________________
स वक्रगतिनाऽश्वेन, बहुदूरमनीयत । अजानस्तद्गतेश्चेष्टां, समुद्रोमिमिव प्रभुः ॥३६॥ दुर्दमेन हृदेवासा-वपि रुद्धखलीनकः । पवनातिगवेगेन, वाजिना दूरमापितः ॥३७॥ प्रयत्लेनाऽपि तद्वेगं, नृपो रोद्धमनीश्वरः । तृषार्तोऽचिन्तयद् युक्ति-मवताराय वाजिनः ॥३८॥ इतो वापीतटे कञ्चिद्, वटवृक्षं व्यलोकत । ततशाखाशतैश्छन्नं, नानापक्षिनिनादितम् ॥३९॥ तं वीक्ष्य नृपतिश्चित्ते, चिन्तयामास ‘यद्यहम् । अस्य शाखामधिश्रित्य, नीचैः स्यां तर्हि मे सुखम् ॥४०॥ इति निश्चित्य सपदि, शाखामालम्ब्य वाजिनः । उत्ततार महीपालः, सोऽप्यश्वो निभृतं स्थितः ॥४१॥ तं दृष्ट्वा निश्चलं राजा, पश्चात्तापमुपागतः । अहो ! अजानता व्यर्थं, मया दूरमुपस्थितम् ॥४२॥
तृतीयः सर्गः
(पृथ्वीवृत्तम्) स्फुरत्फणिफणावलीसुललितातपत्रः सदा,
मृगाङ्कमधुरच्छविर्वतनुर्महोमण्डितः । विमुक्तिवरसुन्दरीकरनिपीडनप्रोल्लस
लमज्जनसुरद्रुमो विजयतां स पार्श्वः प्रभुः ॥१॥
(उपजातिवृत्तम्) चन्द्रेण वाग्भिर्बहुबोधिताऽपि,
गुणावली नैव गता प्रतीतिम् । कूतोऽपराधो हि जनस्य चित्तं,
करोत्यनास्थाग्रसितं प्रसह्य ॥२॥
४८