________________
तदीयपट्टहट्टाली-क्रीतसंयमवैभवः पञ्चव्रती शान्ततन्द्रो, जगच्चन्द्रो बभूविवान् ॥३॥ तपोगच्छं महास्वच्छं, चन्द्रो जगदिवाकरोत् । तत एव स सर्वत्र, तपोगच्छोऽतिपप्रथे ॥४॥ तत्पट्टरत्नाकरतो, हीरः सूरिरुदीयिवान् । अकब्बरमनोध्वान्त-मन्तमत्यन्तमानयत् ॥५॥ सेन-देवौ पुष्पवन्तौ, तत्पट्टोदयशैलतः । तपोगच्छाम्बरेऽभाता-मुदितौ सूरिनायकौ ॥६॥ तत्पट्टमण्डनो वृद्धि-चन्द्रो विद्यानुरागवान् । पादचारेण धरणिं, पपाव भविमोदकृत् ॥७॥ तत्पट्टचक्रनेमिः श्री-नेमिः सूरिवरोऽभवत् । कदम्बप्रमुखानेक-तीर्थोद्धारपरायणः ॥८॥ ततस्तृतीयस्तत्पट्ट-धरः शान्ताकृतिः परः । समयज्ञोऽस्ति विज्ञान-सूरिशौण्डो गुणाकरः ॥९॥ तदीयापारकारुण्य-लेशं सम्प्राप्य तोषभाक् । तत्पट्टसरसीजात-भानुः कस्तूरसूरिराट् ॥१०॥ इदं पवित्रं श्रीचन्द्र-चरित्रं प्राणयच्छुभम् । तद् गुरूणां शयाम्भोज-द्वन्द्वे स च समार्पयत् ॥११॥ वस्वाकाशवियन्नेत्र-मिते(२००८) वैक्रमवत्सरे । नेम्यब्दे वह्निसंख्याते(३), पूर्णो ग्रन्थः शरद्विधौ ॥१२॥
(वसन्ततिलकावृत्तम्) जीयाद् यशोबलसमृद्धिसुशीलपद्म
___ भानुः शुभङ्करगुणोदयसिद्धिपूर्णः । विज्ञान एष मुनिवल्लभमुन्निधान
कस्तूरयद्विनयकैरवचन्द्र आर्यः ॥१३॥