________________
किञ्च, मुनेः कस्तूरविजयस्य दीक्षाया सप्ताष्टवर्षानन्तरमेव गुरुकृपायाः फलत्वेन यथाकालं विविधा मुमुक्षवः समागत्य तत्पावें दीक्षां गृहीत्वा तच्छिष्याः समभवन् । तत्र प्रथम आसीत् मुनियशोभद्रविजयः । तदनु मुनिकुमुद्रचन्द्रविजयः, मुनिचन्द्रोदयविजयः, मुनिकीर्तिचन्द्रविजयः, अन्येऽपि च नव मुनयस्तस्य शिष्यत्वं प्राप्ताः । तथा शिष्याणां प्रशिष्याणां चाऽपि परिवारो बह्ववर्धत, येषु मुनिशुभङ्करविजयः, मुनिसूर्योदयविजयः, मुनिजयचन्द्रविजयः, मुनिप्रबोधचन्द्रविजयः, मुनिअजितचन्द्रविजयः, मुनिशीलचन्द्रविजयः, मुनिसोमचन्द्रविजयः - इत्येते मुख्यास्तथा तेषामपि परिवारे बहवो मुनिवराः सञ्जाताः । (अत्र ये उल्लिखिता मुनयस्ते सर्वेऽपि मुनेः कस्तूरविजयस्य सकाशादेव ज्ञानार्जनं कृत्वा श्रुतविदो भूत्वा आचार्यपदसमलङ्कृता अभवन् । अयमपि चाऽऽलेखकस्तदीय एव परिवारे दीक्षितोऽस्ति ।)
एवमेव बहवः पण्डिताः श्रावका गृहस्थाश्चाऽपि तत्सकाशादधीत्य शास्त्रविदः सञ्जाताः ।
अथ च, व्याकरण-संस्कृतभाषा-साहित्य-तर्क-दर्शनादिषु पारङ्गता बहवः पण्डिता आसन् सन्ति च, सिद्धान्त-कर्मसाहित्यादिष्वपि प्रभूताः विद्वांसः समभवन् विद्यन्ते चाऽपि, किन्तु सनियुक्ति-चूर्णिभाष्या जैनागमाः प्रभूतानि प्रकरणसूत्राणि - इत्यादिकं भूयिष्ठं जैनसाहित्यं यया भाषया निबद्धमस्ति सा प्राकृतभाषाऽद्यत्वेऽत्यल्पतयाऽधीयते, विद्वज्जगति च सा भाषा भृशमुपेक्षास्पदं सञ्जाताऽस्ति । एतत्तथ्यं मनसिकृत्य मुनिकस्तूरविजयेनाऽन्यस्य सर्वविधस्य साहित्यस्याऽध्ययनेन सह प्राकृतभाषाशिक्षणार्थं तदात्मसात्करणार्थं च कठोरपरिश्रमः कृतः । एतस्य फलत्वेन समग्रेऽपि जैनसमाजे विद्वत्समवाये च तस्य प्रसिद्धिः प्राकृतवाग्-विशारदत्वेन सञ्जाताः । प्राकृतसाहित्यविषयाः सर्वा अपि समस्या मुनिकस्तूरविजय एव समाधास्यतीति सर्वत्र प्रसिद्धिर्जाता । राष्ट्रीयाणामन्ताराष्ट्रीयाणां च नैकेषां विदुषां पृच्छास्पदं सोऽभवत् । तेन विरचिताः प्राकृतरूपमाला-प्राकृतविज्ञानपाठशाला-पाइयविन्नाणकहा-प्रमुखा ग्रन्थास्तु विश्वविद्यालयानां पाठ्यक्रमेष्वन्तर्भूताः सन्तोऽद्यत्वेऽपि विद्यार्थिनां प्राकृतभाषासाहित्यजगति प्रवेशद्वारायन्ते।
एवमेवाऽन्येऽपि बहवो ग्रन्थास्तेन विरचिताः सम्पादिताः संशोधिताश्च प्राधान्येन प्राकृतभाषासाहित्यविषयास्तथाऽन्येऽपि संस्कृतादिसाहित्यविषयाः, ये विद्यार्थिनां विद्वज्जनानां च कृते समानतयोपकारकाः सञ्जाताः । एतदर्थं च तान् तादात्विकविद्वज्जनानामिवाऽद्यत्वेऽपि भूयांसो स्वदेशीया वैदेशिकाश्च विद्वांसः प्रशंसन्ति ।
एतादृशस्य मुनेः कस्तूरविजयस्य गुणवत्तां, ज्ञानभाजनतां, शिष्यादिपरिवारसम्पत्ति, लोकविश्रुततां चेत्यादिकां सर्वामपि बाह्याभ्यन्तरसमृद्धिमवलोक्य प्रसन्नैः पूज्यैः परमगुरुभिः शासनसम्राभिर्वैक्रमे २००१तमे वर्षे फाल्गुनकृष्णचतुर्थीदिने स आचार्यपदप्रदानेन समलङ्कृतः । इतः परमेते आचार्याः श्रीविजयकस्तूरसूरयः इत्यभिधाः समभवन् ।
आचार्यपदोपलब्ध्यनन्तरमपि तेषां निःस्पृहताऽनासक्तिः सारल्यं, निरभिमानता, गुरुसमर्पणं, ज्ञानार्जनप्रवृत्तिः, स्वाध्यायः - इत्यादयो गुणास्तु तथैवाऽवस्थिता इति तु न सत्यमपि तु वैशद्यं विस्तारं
३५