________________
प्रस्तारं चाऽपि प्राप्य नितरां वृद्धिङ्गताः । लोकसम्पर्कस्तु तेभ्य आजीवनं नैव रोचते स्म । सदैव स्वकार्ये एव मग्नास्ते जनाराधनतो दूरमेवाऽवतिष्ठन्ति स्म । तेषां द्वे एव कार्ये प्रियतरे आस्ताम् - अध्यापन स्वाध्यायश्च । एतद्द्वयार्थं हि ते सर्वदाऽपि सिद्धा एवाऽवर्तन्त । एतदतिरिच्याऽन्यस्मिन् कार्ये ते आनुकूल्य-प्रातिकूल्यादिभावान् विचारयन्ति स्म, किन्तु एतद्द्वये तु तैर्न कदापि किमपि विचारितम् ।
किञ्च, तैनिजजीवने केवलं शास्त्रीयमध्ययनाध्यापनादिकमेव कृतं, प्राचीनसाहित्यावगाहनमेव वा कृतम् - इति न, परमाधुनिकसाहित्यावगाहनमपि तथैव रुच्या, उत्साहेन, गभीरतया च कृतम् । प्रायशस्ते सर्वविधैरपि समकालीनाधुनिकप्रवाहैः परिचिता आसन्, तथा प्राचीनार्वाचीनोभयविधेऽपि साहित्ये साधिकारं परामर्श कर्तुं समर्थास्ते आसन् ।
एवंविधास्ते महात्मान आजीवनं गुरुसेवां कृत्वा, गुरौ च स्वर्गते सति, निजानन्दनिमग्नाः प्रायशः सर्वविधलोकव्यवहारादिभ्यो विमुक्ताः, अथाऽपि स्वाध्यायाध्यापनादिषु निरताः, यथायथमुपस्थिताननिवार्यान् लोकव्यवहारान् परिपाल्य, प्रासङ्गिककार्याणि च पूर्णीकृत्य, वयोवृद्ध्या सह स्वास्थ्यहानिं चाऽप्यनुभवन्तो वैक्रमे २०३२तमे वर्षे वैशाखकृष्णचतुर्दशीदिने हृदयाघातं प्राप्य सपरमात्मनामस्मरणं ससमाधिभावं सोज्जागरदशं च स्वर्वासं प्राप्ताः । (अद्यत्वे) आणंदजिलास्थे सोजित्राग्रामे तेषां स्वर्गमनं सञ्जातम् ।
पञ्चभूतमयो देहस्तु तेषां पुनः पञ्चत्वं प्राप्य विलीनो जातः, किन्तु तेषामक्षरमयो देहः शिष्यपरम्परास्वरूपो देहश्चाऽद्याऽपि जीवतितरां, सुचिरं च जीविष्यति, जगज्जनानां च तद्गुणसम्पत्तेः स्मारणं वितरणं च करिष्यति -
इति शम् । विरमामि तावत् ।
३६