________________
कृताञ्जलिः साऽथ नृपं जगाद,
___ 'सत्यं मदुक्तं न पुनर्मूषोद्यम् । स्वप्नेक्षितस्वीयमृति: पुनर्ना,
जानाति किं तदृतमस्तनिद्रः ? ॥३॥ रात्रौ मया जागरितं, न तेऽभूद्,
विश्वास इत्यत्र न काउपि तेन । हानिः, प्रभुर्वेत्ति समस्तमेव,
जिनाधिपोऽसौ भुवनावलोकी ॥४॥ मृषा गिरन्तः पुरुषाः समस्तं,
जगद् विजानन्ति मृषामयं हि । यदीक्षणं पीतिमदोषदुष्टं
पीतं स गृह्णाति पदार्थसार्थम् ॥५॥ कौटिल्यदक्षाः पुरुषा भवन्ति,
नार्यो न कुत्राऽपि कलङ्कभीत्या । तथाऽप्यनास्था यदि ते मयि स्यात्,
कुर्यां समाधिं कमहं तदाऽत्र ॥६॥ एवं प्रियाया वचनं निशम्य,
प्रोवाच चन्द्रोऽपि 'वृथा किमर्थम् । मह्यं प्रिये ! क्रुध्यसि निष्फलं त्वं,
गायस्व संवादय मे न रोधः' ॥७॥ स्वप्ने कथं तेऽभवदिन्दुवक्त्रे !,
विश्वास एवं किल नर्मणोक्ते । अथाऽपि चेत् ते हृदयेऽस्त्यनास्था,
जानीहि सर्वं मम सम्यगुक्तम् ॥८॥ श्वश्रूसमेता कुरु सौख्यमग्ग्रं,
योगो मनोज्ञो युवयोरयं हि । त्वं जातुचिन्माऽप्यनुगृह्य कान्तं,
संदर्शयेस्तत्कुतुकं पुरस्तात् ॥७॥