SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ शासनसम्राजो भगवन्तो मेदपाटक(मेवाड)भूमिं प्रति विहर्तुं समुद्यता अभवन् । क्रमेण च विहृतास्ते । कान्तिलालोऽपि यथानुकूल्यं गुरुभगवतां विहारे यातायातं करोति स्म । तन्मनः सर्वत्यागं कर्तुं, श्रमणवेषं धर्तुं, गुरुचरणे चाऽऽजन्मोपासितुं नितरामुत्कण्ठितं वर्तते, किन्तु पित्रोः सकाशात् तदर्थमनुमतिर्लोहमयचणकचर्वणमिव दुर्लभाऽऽसीत् । वस्तुतस्तु 'दीक्षां ग्रहीतुमिच्छाम्यह'मिति पित्रोनिवेदनं कर्तुमपि सर्वथा दुःशकमासीत् । किन्तु दीक्षार्थं हृदयगतोत्कण्ठाऽपि तथा विवृद्धि प्राप्ता यथा तां धारयितुं स न शक्नोति स्म । अत एकदा स गृहे कमप्यनुक्त्वा पलायितः, मेदपाटकप्रदेशे च यत्र गुरुभगवन्तो विराजमाना आसन् तत्र प्राप्तः । सानुनयं सानुरोधं च गुरुभगवद्भयो विज्ञप्तिं कृत्वा, दीक्षादानार्थं चाऽनुकूलान् कृत्वा, वैक्रमे १९७६तमे संवति फाल्गुनकृष्णतृतीयादिने नावलीस्टेशनसमीपे गोधूमग्रामे तेन दीक्षा गृहीता । पन्यासश्रीविज्ञानविजयगणिनां शिष्यतया प्रथितस्य तस्य नाम - मुनिकस्तूरविजयः इति स्थापितम् ।। दीक्षादिनादेवाऽऽरभ्य तेन गुरुचरणयोरात्मा तथा समर्पितो यथा स स्वीयामिच्छामनिच्छां वा, रुचिमरुचिं वा, अनुकूलतां प्रतिकूलतां वा सर्वथा न गणयति स्म । गुरुभगवतामिच्छां रुचिमानुकूल्यं चैव भगवदाज्ञामिव शिरस्यवधार्य तदनुरूपमेव प्रवर्तते स्म । तथैव दीक्षाग्रहणानन्तरमाजीवनं तेन गुरोः सन्निधावेवोषितं तत्सेवा च कृता । दिनमेकमपि स गुरूभगवद्भयो वियुक्तो न जातः । अपि च, पूज्याः श्रीविज्ञानविजयगणिवरा समस्तश्रुतविदो बुद्ध्या च चाणक्यनिभा आसन् । विषमपरिस्थितौ हि पूज्याः शासनसम्राजो भगवन्तस्तैः सहैव परामर्श कुर्वन्ति स्म । किन्तु, एते खलु सर्वथा निःस्पृहाः सन्तोषिणश्चाऽऽसन् । शिष्यान् कर्तुमपि तेषां स्पृहा नाऽऽसीत् । कस्तूरविजयस्य दीक्षाया अनन्तरं तैनिश्चितं यदितः परं न कोऽपि शिष्यतया स्वीकर्तव्यो मया । कस्तूरविजय एव मम कृते पर्याप्तः । तमेव श्रुत-विद्यासम्पन्नं कर्तुं परिश्रमः कर्तव्यो मया । तमेव शासनमान्यं, विद्वज्जनमूर्धन्यं, श्रुतपारगामिणं, लोकविश्रुतं च कर्तुं सर्वायासेन यतितव्यम्' । अतस्तैः कस्तूरविजयमध्यापयितुं सर्वविधाः प्रयत्नाः प्रारब्धाः। इतश्च कस्तूरविजयस्य ज्ञानग्रहणक्षमता सीमिताऽऽसीत् । रुचिस्तु ततोऽप्यल्पीयस्यासीत् । तथाऽपि गुरुभगवतां हादिकी भावनामवबुध्य, स्वीयां सर्वामपि रुचिमरुचिं चाऽवगणय्य गुरुचरणयोरुपविश्य निरन्तरं तन्मार्गदर्शनानुसारं शास्त्राध्ययनार्थं यत्नान् कर्तुमारब्धः । गुरवोऽपि च तमध्यापयितुं सर्वानपि बाह्यव्यवहारान् त्यक्त्वा, प्रलोभनानि विमुच्य, जनसम्पर्काच्च दूरीभूय राजस्थानप्रदेशस्य विविधग्रामेषु विहृतवन्तस्तत्र च विजनेषु स्थानेषु स्थित्वा कस्तूरविजयं स्वयमध्यापितवन्तः, पण्डितानां यतिवर्याणां च सकाशात् शिक्षा ग्राहितवन्तः । ___ एवं च कृते कस्तूरविजयस्य ज्ञानग्रहणक्षमता निष्ठा च तथा वृद्धिङ्गता यथा स सततं ज्ञानयोगनिरतः स्वाध्यायपरायणश्च सन् गच्छता कालेन परम आगमज्ञो गीतार्थश्च सञ्जातः । सततं ज्ञानार्जनपरिश्रमः, लोकसम्पर्कनिवृत्तिः, पूर्णज्ञाननिष्ठा, गभीरं वैराग्यं, निःस्पृहता, निष्कामा गुरुसेवा, गुरुसमर्पणभावश्चेत्यादिभिगुणैः परिपूर्णः स श्रुतपारगामी विद्वज्जनप्रच्छनीयश्च सञ्जातः । ३४
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy