SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ क्षमा वीरस्य भूषणम् सा.मोक्षयशाश्रीः वैविध्यपूर्णेऽस्मिन् जगति नैकविधविचारशीला मानवाः सन्ति । केचन विमर्शकारिणो नरास्तथा ससंवेदना जना अपि केचन विराजन्ते । मनोरथमया मानवाः केचन तथा हिंसका अपि केचन सन्ति । प्रत्येकं मनुष्यस्य हृदि विचारणाः संवेदना मनोरथाश्च भिन्ना भिन्ना भवन्ति । यदि मानवानां पारस्परिकविचाराणां परस्परं सुयोग्यसम्मेलनं स्यात् तर्हि मैत्रीभावः प्रादुर्भवेत् । अन्यथा वैमनस्यं स्यात् । "यत्र वैमनस्यं प्रादुर्भवेत् तत्र क्षमा आवश्यकी" । स्वकीयविचारेण स्वकीयमनोरथेन च सह यदा विरोधः समागच्छत्यथवा स्वकीयेच्छापूर्त्तिर्यदा न भवेत्तदा मानवः शीघ्रं क्रोधाविष्टो भवति । किन्तु तत्समये स्वकीयमनसि स्वस्थीभूय विचारणीयम् - 'मया तु क्षमा एव प्रदातव्या' इति । प्रत्येकस्मिन् मानवे विचाराणां वैविध्यं विज्ञाय क्षमादानकरण एव मनसः स्थिरीकरणं वरम् । क्षमादानप्रभावेन देहस्वास्थ्यं प्राप्यते, आत्मा च प्रमोदभावेन प्रमुदितो भवेत् । अतो महावीरप्रभोः क्षमां मनसि निधाय स्वमताद् विपरीतकार्यकारिषु गालिप्रदायकेषु निन्दाकारिषु च जनेषु क्षमा एव देयत्वेन श्लाघ्यतमा मन्तव्या । एकदा कश्चन ज्ञानिपुरुषः सभामध्ये उपविष्टः । तदैकः सामान्यजनः समागत्य तस्मै नैकविधं गालिप्रदानं चक्रे । पार्श्वस्थितं तन्मित्रं तस्मै कथितवान् – “अयं भवतो बहुविधानपशब्दानुक्तवान्, तयपि भवतो मुखारविन्दे प्रसन्नता एव दरीदृश्यते - इति भवदीयमनःस्थितिराश्चर्यकारिणी" । मित्रवर्यस्य वाक्यं श्रुत्वा सस्मितं ज्ञानिपुरुष उदितवान् – “भो प्रियमित्र ! शृणु । यदि कोऽपि जनः समागत्य स्वकीयं वस्तु दद्यात्, तद्वस्तु च यदि भवते न रोचते तर्हि भवान् तद् गृह्णाति किम् ?" "नैव, यदि मह्यं न रोचते तर्हि अहं न गृह्णामि ।" "तथैव अस्याऽपशब्देषु मदीया रुचिरपि न वर्तते । अतोऽहं मौनीभूय स्थितवान् ।" क्षमाभावस्य विकासो न कापुरुषाणां किन्तु वीरपुरुषाणां सहजस्वभावः । सदाचाररक्षणार्थं प्रतिकारकरणं त्वावश्यकमेव किन्तु क्षमाशीलमनुष्याः प्रतिकारमपि विवेकपूर्वकं कुर्वन्ति । यथा प्रभुमहावीरश्चण्डकौशिकसर्प प्रति सुधारसं प्रवाह्य सर्पमपि सुरलोकस्याऽतिथिं चकार । तथैव जगतः सर्वप्राणिषु प्रेमपूर्णा सवात्सल्या मैत्री धर्तव्या, सा एव क्षमा ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy