SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ तथाऽपि तस्य चरितं, वच्मि त्रैलोक्यपावनम् । श्रेयसे हि कृतो यत्नो, न्यूनोऽपि न विगीयते ॥७॥ जम्बूद्वीपस्य भरत-क्षेत्र पूर्वदिगाश्रया । 'आभेति नाम्नी नगरी, विद्यते पूधुरन्धरा ॥१०॥ आभेव सर्वजगतः, सर्वसंस्कारबन्धुरा । यामपेक्ष्य सुरेन्द्रस्य, नगरी न गरीयसी ॥११॥ नाडलं साऽप्यलका वापि, रत्नद्वीपोऽथवा कुतः ?। तस्याः समत्वं लभते ?, किमन्धुः सिन्धुवद् भुवि ? ॥१२॥ युक्तं लङ्काउब्धिमध्येडगाद्, यदीयसुषमा जिता । मृतिर्वा दूरसंप्राप्ति-माने म्लाने सतां गतिः ॥१३॥ तत्र भूमौ सुदुर्गाभा, उच्चैः सौधा बभासिरे । औन्नत्येन सुमेरोयें, लघिमानं वितन्वते ॥१४॥ रत्नभान्वितहाणि, शिखरश्रेणिकैतवात् । अझं हसन्त्युद्दन्तानि, दिवमालोक्य तत्र किम् ? ॥१५॥ विपण्य आपणायन्ते, यस्मिन्नापणसन्ततिः । रत्नाकरायते वीथी, रोहणागति' सर्वतः ॥१६॥ व्यापारिणो नृपायन्ते, नूपोऽपीन्द्रति सम्पदा । कुबेरन्ति महेभ्याश्च, यस्मिन् पुरवरेऽनिशम् ॥१७॥ रथ्यासु राजमार्गेषु, चन्दनाक्तजलाप्लुतिः । पारिजाततरोरेषा, सुषमामप्यचूचुरत् ॥१८॥ तत्र श्रीवीरसेनाह्वो, राजा राज्यमपालयत् । यस्य प्रभावादरयो, मुनिवेषमदीधरन् ॥१९॥ प्रसादे चन्द्रति श्रीमान्, प्रतापे मिहिरायते । दाने कर्णायते दण्डे, पितृराजायतेऽप्यसौ ॥२०॥ तस्य वीरमतीनाम्नी, देवी सर्वाङ्गसुन्दरी । तद्रूपेण जिता नूनं, रतिर्दृश्या न भूतले ॥२१॥ १. 'रोहणपर्वतायते' ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy