________________
तडिद्वा किमु ? तारा वा ?, ज्योत्स्ना वा सा हिमश्रुतेः ? । तामालोक्य जना एवं, विवदन्ते परस्परम् ॥२२॥ तया सह महीपालो, रात्रिन्दिवमनाकुलः । विषयोत्थं सुखं भेजे, पौलोम्येव पुरन्दरः ॥२३॥ तस्य तत्सुखमालोक्य, सुरेन्द्रोऽपि दिवानिशम् । प्रशशंस सुधर्मास्थः, पुरो नाकसदामसौ ॥२४॥ अथैकदाऽश्वव्यापारी, वाहानादाय तत्पुरे । अननिगमद् राज-सभायां सभ्यशेखरः ॥२५॥ विशालनयनानश्वान्, कुक्कुटस्कन्धकांस्तथा । मनःपवनयोर्वेग-जिष्णूनुच्चैःश्रवःसमान् ॥२६॥ येषां गतिं समालोक्य, संदिहानो जनोऽभवत् । सुपर्णः किं विना पक्षा-वेष यातीति भूतले ? ॥२७॥ विद्युत्कल्पा हि सहसा-ऽदृश्या वेल्लन्ति लाघवात् । खुराघातेन शकलान्, कुर्वाणाः पर्वतानपि ॥२८॥ तौरुष्का हांसलाः श्रीमत्काम्बोजा इव तेऽभवन् । अनेकजातिसञ्जातान्, दृष्ट्वा राजा तुतोष तान् ॥२९॥ तस्मै दत्त्वाऽधिकं मूल्यं, सर्वानश्वान् महीपतिः । आत्मसात्कृतवान् तज्ज्ञः, समये न हि सीदति ॥३०॥ तेषु वक्रगतिः कश्चि-दश्चः पमसुन्दरः । आसीत् तत्र नृपोऽर्थेऽभून्महारागोऽतिलुब्धवत् ॥३१॥ अथैकदा महीपाल-श्चतुरङ्गबलान्वितः । तमेवाश्वं समारुह्य, मृगयायै ययौ वनम् ॥३२॥ इतस्ततस्ते हरिणान्, शशकान् महिषान् किरीन् । पलायमानान् जगृहु-नारकीयानिवाऽन्तकाः ॥३३॥ तेषु चैकं मृगं वेगाद्, नश्यन्तमवलोकयन् । अश्वारूढोऽनुचक्राम, सत्वरं तज्जिघृक्षया ॥३४॥ बहुदूरगतोऽप्येनं, नाऽऽससाद नरेश्वरः । आयुःसत्त्वे न कस्यापि, कोऽपि किञ्चित् करोति हि ॥३५॥ (युग्मम्)