________________
शासनसम्राटपूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधरपूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारदपूज्याचार्यश्रीविजयकस्तूरसूरिप्रणीतं
चन्द्रचरित्रम्
(चन्द्रराजचरित्रम्) प्रथमः सर्गः
मङ्गलश्लोकाः यत्कृपालवमासाद्य, प्रजाः प्रापुः सुपद्धतिम् । तमाद्यं तीर्थपं वन्दे, सिद्धिधामगतं प्रभुम् ॥१॥ फणिराजफणच्छत्रं, पवित्रितजगत्रयम् । श्रीपार्श्वेशं दयासिन्धुं, मनसा प्रणिदध्महे ॥२॥ त्रिशलानन्दनं नौमि, तं सुरासुरसेवितम् । यदीयवाक्सुधाचामाद्, भवाब्धिर्गोष्पदायते ॥३॥ गौतमाद्यान् गणधरान्, देशनामृतवर्षिणः ।। भव्यकै रवशीतांशून्, नौम्यन्धतमसच्छिदे ॥४॥ आबाल्यब्रह्मनिष्ठं तं, गुरूणां गुरुनायकम् । श्रीनेमिसूरिसम्राजं, वन्दे कारुण्यविग्रहम् ॥५॥ शान्त्याचान्तमृदुस्वान्तं, भव्यसेव्यपदाम्बुजम् । वन्दे विज्ञानसूरीशं, महान्तं सुधियं गुरुम् ॥६॥ कुन्देन्दुघनसाराभां, कलहंसासनां सुरीम् । मूकस्याऽपि वचस्वित्व-कारणं नौमि शारदाम् ॥७॥ क्चाऽहं मन्दमति'नं, कूपमण्डूकसन्निभः । क्चाऽसौ महाधीः श्रीचन्द्र-स्त्रिजगच्चन्दिसद्यशाः ॥८॥