SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मनोरथैराप्तं मानवजन्म व्यर्थैरातङ्कादिभिः यः खेदयेत् स रत्नराशिं वह्नौ क्षिपेत् । रत्नसदृशं मानवजन्म तथा न मोघीकर्तव्यमिति तात्पर्यम् । बाह्यप्रपञ्चविमुखस्य शमोन्मुखस्य भूतानुकम्पनरुचः प्रियतत्त्ववाचः । प्रत्यक्प्रवृत्तहृदयस्य जितेन्द्रियस्य भव्यस्य बोधिरियमस्तु पदाय तस्मै ॥ बोधिर्नाम रत्नत्रयप्राप्तिः । भव्यस्य योग्यस्य मनुष्यस्य । तस्मै पदाय मोक्षाख्याय स्थानाय अस्तु कल्पताम् । तस्य पुरुषस्य योग्यताद्योतकानि षड् विशेषणानि बाह्यप्रपञ्चविमुखस्येत्यादीनि । विवेकिभिर्दादशानुप्रेक्षाः कार्याः । अध्रुवत्वादीनां चिन्तना सततं करणीया यया वैराग्यं दृढीभविष्यति। पतञ्जलिनाऽपि योगश्चित्तवृत्तिनिरोध इत्युक्त्वा अभ्यासवैराग्याभ्यां तन्निरोध इति वैराग्यस्य प्राधान्यं प्रतिपादितम् । दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् इति वैराग्यलक्षणं च कथितम् । विवेकचूडामणौ चोक्तम् - वैराग्यं च मुमुक्षुत्वं तीव्र यस्य तु विद्यते । तस्मिन्नेवाऽर्थवन्तः स्युः फलवन्तः शमादयः ॥ एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत्तत्र शमादेर्भासमात्रता ॥ इति । वीतरागाय नमः । -x
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy