________________
तीर्थ-तीर्थपतिस्तवनम्
स्व. आ. विजयधर्मधुरन्धरसूरयः
यदीयं माहात्म्यं त्रिभुवनललामं हृदि धरन् जिनः श्रीनाभेयो नवनवतिपूर्वं समसरत् । गणाधीशाश्वाऽन्ये गणनरहिता मुक्तिमियरुः प्रभावाद् यस्याऽहं विमलमचलं स्तौमि सुखदम् ॥१॥
शिवादेवीनन्दो विजितसुमनःसायकवरः कुमारो मारेणाविचलितविचारो जिनवरः । विकारं विध्वस्याऽविचलविमलं ज्ञानमकलं शिवं चाऽऽप्तो यत्र प्रणमत जना रैवतगिरिम् ॥२॥
अये मोह ! त्वं ते मनसि किमु जानासि ललनासहायो निःसङ्गं कलयसि भूशं मां प्रहरसि । इतो दूरं यायाः परिजनयुतो सत्वरमधः कदम्बश्रीवीरो हतविहतमारोऽन्ववति माम् ॥३॥
अहं भ्रामं भ्रामं निखिलभुवने भ्रामकमतभ्रमीभूतः कामं क्षणमपि विरामं न प्रगतः । कदम्बेशः प्राप्तस्त्रिभुवनसमाख्यातयशसं समीक्ष्य श्रीवीरं हतविहतपापः समभवम् ॥४॥
कदम्बासंसर्गादशिवनिचयं प्राप्य हृदये मया सङ्गः कार्यो न हि पमतो निश्चितमिति ।