत्रर्यः खेदयेन्मनुजजन्म मनोरथाप्तम् । नूनं स भस्मकृतधीरिह रत्नराशिमुद्दीपयेदतनुमोहमलीमसात्मा ॥
२०