________________
उदन्तमेतस्य पुरोऽखिलं तव,
तृणायते कौशलमेतदम्बिके ! ॥१६॥ व्यधत्त पाणिग्रहणं तदैव स,
नृपाङ्गजाया विमलापुरं गतः । मया भवत्यै कथितं तदैव यत्,
___ त्वया न तत् सत्यतयोपलक्षितम् ॥१७॥ जगत्यनेका विदुषी महीयसी,
पुमांसमत्येतुमसौ प्रभुर्नहि । पतिं स्वकीयं तच्छलयन्त्यहं स्वयं,
छले निमग्ना दुरदृष्टतो हहा ! ॥१८॥ छलेऽतिनिष्णैरपि यः परैर्नृपः
प्रतारितो जातु न स स्त्रिया कथम् । प्रतारणीयो, न हि सङ्गतं मया,
व्यधायि तावत् तव सङ्गदोषतः ॥१९॥ त्वदीयवाक्यं न मया पुनस्तथा,
करिष्यते प्रेरितयाऽपि जातुचित् । कया स्वभर्तुर्विपरीतचेष्टितं,
विधीयते कोपनयाऽपि योषिता ॥२०॥ विराजतां ते सकला कला ततो,
न मेऽधुना किञ्चिदपि प्रयोजनम् । त्वयेतरा भर्तृमती जनन्यथो
न जातु कार्या कुतुकेक्षणोत्सुका ॥२१॥
अथ ग्रन्थकृत्प्रशस्तिः श्रीमहावीरशिष्योऽभूच्छ्रीसुधर्माभिधो गणी । यद्वाणीसुरधुन्यम्बु-धारा श्रुतिधरातले ॥१॥ मधुमज्जितमाध्वीक-माधुरी मन्दयन्त्यलम् । अविश्रान्तं नृणामन्तः, पुनात्यद्याऽपि भासुरा ॥२॥ युग्मम्